home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
अयोध्याकाण्डम्

अष्टादशः सर्गः ॥२-१८॥

॥वनवासनिदेशः॥

[ पितुश्चिन्ताया: किं कारणमिति कैकेयीं प्रति श्रीरामस्यानुयोगः कैकेय्या स्वप्रार्थितवरयोरितिवृत्तं श्रावयित्वा श्रीरामस्य वनवासाय प्रेरणम् ]

स ददर्शासने रामो विषण्णं पितरं शुभे। कैकेयीसहितं दीनं मुखेन परिशुष्यता॥ १॥ स पितुश्चरणौ पूर्वमभिवाद्य विनीतवत्। ततो ववन्दे चरणौ कैकेय्याः सुसमाहितः॥ २॥ रामेत्युक्त्वा तु वचनं बाष्पपर्याकुलेक्षणः। शशाक नृपतिर्दीनो नेक्षितुं नाभिभाषितुम्॥ ३॥ तदपूर्वं नरपतेर्दृष्ट्वा रूपं भयावहम्। रामोऽपि भयमापन्नः पदा स्पृष्ट्वेव पन्नगम्॥ ४॥ इन्द्रियैरप्रहृष्टैस्तं शोकसंतापकर्शितम्। निःश्वसन्तं महाराजं व्यथिताकुलचेतसम्॥ ५॥ ऊर्मिमालिनमक्षोभ्यं क्षुभ्यन्तमिव सागरम्। उपप्लुतमिवादित्यमुक्तानृतमृषिं यथा॥ ६॥ अचिन्त्यकल्पं हि पितुस्तं शोकमुपधारयन्। बभूव संरब्धतरः समुद्र इव पर्वणि॥ ७॥ चिन्तयामास च तदा रामः पितृहिते रतः। किंस्विदद्यैव नृपतिर्न मां प्रत्यभिनन्दति॥ ८॥ अन्यदा मां पिता दृष्ट्वा कुपितोऽपि प्रसीदति। तस्य मामद्य सम्प्रेक्ष्य किमायासः प्रवर्तते॥ ९॥ स दीन इव शोकार्तो विषण्णवदनद्युतिः। कैकेयीमभिवाद्यैव रामो वचनमब्रवीत्॥ १०॥ कच्चिन्मया नापराद्धमज्ञानाद् येन मे पिता। कुपितस्तन्ममाचक्ष्व त्वं चैवैनं प्रसादय॥ ११॥ अप्रसन्नमनाः किं नु सदा मां प्रति वत्सलः। विवर्णवदनो दीनो नहि मामभिभाषते॥ १२॥ शारीरो मानसो वापि कच्चिदेनं न बाधते। संतापो वाभितापो वा दुर्लभं हि सदा सुखम्॥ १३॥ कच्चिन्न किञ्चिद् भरते कुमारे प्रियदर्शने। शत्रुघ्ने वा महासत्त्वे मातॄणां वा ममाशुभम्॥ १४॥ अतोषयन् महाराजमकुर्वन् वा पितुर्वचः। मुहूर्तमपि नेच्छेयं जीवितुं कुपिते नृपे॥ १५॥ यतोमूलं नरः पश्येत् प्रादुर्भावमिहात्मनः। कथं तस्मिन् न वर्तेत प्रत्यक्षे सति दैवते॥ १६॥ कच्चित्ते परुषं किञ्चिदभिमानात् पिता मम। उक्तो भवत्या कोपेन येनास्य लुलितं मनः॥ १७॥ एतदाचक्ष्व मे देवि तत्त्वेन परिपृच्छतः। किंनिमित्तमपूर्वोऽयं विकारो मनुजाधिपे॥ १८॥ एवमुक्ता तु कैकेयी राघवेण महात्मना। उवाचेदं सुनिर्लज्जा धृष्टमात्महितं वचः॥ १९॥ न राजा कुपितो राम व्यसनं नास्य किञ्चन। किञ्चिन्मनोगतं त्वस्य त्वद्भयान्नाभिभाषते॥ २०॥ प्रियं त्वामप्रियं वक्तुं वाणी नास्योपवर्तते। तदवश्यं त्वया कार्यं यदनेनाश्रुतं मम॥ २१॥ एष मह्यं वरं दत्त्वा पुरा मामभिपूज्य च। स पश्चात् तप्यते राजा यथान्यः प्राकृतस्तथा॥ २२॥ अतिसृज्य ददानीति वरं मम विशाम्पतिः। स निरर्थं गतजले सेतुं बन्धितुमिच्छति॥ २३॥ धर्ममूलमिदं राम विदितं च सतामपि। तत् सत्यं न त्यजेद् राजा कुपितस्त्वत्कृते यथा॥ २४॥ यदि तद् वक्ष्यते राजा शुभं वा यदि वाशुभम्। करिष्यसि ततः सर्वमाख्यास्यामि पुनस्त्वहम्॥ २५॥ यदि त्वभिहितं राज्ञा त्वयि तन्न विपत्स्यते। ततोऽहमभिधास्यामि न ह्येष त्वयि वक्ष्यति॥ २६॥ एतत् तु वचनं श्रुत्वा कैकेय्या समुदाहृतम्। उवाच व्यथितो रामस्तां देवीं नृपसंनिधौ॥ २७॥ अहो धिङ् नार्हसे देवि वक्तुं मामीदृशं वचः। अहं हि वचनाद् राज्ञः पतेयमपि पावके॥ २८॥ भक्षयेयं विषं तीक्ष्णं मज्जेयमपि चार्णवे। नियुक्तो गुरुणा पित्रा नृपेण च हितेन च॥ २९॥ तद् ब्रूहि वचनं देवि राज्ञो यदभिकाङ्क्षितम्। करिष्ये प्रतिजाने च रामो द्विर्नाभिभाषते॥ ३०॥ तमार्जवसमायुक्तमनार्या सत्यवादिनम्। उवाच रामं कैकेयी वचनं भृशदारुणम्॥ ३१॥ पुरा दैवासुरे युद्धे पित्रा ते मम राघव। रक्षितेन वरौ दत्तौ सशल्येन महारणे॥ ३२॥ तत्र मे याचितो राजा भरतस्याभिषेचनम्। गमनं दण्डकारण्ये तव चाद्यैव राघव॥ ३३॥ यदि सत्यप्रतिज्ञं त्वं पितरं कर्तुमिच्छसि। आत्मानं च नरश्रेष्ठ मम वाक्यमिदं शृणु॥ ३४॥ संनिदेशे पितुस्तिष्ठ यथानेन प्रतिश्रुतम्। त्वयारण्यं प्रवेष्टव्यं नव वर्षाणि पञ्च च॥ ३५॥ भरतस्त्वभिषिच्येत यदेतदभिषेचनम्। त्वदर्थे विहितं राज्ञा तेन सर्वेण राघव॥ ३६॥ सप्त सप्त च वर्षाणि दण्डकारण्यमाश्रितः। अभिषेकमिमं त्यक्त्वा जटाचीरधरो वस॥ ३७॥ भरतः कोसलपुरे प्रशास्तु वसुधामिमाम्। नानारत्नसमाकीर्णां सवाजिरथकुञ्जराम्॥ ३८॥ एतेन त्वां नरेन्द्रोऽयं कारुण्येन समाप्लुतः। शोकैसंक्लिष्टवदनो न शक्नोति निरीक्षितुम्॥ ३९॥ एतत् कुरु नरेन्द्रस्य वचनं रघुनन्दन। सत्येन महता राम तारयस्व नराधिपम्॥ ४०॥ इतीव तस्यां परुषं वदन्त्यां न चैव रामः प्रविवेश शोकम्। प्रविव्यथे चापि महानुभावो राजा तु पुत्रव्यसनाभितप्तः॥ ४१॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् अयोध्याकाण्डे वनवासनिदेशो नाम अष्टादशः सर्गः ॥२-१८॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध