home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
अयोध्याकाण्डम्

॥ सर्गे विषय सार सारिणी॥


सर्गे विषय सारम् पठसि
श्रीरामसद्गुणानां वर्णनं श्रीरामं यौवराज्ये स्थापयितुं दशरथस्य विचारस्तदर्थं मन्त्रणां कर्तुं विभिन्न- नरेशानां पौराणां जानपदानां च राज्ञा स्वसंसदि समाह्वानम् पाठम्
दशरथकर्तृकः श्रीरामराज्याभिषेकप्रस्तावः संसत्सदस्यैः श्रीरामगुणानां वर्णनं कुर्वद्भिरुक्त- प्रस्तावस्य सहर्षं युक्तियुक्तं समर्थनम् पाठम्
वसिष्ठवामदेवौ प्रति श्रीरामराज्याभिषेकसामग्री- संग्रहार्थं राज्ञो दशरथस्यानुरोधस्ताभ्यां सेवकान् प्रति तदनुरूपादेशस्य दानं राजाज्ञया सुमन्त्रेण श्रीरामस्य राजसभायामानयनं राज्ञा श्रीरामं प्रति हितस्योपदेशश्च पाठम्
श्वो रामाभिषेकं निश्चित्य राज्ञा सुमन्त्रं प्रेष्य तेन समानीतं श्रीरामं प्रति किञ्चिदावश्यकं निवेद्य तस्य स्वगृहे प्रस्थापनं श्रीरामेण कौसल्याभवनं गत्वा मातरं प्रति स्वाभिषेकवृत्तस्य सूचनं मातु- राशिषं प्राप्य लक्ष्मणेन सह प्रेमपूर्वकं वार्तालापं कृत्वा स्वकीये भवने तस्य गमनम् पाठम्
राज्ञोऽनुरोधेन सीतासहिताय श्रीरामाय वसिष्ठ- कर्तृकमुपवासव्रतदीक्षादानं वसिष्ठेन राजानं प्रति वृत्तस्यास्य निवेदनं राज्ञः स्वान्तःपुरे प्रवेशः पाठम्
ससीतस्य श्रीरामस्य नियमपरायणता संहृष्टैः पुरजनैर्नगरस्यालंकरणं राजानं प्रति कृतज्ञता - प्रकटनं च पुर्य्यां जानपदजनानां समुदायस्यैकत्र-समवायः पाठम्
भाविनः श्रीरामाभिषेकस्य वृत्तमाकर्ण्य खिन्नया मन्थरया कैकेय्या हृदये भेदभावस्योत्पादनं प्रीतया कैकेय्या कुब्जायै पुरस्काररूपेणाभूषणस्य दानं वरं वरयितुं प्रेरणं च पाठम्
मन्थरया पुनः श्रीरामराज्याभिषेकस्य कैकेयी- कृतेऽनिष्टकरत्वे प्रतिपादिते कैकेय्या श्रीरामगुणान् वर्णयित्वा तदीयाभिषेकस्य समर्थनं तदनुकुब्जया पुनः श्रीरामराज्यस्य भरताय भयोत्पादकत्वं प्रतिपाद्य कैकेय्या मनसि भेदभावोत्पादनम् पाठम्
कुब्जायाः कुचक्रेण कैकेय्याः कोपभवने प्रवेश: पाठम्
१० कैकेय्याः सद्मनि समागतस्य दशरथस्य तां कोपभवनगतामवलोक्य दुःखं तेन तस्यै सान्त्वना- प्रदानं च पाठम्
११ कैकेय्या राजानं प्रतिज्ञया बद्ध्वा तेन प्राक् प्रदत्तौ वरौ स्मारयित्वा तयोरेकेन भरताभिषेकस्यापरेण च श्रीरामकर्तृकचतुर्दशवर्षावधिकवनवासस्य च याचनम् पाठम्
१२ राज्ञो दशरथस्य चिन्ता विलापश्च तेन कैकेय्या भर्त्सनं सान्त्वनं तादृशवरयाच्ञातो विनिवर्तितु- मनुरोधकरणं च पाठम्
