बाण चक्र


माररञ्जनी (मिश्र चापु) [बाण पा]

रमा-पतिना रक्षितोऽहम् ।
हिमात्मजा-पति-नुतेन श्री ।

समीरजादि-भक्त-नुतेन हिमाम्शु-वदनेन ।

काम-कोटि-सुन्दरेण कामितार्थ-फलदेन ।
नाग-तल्प-शयनेन खगारूढेण नग-धरेण ।
मुरळि-गान-सुधा-प्रियेन मार-रञ्जित-मानसेन ॥


चारुकेसी (चतुस्र जाति त्रिपुट) [बाण श्री]

पर-देवीम् उपास्महे भक्त-परायणीं वरानन्द-दायिनिम् ।

हर-सतीं मुर-हर-सोदरीं परात्परीं वर-प्रदायिनीम् ।

भव-शोक-वारिणीम् अभय-प्रदायिनीं मूल-स्वरूपिणीं जलज-मुखी ं मुरळि-रवहिनाम्-चारुकेसीम्


सरसङ्गी (मिश्र चापु) [बाण गो]

वन्देऽहं गोविन्द-पद-कमलम् ।

वन्दारु-जन-मन्दारम् अरविन्द-प्रियं सम-भासम् ।

मन्द-स्मित-सुन्दर-वदनम् सरसाङ्गम्
मन्दर-धरं निगम-विनुतं मधुर-मुरळि-गान-विलासम् ॥


हरिकाम्भोजी (चतुस्र जाति त्रिपुट) [बाण भू]

स्मर मानस स्मर मद-हरं हरम् ।

सुर-राज-सेवित-पद-पल्लवम् ।
हरि-सहोदरी-प्रिय-वल्लभम् ।

कृपा-पयोनिधिं फाल-नयनम् ।
कृत-पाप-हरणं पञ्च-वदनम् ।
क्रूर-जनाळि-भीकरं मुरळि-कृष्णादि-गायक-जन-प्रियम् ॥


धीरशङ्कराभरणम् (चतुस्र जाति त्रिपुट) [बाण मा]

श्री-सुब्रह्मन्यं समाश्रयाम्यहं सततम् ।
सर्वं सहाधरं सहस्रर्पणम् ।

भासुर-मणि-धरं केशवातल्पम् ।
आशं शीत-फल-प्रदम् आदि-शेशम् ।

प्रणव-नाद-प्रियं प्रणुत-चरितम् ।
पाप-हरम् धीर-शङ्कराभरणम्
प्रसिद्ध-मुरळि-गान-मधु-प्रियं क्षीर-प्रियम् ॥


नगानन्दिनी (चतुस्र जाति त्रिपुट) [बाण षा]

दाक्षायणि रक्ष मां धृतम् इक्षु धल्ल-वैरि मनोहरि ।

मोक्ष-प्रदायिनि सुधा-भक्षणि अखिल-जगत्-रक्षणि ।

नारायणि नगानन्दिनि सुमेरु-वासिनि सुन्दर-मुखि ।
केसरि-वाहनि वरदायिनि वर-मुरळि-गानोल्लासिनी ॥


[ ऋतु | रागाङ्ग रवळि | Indian Classical Music | Krishna Kunchithapadam ]


Last updated: Sun Jul 24 18:19:23 PST 2005
URL: http://www.geocities.com/krishna_kunchith/ravaLe-dn/05-bANa.html

Hosted by www.Geocities.ws

1