॥ श्रीः॥ ॥ श्री महालक्ष्मी अष्टोत्तर शत नामावलि ॥ ॐ प्रकृत्यै नमः । ॐ विकृत्यै नमः । ॐ विद्यायै नमः । ॐ सर्वभूतहितप्रदायै नमः । ॐ श्रद्धायै नमः । ॐ विभूत्यै नमः । ॐ सुरभ्यै नमः । ॐ परमात्मिकायै नमः । ॐ वाचे नमः । ॐ पद्मालयायै नमः । 10 ॐ पद्मायै नमः । ॐ शुचये नमः । ॐ स्वाहायै नमः । ॐ स्वधायै नमः । ॐ सुधायै नमः । ॐ धन्यायै नमः । ॐ हिरण्मय्यै नमः । ॐ लक्ष्म्यै नमः । ॐ नित्यपुष्टायै नमः । ॐ विभावर्यै नमः । 20 ॐ अदित्यै नमः । ॐ दित्यै नमः । ॐ दीप्तायै नमः । ॐ वसुधायै नमः । ॐ वसुधारिण्यै नमः । ॐ कमलायै नमः । ॐ कान्तायै नमः । ॐ कामाक्ष्यै नमः । ॐ क्रोधसंभवायै नमः । ॐ अनुग्रहपरायै नमः । 30 ॐ बुद्धये नमः । ॐ अनघायै नमः । ॐ हरिवल्लभायै नमः । ॐ अशोकायै नमः । ॐ अमृतायै नमः । ॐ दीप्तायै नमः । ॐ लोकशोक विनाशिन्यै नमः । ॐ धर्मनिलयायै नमः । ॐ करुणायै नमः । ॐ लोकमात्रे नमः । 40 ॐ पद्मप्रियायै नमः । ॐ पद्महस्तायै नमः । ॐ पद्माक्ष्यै नमः । ॐ पद्मसुन्दर्यै नमः । ॐ पद्मोद्भवायै नमः । ॐ पद्ममुख्यै नमः । ॐ पद्मनाभप्रियायै नमः । ॐ रमायै नमः । ॐ पद्ममालाधरायै नमः । ॐ देव्यै नमः । 50 ॐ पद्मिन्यै नमः । ॐ पद्मगन्धिन्यै नमः । ॐ पुण्यगन्धायै नमः । ॐ सुप्रसन्नायै नमः । ॐ प्रसादाभिमुख्यै नमः । ॐ प्रभायै नमः । ॐ चन्द्रवदनायै नमः । ॐ चन्द्रायै नमः । ॐ चन्द्रसहोदर्यै नमः । ॐ चतुर्भुजायै नमः । 60 ॐ चन्द्ररूपायै नमः । ॐ इन्दिरायै नमः । ॐ इन्दुशीतलायै नमः । ॐ आह्लादजनन्यै नमः । ॐ पुष्ट्यै नमः । ॐ शिवायै नमः । ॐ शिवकर्यै नमः । ॐ सत्यै नमः । ॐ विमलायै नमः । ॐ विश्वजनन्यै नमः । 70 ॐ तुष्टये नमः । ॐ दारिद्र्यनाशिन्यै नमः । ॐ प्रीतिपुष्करिण्यै नमः । ॐ शान्तायै नमः । ॐ शुक्लमाल्याम्बरायै नमः । ॐ श्रियै नमः । ॐ भास्कर्यै नमः । ॐ बिल्वनिलयायै नमः । ॐ वरारोहायै नमः । ॐ यशस्विन्यै नमः । 80 ॐ वसुन्धरायै नमः । ॐ उदाराङ्गायै नमः । ॐ हरिण्यै नमः । ॐ हेममालिन्यै नमः । ॐ धनधान्यकर्यै नमः । ॐ सिद्धये नमः । ॐ स्त्रैणसौम्यायै नमः । ॐ शुभप्रदायै नमः । ॐ नृपवेश्मगतान्दायै नमः । ॐ वरलक्ष्म्यै नमः । 90 ॐ वसुप्रदायै नमः । ॐ शुभायै नमः । ॐ हिरण्यप्राकारायै नमः । ॐ समुद्रतनयायै नमः । ॐ जयायै नमः । ॐ मङ्गळा देव्यै नमः । ॐ विष्णु वक्षस्स्थल स्थितायै नमः । ॐ विष्णुपत्न्यै नमः । ॐ प्रसन्नाक्ष्यै नमः । ॐ नारायण समाश्रितायै नमः । 100 ॐ दारिद्र्य ध्वंसिन्यै नमः । ॐ देव्यै नमः । ॐ सर्वोपद्रव वारिण्यै नमः । ॐ नवदुर्गायै नमः । ॐ महाकाल्यै नमः । ॐ ब्रह्म विष्णु शिवात्मिकायै नमः । ॐ त्रिकाल ज्ञान सम्पन्नायै नमः । ॐ भुवनेश्वर्यै नमः । 108॥ श्री महालक्ष्म्यष्टोत्तरशतनामावलिः सम्पूर्णां ॥