१३ राज्ञो विलापः कैकेयीं प्रति तस्यानुनयो विनयश्च पाठम्
१४ कैकेय्या राज्ञः सत्ये दृढतरावस्थानाय प्रेरणं निज-प्रार्थितवरपूर्तये तं प्रति दुराग्रहप्रकटनं च, अन्तःपुरद्वारमागत्य वसिष्ठेन सुमन्त्रस्य महा- राजसंनिधौ प्रेषणं राजाज्ञया सुमन्त्रस्य श्रीराम- मानेतुं ततो गमनं च. पाठम्
१५ राजाज्ञया श्रीराममानेतुं सुमन्त्रस्य तद्भवने गमनम् पाठम्
१६ श्रीरामसद्मनि प्रविष्टेन सुमन्त्रेण श्रीरामं प्रति महाराजसंदेशस्य श्रावणं सीतयानुमतेन श्रीरामेण सलक्ष्मणेन रथमारुह्य गीतवाद्यसहकारेण पथि पौराणां स्त्रीपुरुषाणां विविधा वार्ता आकर्णयता प्रस्थानम् पाठम्
१७ राजमार्गसुषमामवलोकयतः सुहृदां वचांसि शृण्वतश्च श्रीरामस्य पितुर्भवने प्रवेशः पाठम्
१८ पितुश्चिन्ताया: किं कारणमिति कैकेयीं प्रति श्रीरामस्यानुयोगः कैकेय्या स्वप्रार्थितवरयोरितिवृत्तं श्रावयित्वा श्रीरामस्य वनवासाय प्रेरणम् पाठम्
१९ श्रीरामकैकेयीसंवादो वनगमनमङ्गीकृत्य श्रीरामस्य मातुराज्ञां ग्रहीतुं तत्सत्रिधौ गमनम् पाठम्
२० राज्ञो दशरथस्येतरासां राज्ञीनां विलापः श्रीरामस्य कौसल्याया भवने गमनं तां प्रति स्ववनवास- वृत्तान्तनिवेदनं कौसल्याया मूर्च्छा भुवि पतनं च श्रीरामेणोत्थापितायास्तस्यास्तमवलोकयन्त्या विलापः पाठम्
२१ लक्ष्मणस्य रोषो बलाद्राज्यं स्वायत्तीकर्तुं तेन श्रीरामस्य प्रेरणं श्रीरामेण पितुराज्ञायाः पालनमेव धर्म इति प्रतिपाद्य मातुर्भ्रातुश्च प्रतिबोधनम् पाठम्
२२ लक्ष्मणं प्रबोधयता श्रीरामेण स्वीये वनवासे दैवमेव कारणमिति प्रतिपादनमभिषेकसामग्री- मपसारयितुमादेशदानं च पाठम्
२३ लक्ष्मणस्योजस्विवचनं तेन दैवस्य खण्डर्न पुरुषार्थस्य मण्डनं च तस्य श्रीरामाभिषेकविरोधिभिः सहयोद्धुमुद्यमश्च पाठम्
२४ विलपन्त्याः कौसल्याया आत्मानमपि वनं नेतुं श्रीरामं प्रत्याग्रहः, पत्युः सेवैव नारीणां धर्म इति प्रतिपाद्य श्रीरामेण तस्या निवारणं स्वकीयवन- गमने तस्या अनुमतिग्रहणं च पाठम्
२५ कौसल्यया श्रीरामस्य वनयात्रायै मङ्गलकामना- पुरःसरं स्वस्तिवाचनकरणं तां प्रणम्य श्रीरामस्य सीताया भवनं प्रति गमनम् पाठम्
२६ श्रीरामस्यौदासीन्यं दृष्ट्वा सीतया तं प्रति तत्कारणस्य जिज्ञासनं पितुराज्ञया वनं गन्तुमात्मनो निश्चयं ब्रुवता श्रीरामेण गृहेऽवस्थातुं सीताया बोधनम् पाठम्
२७ आत्मानमपि सहैव नेतुं सीतायाः श्रीरामं प्रति प्रार्थना पाठम्
२८ वनवासे क्लेशं वर्णयता श्रीरामेण सीतायास्तत्र गमनान्निवारणम् पाठम्
२९ सीतया श्रीरामं प्रति तेन सहात्मनो वनगमनौ चित्यस्य प्रतिपादनम् पाठम्
३० सीताया वनगमनाय भृशमाग्रहं विलापं व्याकुलतां चावलोक्य श्रीरामेण तस्यै स्वेन सह वने चलितुमनुज्ञाप्रदानं पितुर्मातुर्गुरूणां च सेवाया महत्त्वस्य वर्णनं वनगमनोपक्रमाय गुहवस्तूनि ब्राह्मणादिभ्यो दातुं सीतां प्रत्यादेशदानं च पाठम्
३१ श्रीरामलक्ष्मणसंवादः श्रीरामस्यादेशेन लक्ष्मणस्य सुहृज्जनानामन्त्र्य दिव्यमायुधमानीय च वनं गन्तुमुद्यमः श्रीरामेण तं प्रति ब्राह्मणेभ्यो धनं वितरितुं स्वकीयविचारस्य प्रकटनम् पाठम्
३२ सीतया सह श्रीरामेण वासिष्ठं सुयज्ञमाहूय तस्मै तत्पल्यै च महार्हाभूषणरत्नधनप्रभृतीनां दानं सलक्ष्मणेन रामेण ब्राह्मणेभ्यो बटुभ्यो निजाश्रितेभ्यः सेवकेभ्यः त्रिजटाख्याय विप्राय सुहृज्जनेभ्यश्च धनस्य दानम् पाठम्
३३ सीतालक्ष्मणसहितस्य श्रीरामस्य दुःखमग्न- पौरजनमुखेभ्यो विविधा वार्ता: श्रावं श्रावं पितु-दर्शनार्थं कैकेय्या भवने गमनम् पाठम्
३४ सीतालक्ष्मणसहितेन श्रीरामेण सस्त्रीगणस्य राज्ञः पार्श्वं गत्वा वनवासायानुज्ञायाः प्रार्थनं राज्ञः शोको मूर्च्छा च श्रीरामेण तस्य सान्त्वनं श्रीराम- मुरसाऽऽश्लिष्य राज्ञो भूयो विसंज्ञता च पाठम्
३५ सुमन्त्रेण प्रबोधिताया भसितायाश्च कैकेय्या अक्षोभः पाठम्
३६ श्रीरामेण सह सैन्यं कोषं च प्रेषयितुं राज्ञो दशरथस्यादेशः कैकेयीकर्तृकस्तस्य विरोधः सिद्धार्थेन कैकेय्याः प्रबोधनं राज्ञा स्वयमपि श्रीरामेण सह वनं गन्तुमिच्छायाः प्रकटनम् पाठम्
३७ सलक्ष्मणेन श्रीरामेण वल्कलवस्त्रस्य धारणं सीताया वल्कलधारणेनान्तःपुरस्त्रीणां खेदो गुरुणा वसिष्ठेन कैकेयीं निर्भर्त्स्य सीताकर्तृकवल्कल- धारणस्य विरोधश्च पाठम्
३८ सीताकर्तृकवल्कलधारणस्यानौचित्यं प्रतिपाद्य राज्ञा कैकेय्या भर्त्सनं श्रीरामस्य राजानं प्रति कौसल्यायां कृपादृष्टिं कर्तुमनुरोधश्च पाठम्
३९ राज्ञो दशरथस्य विलापस्तदाज्ञया सुमन्त्रेण श्रीरामस्य कृते रथस्यानयनं कोषाध्यक्षेण सीतायै बहुमूल्यवस्त्राभूषणानां समर्पणं कौसल्यायाः सीतां प्रति पतिसेवाया उपदेश:, सीतया तस्याङ्गीकरणं श्रीरामस्य मातरं प्रति राज्ञि दोषदृष्टिं परित्यक्तु- मनुरोधोऽन्या मातृश्च सम्बोध्य वनं गन्तुमनुज्ञा- प्रार्थनं च पाठम्
४० दशरथं परिक्रम्य ससीतालक्ष्मणस्य श्रीरामस्य कौसल्याप्रभृतिमातृः प्रति प्रणामः, सुमित्राया लक्ष्मणं प्रत्युपदेशः, रथ उपविश्य रामादीनां वनं प्रति प्रस्थानं पौरै राज्ञीभिश्च सह दशरथस्य सशोकावस्था पाठम्
४१ श्रीरामस्य वनगमनेनान्तः पुरस्त्रीणां विलापः पुर- वासिनां सशोकावस्था च पाठम्
४२ राज्ञो भुवि निपतनं श्रीरामस्य कृते विलपनं च, कैकेयीकर्तृकनिजाङ्गस्पर्शस्य राज्ञा निषेधः कैकेय्याः परित्यागश्च कौसल्यायाः सेवकानां च सहकारेण तस्य कौसल्याभवने गमनं तत्रापि श्रीरामस्य कृते तेन दुःखस्यैवानुभवकरणम् पाठम्
४३ कौसल्याया विलापः पाठम्
४४ सुमित्रया कौसल्याया आश्वासनम् पाठम्
४५ भरते महाराजे दशरथे च प्रणयं रक्षितुमनुरुन्धतः श्रीरामस्य पुरवासिनः प्रति पुरे निवर्तनाय प्रार्थना, पौराणां वृद्धब्राह्मणानां रामं प्रति पुरे निवर्तितु - माग्रहस्तैः सह श्रीरामस्य तमसातटे गमनम् पाठम्
४६ सीतालक्ष्मणाभ्यां सह श्रीरामस्य रात्रौ तमसात निवासस्तत्र मातुः पितुरयोध्यायाश्च कृते तदीया चिन्ता, सुप्तान् पौरजनान् विहाय तस्य वनं प्रति गमनम् पाठम्
४७ प्रातः प्रबुद्धानां पौराणां विलापो निराशानां च तेषां नगरे निवर्तनम् पाठम्
४८ पुरवासिनीनां स्त्रीणां विलापः पाठम्
४९ ग्राम्याणां वार्तां शृण्वतः श्रीरामस्य कोसल- सीमानमतिक्रम्य गमनं वेदश्रुतिगोमतीस्यन्दिका- ख्याः सरितः समुत्तीर्य्य तस्य सुमन्त्रं प्रति किंचिन्निवेदनम् पाठम्
५० मार्गे श्रीरामेणायोध्यापुरीतो वनवासायानुज्ञा- प्रार्थनं शृङ्गवेरपुरे गङ्गातटे समुपस्थाय तत्र रात्रौ तस्य निवासो निषादराजेन गुहेन तस्य सत्कारश्च पाठम्
५१ निषादराजगुहसमक्षे लक्ष्मणस्य विलापः पाठम्
५२ श्रीरामस्याज्ञया गुहेन स्वामात्यद्वारा नौकाया आनयनं श्रीरामस्य सुमन्त्रं प्रत्ययोध्यायां निवर्तितु- मादेशः मातुः पितुश्च कृते संदेशश्रावणं स्वयमपि वनमेव गन्तुमाग्रहं कुर्वतः सुमन्त्रस्य श्रीरामेण सप्रबोधं निवर्तनं श्रीरामादीनां नौकाया- मारोहणं सीताया गङ्गां प्रति प्रार्थना, नौकया गङ्गामुत्तीर्य श्रीरामादीनां वत्सदेशे गमनं सायं वृक्षस्य मूले निवासनाय प्रस्थानं च पाठम्
५३ श्रीरामेण कैकेयीतः कौसल्याप्रभृतीमनिष्टस्याशङ्कां प्रतिपाद्य लक्ष्मणस्यायोध्यायां निवर्तनाय प्रयत्न- करणं श्रीरामं विना स्वीयं जीवनमसम्भवमुक्त्वा लक्ष्मणेन तत्र गमनस्यानङ्गीकरणं ततः श्रीरामेण तस्मै वनवासायानुज्ञाप्रदानम् पाठम्
