विदर्शिता यदा देवी कुब्जया पापया भृशम्। तदा शेते स्म सा भूमौ दिग्धविद्धेव किन्नरी॥ १॥ निश्चित्य मनसा कृत्यं सा सम्यगिति भामिनी। मन्थरायै शनैः सर्वमाचचक्षे विचक्षणा॥ २॥ सा दीना निश्चयं कृत्वा मन्थरावाक्यमोहिता। नागकन्येव निश्वस्य दीर्घमुष्णं च भामिनी॥ ३॥ मुहूर्तं चिन्तयामास मार्गमात्मसुखावहम्। सा सुहृच्चार्थकामा च तन्निशम्य सुनिश्चयम्॥ ४॥ बभूव परमप्रीता सिद्धिं प्राप्येव मन्थरा। अथ सामर्षिता देवी सम्यक् कृत्वा विनिश्चयम्॥ ५॥ संविवेशाबला भूमौ निवेश्य भ्रुकुटिं मुखे। ततश्चित्राणि माल्यानि दिव्यान्याभरणानि च॥ ६॥ अपविद्धानि कैकेय्या तानि भूमिं प्रपेदिरे। तया तान्य् अपविद्धानि माल्यान्याभरणानि च॥ ७॥ अशोभयन्त वसुधां नक्षत्राणि यथा नभः। क्रोधागारे च निपतिता सा बभौ मलिनाम्बरा॥ ८॥ एकवेणीं दृढां बद्ध्वा गतसत्त्वेव किन्नरी। आज्ञाप्य तु महाराजो राघवस्याभिषेचनम्॥ ९॥ उपस्थानमनुज्ञाप्य प्रविवेश निवेशनम्। अद्य रामाभिषेको वै प्रसिद्ध इति जज्ञिवान्॥ १०॥ प्रियार्हां प्रियमाख्यातुं विवेशान्तःपुरं वशी। स कैकेय्या गृहं श्रेष्ठं प्रविवेश महायशाः॥ ११॥ पाण्डुराभ्रमिवाकाशं राहुयुक्तं निशाकरः। शुकबर्हिणसंघुष्टं क्रौञ्चहंसरुतायुतम्॥ १२॥ वादित्ररवसङ्घुष्टं कुब्जावामनिकायुतम्। लतागृहैश्चित्रगृहैश्चम्पकाशोकशोभितैः॥ १३॥ दान्तराजतसौवर्णवेदिकाभिः समायुतम्। नित्यपुष्पफलैर्वृक्षैर्वापीभिश्चोपशोभितम्॥ १४॥ दान्तराजतसौवर्णैः संवृतं परमासनैः। विविधैरन्नपानैश्च भक्ष्यैश्च विविधैरपि॥ १५॥ उपपन्नं महार्हैश्च भूषणैस्त्रिदिवोपमम्। तत् प्रविश्य महाराजः स्वमन्तःपुरमृद्धिमत्॥ १६॥ न ददर्श प्रियं भार्यां कैकेयीं शयनोत्तमे। स कामबलसंयुक्तो रत्यर्थी मनुजाधिपः॥ १७॥ अपश्यन् दयितां भार्यां पप्रच्छ विषसाद च। न हि तस्य पुरा देवी तां वेलामत्यवर्तत॥ १८॥ न च राजा गृहं शून्यं प्रविवेश कदाचन। ततो गृहगतो राजा कैकेयीं पर्यपृच्छत॥ १९॥ यथापुरमविज्ञाय स्वार्थलिप्सुमपण्डिताम्। प्रतिहारी त्वथोवाच संत्रस्ता सुकृताञ्जलिः॥ २०॥ देव देवी भृशं क्रुद्धा क्रोधागारमभिद्रुता। प्रतीहार्या वचः श्रुत्वा राजा परमदुर्मनाः॥ २१॥ विषसाद पुनर्भूयो लुलितव्याकुलेन्द्रियः। तत्र तां पतितां भूमौ शयानामतथोचिताम्॥ २२॥ प्रतप्त इव दुःखेन सोऽपश्यज्जगतीपतिः। स वृद्धस्तरुणीं भार्यां प्राणेभ्योऽपि गरीयसीम्॥ २३॥ अपापः पापसंकल्पां ददर्श धरणीतले। लतामिव विनिष्कृत्तां पतितां देवतामिव॥ २४॥ किन्नरीमिव निर्धूतां च्युतामप्सरसं यथा। मालामिव परिभ्रष्टां हरिणीमिव संयताम्॥ २५॥ करेणुमिव दिग्धेन विद्धां मृगयुना वने। महागज इवारण्ये स्नेहात् परिममर्श ताम्॥ २६॥ परिमृज्य च पाणिभ्यामभिसंत्रस्तचेतनः। कामी कमलपत्राक्षीमुवाच वनितामिदम्॥ २७॥ न तेऽहमभिजानामि क्रोधमात्मनि संश्रितम्। देवि केनाभियुक्तासि केन वासि विमानिता॥ २८॥ यदिदं मम दुःखाय शेषे कल्याणि पांसुषु। भूमौ शेषे किमर्थं त्वं मयि कल्याणि जीवति॥ २९॥ भूतोपहतचित्तेव मम चित्तप्रमाथिनि। सन्ति मे कुशला वैद्यास्त्वभितुष्टाश्च सर्वशः॥ ३०॥ सुखितां त्वां करिष्यन्ति व्याधिमाचक्ष्व भामिनि। कस्य वा ते प्रियं कार्यं केन वा विप्रियं कृतम्॥ ३१॥ कः प्रियं लभतामद्य को वा सुमहदप्रियम्। मा रोदीर्मा च कार्षीस्त्वं देवि सम्परिशोषणम्॥ ३२॥ अवध्यो वध्यतां को वा वध्यः को वा विमुच्यताम्। दरिद्रः को भवत्वाढ्यो द्रव्यवान् वाप्यकिञ्चनः॥ ३३॥ अहं चैव मदीयाश्च सर्वे तव वशानुगाः। न ते कंचिदभिप्रायं व्याहन्तुमहमुत्सहे॥ ३४॥ आत्मनो जीवितेनापि ब्रूहि यन्मनसेच्छसि। बलमात्मनि जानन्ती न मां शङ्कितुमर्हसि॥ ३५॥ करिष्यामि तव प्रीतिं सुकृतेनापि ते शपे। यावदावर्तते चक्रं तावती मे वसुंधरा॥ ३६॥ प्राचीनाः सिन्धुसौवीराः सौराष्ट्रा दक्षिणापथाः। वङ्गाङ्गमगधा मत्स्याः समृद्धाः काशिकोसलाः॥ ३७॥ तत्र जातं बहुद्रव्यं धनधान्यमजाविकम्। ततो वृणीष्व कैकेयि यद्यत् त्वं मनसेच्छसि॥ ३८॥ किमायासेन ते भीरु उत्तिष्ठोत्तिष्ठ शोभने। तत्त्वं मे ब्रूहि कैकेयि यतस्ते भयमागतम्। तत् ते व्यपनयिष्यामि नीहारमिव रश्मिवान्॥ ३९॥ तथोक्ता सा समाश्वस्ता वक्तुकामा तदप्रियम्। परिपीडयितुं भूयो भर्तारमुपचक्रमे॥ ४०॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् अयोध्याकाण्डे कैकेय्यनुनयो नम दशमः सर्गः ॥२-१०॥