५४ लक्ष्मणसीतासहितस्य श्रीरामस्य प्रयागे गङ्गायमुना- संगमसंनिधौ भरद्वाजाश्रमे गमनं मुनिना तस्या- तिथ्यकरणं चित्रकूटेऽवस्थातुं तस्मै सम्मतिदानं चित्रकूटस्य महत्तायाः शोभायाश्च वर्णनम् पाठम्
५५ भरद्वाजेन स्वस्तिवाचनपूर्वकं श्रीरामादीनां विसर्जनं तदर्थं चित्रकूटमार्गस्य बोधनं च तेषां समेषां स्वनिर्मितेन प्लवेन यमुनामुत्तीर्य परतटे गमनं यमुनां श्यामवटं प्रति च सीतायाः प्रार्थना यमुना- तटवर्तिपथा क्रोशमात्रं गत्वा त्रयाणामपि वने परिभ्रमणं यमुनायाः समतले तटे तेषां रात्रौ निवासश्च पाठम्
५६ वनस्य शोभां पश्यतां मिथो दर्शयतां च श्रीराम- प्रभृतीनां चित्रकूटे गमनं वाल्मीकिदर्शनं कृत्वा श्रीरामस्याज्ञया लक्ष्मणेन वने पर्णशालाया निर्माणं तस्या वास्तुशान्तिं कृत्वा तेषां सर्वेषां तत्र प्रवेशः पाठम्
५७ सुमन्त्रस्यायोध्यायां परावर्तनं तस्य मुखतः श्रीरामस्य संदेशं श्रुत्वा पौराणां विलापो दशरथस्य कौसल्या- याश्च मूर्च्छान्तःपुरस्थानां राज्ञीनामार्तनादश्च पाठम्
५८ दशरथस्याज्ञया सुमन्त्रेण श्रीरामलक्ष्मणयोः संदेशस्य श्रावणम् पाठम्
५९ श्रीरामस्य शोकेन समेषां जडचेतनानामयोध्यापुर्याश्च दुरवस्थाया वर्णनं राज्ञो दशरथस्य विलापश्च पाठम्
६० कौसल्याया विलापः सुमन्त्रेण तस्या आश्वासनं च पाठम्
६१ कौसल्याया राजानं प्रति सविलापमुपालम्भः पाठम्
६२ दुःखितेन राज्ञा साञ्जलिबन्धं कौसल्यायाः प्रसादनं कौसल्यया तस्य पादयोः प्रणिपत्य क्षमाप्रार्थनम् पाठम्
६३ राज्ञो दशरथस्य शोकस्तेन कौसल्यां प्रति स्वकर्तृक-मुनिकुमारवधविषयकप्रसंगस्य श्रावणम् पाठम्
६४ राज्ञा स्वकृतेन मुनिकुमारवधेन तदीयपित्रोर्विलापस्य तत्प्रदत्तशापस्य च प्रसंगं श्रावयित्वा कौसल्यायाः पार्श्वे रोदं रोदं निशीथे स्वप्राणानां परित्यागः पाठम्
६५ वन्दिजनकर्तृको राज्ञः स्तवपाठः, राजानं दशरथं दिवंगतं मत्वा राज्ञीनां विलापः पाठम्
६६ राजार्थं कौसल्याया विलापस्तत्कर्तृकं कैकेय्या भर्त्सनं मन्त्रिभी राज्ञः शवस्य तैलपूर्णे कटा स्थापनं विलापोऽयोध्यापुर्याः श्रीहीनता पुरवासिनां शोकश्च पाठम्
६७ मार्कण्डेयप्रभृतिमुनिभिर्मन्त्रिभिश्च राजानं विना देशस्य भाविनिदुरवस्थां वर्णयित्वा कमपि राजपदे प्रतिष्ठापयितुं वसिष्ठं प्रत्यनुरोधः पाठम्
६८ वसिष्ठस्याज्ञया पञ्चानां दूतानामयोध्यातः केकय- देशस्य राजगृहे नगरे गमनम् पाठम्
६९ भरतस्य चिन्ता तं प्रसादयितुं मित्राणां प्रयासस्तैः पृष्टेन भरतेन तेषां समक्षे स्वदृष्टस्य भयंकर- दुःस्वप्नस्य वर्णनम् पाठम्
७० दूतैर्भरताय तदीयमातुलमातामहयोः कृत उपहार्य- वस्तूनामर्पणं वसिष्ठसंदेशस्य च श्रावणं भरतेन पित्रादीनां कुशलं पृष्ट्वा मातामहादनुज्ञामुपहार्य- वस्तूनि चोपलभ्य शत्रुघ्नेन सहायोध्यां प्रति प्रस्थानम् पाठम्
७१ सेनया सह भरतस्य रथेन यात्रामार्गे विविधानि स्थानानि समुल्लङ्घय तस्योज्जिहानायां नगर्या - मेकस्मिन्नुद्याने प्रवेशस्तत्र सेनां शनैः शनैरागन्तु- मादिश्य स्वयं रथेन तीव्रवेगात् पुरःसृत्य सालवनमतिक्रम्यायोध्यानिकटे गमनं ततश्च अयोध्याया दुरवस्थां दर्श दर्शमग्रे सरणं सारथिं प्रति स्वीयं दुखपूर्णमुद्गारं प्रकटय्य राजभवने प्रवेशश्च पाठम्
७२ कैकेयीभवने प्रविश्य भरतेन तस्याः समक्षे प्रणमनं तन्मुखादेव पितुः परलोकवासवृत्तं विज्ञाय दुःखितस्य तस्य विलापः क्व तदानीं श्रीराम इति प्रश्ने कैकेयीमुखादेव श्रुत्वा तेन श्रीरामवनगमनविषयकवृत्तस्य ज्ञानम् पाठम्
७३ भरतेन कैकेय्या धिक्कारणं तां प्रति महतो रोषस्य प्रकटनं च पाठम्
७४ भरतेन कैकेय्या भर्त्सनम् पाठम्
७५ कौसल्यायाः समक्षे भरतस्य शपथः पाठम्
७६ राज्ञो दशरथस्यान्त्येष्टिसंस्कारः पाठम्
७७ भरतेन पितुः श्राद्धे ब्राह्मणेभ्यो बहुधनरत्नप्रभृतीनां दानं त्रयोदशे दिनेऽस्थिसंचयस्य शिष्टं कार्यं पूरयितुं पितुश्चिताभूमौ गत्वा भरतशत्रुघ्नयोर्विलापो वसिष्ठसुमन्त्राभ्यां तयोराश्वासनं च पाठम्
७८ शत्रुघ्नस्य रोषस्तेन कुब्जाया भूमौ विकर्षणं भरतस्यादेशेन तस्या मोचनं च पाठम्
७९ मन्त्रिप्रभृतीनां भरतं प्रति राज्यमङ्गीकर्तुं प्रस्तावो भरतेनाभिषेकसामग्रीं परिक्रम्य श्रीराम एव राज्यमधिकरोति' इति प्रतिपाद्य तन्निवर्तयितुं वने गन्तुं व्यवस्थाकरणाय सर्वान् प्रत्यादेशदानं च पाठम्
८० अयोध्यातो गङ्गातटमभिव्याप्य सुरम्यशिविरकूपादि- युतस्य सुखदराजमार्गस्य निर्माणम् पाठम्
८१ प्रातर्मङ्गलवाद्यघोषमाकर्ण्य भरतस्य दुःखं तत्सन्नि- वर्त्य विलपनं राजसभामागतेन वसिष्ठेन मन्त्रि- प्रभृतीनानायितुं दूतानां प्रेषणम् पाठम्
८२ वसिष्ठस्य भरतं प्रति राज्ये स्वमभिषेचयितुमादेशो भरतेन तमादेशमनुचितं कथयित्वा तस्यानङ्गी- करणं श्रीरामं निवर्तयितुं वने गमनार्थं व्यवस्था- करणाय सर्वान् प्रत्यादेशदानं च पाठम्
८३ भरतस्य वनयात्रा शृङ्गवेरपुरे रात्रिवासश्च पाठम्
८४ स्वबन्धून् नदीसंरक्षणाय युद्धार्थमुद्यमाय चादिश्य गुहेोपहारवस्तून्यादाय भरतस्य समीपे गमनं तं प्रत्यातिथ्यं स्वीकर्तुमनुरोधश्च पाठम्
८५ गुहभरतयोर्वार्तालापो भरतस्य शोकश्च पाठम्
८६ निषादराजेन गुहेन लक्ष्मणसद्भावविलापयोर्वर्णनम् पाठम्
८७ भरतस्य मूर्च्छया गुहस्य शत्रुघ्नस्य मातॄणां च दुःखं संज्ञामाप्तस्य भरतस्य गुहं प्रति श्रीरामप्रभृतीनां भोजनशयनविषये प्रश्नो गुहेन तं प्रति सम्पूर्ण- वृत्तस्य वर्णनम् पाठम्
८८ श्रीरामस्य कुशशय्यां दृष्ट्वा भरतस्य शोकपूर्ण- उद्गारस्तेन स्वयमपि वल्कलजटाधारणपूर्वकं वने निवासाय विचारस्य प्रकटनम् पाठम्
८९ गङ्गामुत्तीर्य सेनासहितस्य भरतस्य भरद्वाजाश्रमे गमनम् पाठम्
९०भरतभरद्वाजयोः समागमो मुनिना स्वाश्रम एव वासं कर्तुं तं प्रत्यादेशस्य प्रदानम् पाठम्
९१भरद्वाजेन ससैन्यस्य भरतस्य दिव्यः सत्कारः पाठम्
९२ भरतेन भरद्वाजाद् गन्तुमनुज्ञाग्रहणं श्रीराम- स्याश्रमे गमनाय मार्गस्य परिचयग्रहणं मुनये मातॄणां परिचयं दत्त्वा ततश्चित्रकूटं गन्तुं ससैन्यस्य भरतस्य प्रस्थानम् पाठम्
९३ससैन्यस्य भरतस्य चित्रकूटयात्राया वर्णनम् पाठम्
९४श्रीरामः सीतां चित्रकूटशोभामदर्शयत् पाठम्
९५ श्रीरामेण सीतां प्रति सरिद्वराया मन्दाकिन्याः सुषमाया वर्णनम् पाठम्
९६त्रस्तानां वन्यमृगाणां पलायनहेतुमभिज्ञातुं श्रीरामस्य सौमित्रिं प्रत्यादेशः, लक्ष्मणेन शालवृक्षमारुह्य भरतसैन्यनिरीक्षणं तं प्रति स्वरोषपूर्णोद्वारस्य प्रकटनम् पाठम्
९७ श्रीरामेण कुपितं सौमित्रिं परिसान्त्व्य भरत- सद्भावस्य वर्णनम्, लज्जितस्य लक्ष्मणस्य श्रीरामपार्श्वे गमनम्, तस्य शैलस्य समन्ताद् भरतसैन्यस्य निवेशनम् पाठम्
९८भरतकर्तृका श्रीरामाश्रममन्वेष्टुं व्यवस्था तेनाश्रमस्य दर्शनं च पाठम्
९९ भरतेन शत्रुघ्नादिभिः सह श्रीरामाश्रमे गत्वा तत्पर्णशालाया निरीक्षणं रुदता तेन भ्रातुश्चरणयो- र्निपतनम्, श्रीरामेण तैः सार्धं समालिङ्गनम् पाठम्
१०० श्रीरामस्य भरतं प्रति कुशलप्रश्नव्याजेन राजनीतेरुपदेश: पाठम्
१०१ श्रीरामस्य भरतं प्रति वनागमनहेतुविषयिकी जिज्ञासा, भरतस्य तं प्रति राज्यग्रहणाय प्रार्थना, श्रीरामेण तदस्वीकरणम् पाठम्
१०२ भरतेन भूयः श्रीरामं प्रति राज्यग्रहणायानुरोधं कृत्वा तस्मै पितृनिधनसमाचारस्य निवेदनम् पाठम्
१०३ श्रीरामादीनां विलापः तैः पित्रे जलाञ्जलिदानं पिण्डदानं रोदनं च पाठम्
१०४वसिष्ठेन सहागच्छन्त्याः कौसल्याया मन्दाकिनी-तटे सुमित्रादीनां समक्षे दुःखपूर्णोद्वार:, सीता- रामलक्ष्मणकर्तृका मातॄणां चरणवन्दना वसिष्ठं प्रणम्य श्रीरामादीनां सर्वैः सहोपवेशनम् पाठम्
१०५श्रीरामं प्रत्ययोध्यां गत्वा राज्यग्रहणार्थं भरतस्यानु- रोधः, जीवनस्यानित्यतां निरूपयतः श्रीरामस्य 'पितृनिधनहेतोः शोको न कर्तव्यः' इति भरतं प्रत्युपदेशस्तथा श्रीरामेण पितुराज्ञापालनार्थमेव राज्यमगृहीत्वा वनवासायैव स्वाभिप्रायप्रकटनम् पाठम्
१०६ श्रीरामं प्रति भूयो भरतस्यायोध्यागमनाय राज्य- ग्रहणाय च प्रार्थना पाठम्
१०७श्रीरामस्य भरतं परिसान्त्व्यायोध्यागमनार्थं तं प्रत्यादेशः पाठम्
१०८ श्रीरामं प्रति नास्तिकमतमवलम्ब्य जाबालिमुने- र्भाषणम् पाठम्
१०९श्रीरामकर्तृकं जाबालिमुनेर्नास्तिकमतं निरस्या- स्तिकमतस्य स्थापनम् पाठम्
११० वसिष्ठस्य सृष्टिपरम्परया सहेक्ष्वाकुकुलपरम्परामुप- वर्ण्य ज्येष्ठस्यैव राज्याभिषेचनमुचितमिति निश्चित्य श्रीरामं प्रति राज्यग्रहणार्थमनुरोध : पाठम्
१११वसिष्ठेनैवमुक्तेऽपि श्रीरामं पितुराज्ञापालनादविरतं दृष्ट्वा भरतस्य प्रायोपवेशनायोद्यमनं श्रीरामेण तं प्रबोध्यायोध्यायां निवर्तनाय तं प्रत्यादेशदानम् पाठम्
११२ ऋषीणां भरतं प्रति श्रीरामाज्ञया निवर्तितुं सम्मतिर्भरतस्य श्रीरामचरणयोः प्रणिपत्य पुरीं प्रति चलितुं तत्प्रति प्रार्थना श्रीरामेण तं प्रबोध्य स्वीयां चरणपादुकां दत्त्वा तेषां सर्वेषां ततः प्रस्थापनम् पाठम्
११३ भरद्वाजेन सह मिलित्वा भरतस्यायोध्यां प्रति निवर्त्तनम् पाठम्
११४ भरतेनायोध्यादुरवस्थाया दर्शनमन्तःपुरे प्रविश्य तस्य दुःखपारवश्यम्पाठम्
११५ भरतेन नन्दिग्राममुपेत्य श्रीरामपादुकयो राज्येऽभिषेकस्तदग्रे निवेदनपूर्वकं तेन समस्तराजकीय- कार्याणां सम्पादनम् पाठम्
११६ वृद्धेन कुलपतिना सह बहूनां मुनीनां चित्रकूटं त्यक्त्वान्यस्मिन्नाश्रमे गमनम् पाठम्
११७ अत्रेराश्रमं गतानां श्रीरामादीनां तेन सत्कारोऽन-सूयया च सीतायाः समादरः पाठम्
११८सीतानसूयासंवादोऽनसूयया सीतायै प्रेमोपहारस्य दानमनसूयया पृष्टया सीतया तां प्रति स्वीय- स्वयंवरवृत्तान्तस्य वर्णनम् पाठम्
११९ अनसूयादेशेन सीतायास्तत्प्रदत्तानां दिव्यवस्त्रा- भूषणानां धारणं कृत्वा श्रीरामस्य पार्श्वे गमनं श्रीरामादीनां रात्रावाश्रमे स्थित्वा प्रातरन्यत्र गन्तुमृषिभ्योऽनुज्ञाया ग्रहणम् पाठम्

अयोध्याकाण्डं सम्पूर्णम्


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध