तं समीक्ष्य व्यवहितं पितुर्निर्देशपालने। कौसल्या बाष्पसंरुद्धा वचो धर्मिष्ठमब्रवीत्॥ १॥ अदृष्टदुःखो धर्मात्मा सर्वभूतप्रियंवदः। मयि जातो दशरथात् कथमुञ्छेन वर्तयेत्॥ २॥ यस्य भृत्याश्च दासाश्च मृष्टान्यन्नानि भुञ्जते। कथं स भोक्ष्यते नाथो वने मूलफलान्ययम्॥ ३॥ क एतच्छ्रद्दधेत्श्रुत्वा कस्य वा न भवेद् भयम्। गुणवान् दयितो राज्ञो राघवो यद् विवास्यते॥ ४॥ नूनं तु बलवान् लोके कृतान्तः सर्वमादिशन्। लोके रामाभिरामस्त्वं वनं यत्र गमिष्यसि॥ ५॥ अयं तु मामात्मभवस्तवादर्शनमारुतः। विलापदुःखसमिधो रुदिताश्रुहुताहुतिः॥ ६॥ चिन्ताबाष्पमहाधूमस्तवागमनचिन्तजः। कर्शयित्वा भृशं पुत्र निःश्वासायाससम्भवः॥ ७॥ त्वया विहीनामिह मां शोकाग्निरतुलो महान्। प्रधक्ष्यति यथा कक्षं चित्रभानुर्हिमात्यये॥ ८॥ कथं धेनुः स्वकं वत्सं गच्छन्तं नानुगच्छति। अहं त्वानुगमिष्यामि यत्र यत्र गमिष्यसि॥ ९॥ यथा निगदितं मात्रा तद् वाक्यं पुरुषर्षभः। श्रुत्वा रामोऽब्रवीद् वाक्यं मातरं भृशदुःखिताम्॥ १०॥ कैकेय्या वञ्चितो राजा मयि चारण्यमाश्रिते। भवत्या च परित्यक्तो न नूनं वर्तयिष्यति॥ ११॥ भर्तुः किल परित्यागो नृशंसः केवलं स्त्रियाः। स भवत्या न कर्तव्यो मनसापि विगर्हितः॥ १२॥ यावज्जीवति काकुत्स्थः पिता मे जगतीपतिः। शुश्रूषा क्रियतां तावत् स हि धर्मः सनातनः॥ १३॥ एवमुक्ता तु कौसल्या रामेण शुभदर्शना। तथेत्युवाच सुप्रीता राममक्लिष्टकारिणम्॥ १४॥ एवमुक्तस्तु वचनं रामो धर्मभृतां वरः। भूयस्तामब्रवीद् वाक्यं मातरं भृशदुःखिताम्॥ १५॥ मया चैव भवत्या च कर्तव्यं वचनं पितुः। राजा भर्ता गुरुः श्रेष्ठः सर्वेषामीश्वरः प्रभुः॥ १६॥ इमानि तु महारण्ये विहृत्य नव पञ्च च। वर्षाणि परमप्रीतः स्थास्यामि वचने तव॥ १७॥ एवमुक्ता प्रियं पुत्रं बाष्पपूर्णानना तदा। उवाच परमार्ता तु कौसल्या पुत्रवत्सला॥ १८॥ आसां राम सपत्नीनां वस्तुं मध्ये नतु क्षमम्। नय मामपि काकुत्स्थ वनं वन्यां मृगीं यथा॥ १९॥ यदि ते गमने बुद्धिः कृता पितुरपेक्षया। तां तथा रुदतीं रामो रुदन् वचनमब्रवीत्॥ २०॥ जीवन्त्या हि स्त्रिया भर्ता दैवतं प्रभुरेव च। भवत्या मम चैवाद्य राजा प्रभवति प्रभुः॥ २१॥ न ह्यनाथा वयं राज्ञा लोकनाथेन धीमता। भरतश्चापि धर्मात्मा सर्वभूतप्रियंवदः॥ २२॥ भवतीमनुवर्तेत स हि धर्मरतः सदा। यथा मयि तु निष्क्रान्ते पुत्रशोकेन पार्थिवः॥ २३॥ श्रमं नावाप्नुयात् किञ्चिदप्रमत्ता तथा कुरु दारुणश्चाप्ययं शोको यथैनं न विनाशयेत्॥ २४॥ राज्ञो वृद्धस्य सततं हितं चर समाहिता। व्रतोपवासनिरता या नारी परमोत्तमा॥ २५॥ भर्तारं नानुवर्तेत सा तु पापगतिर्भवेत्। भर्तुः शुश्रूषया नारी लभते स्वर्गमुत्तमम्॥ २६॥ अपि या निर्नमस्कारा निवृत्ता देवपूजनात्। शुश्रूषामेव कुर्वीत भर्तुः प्रियहिते रता॥ २७॥ एष धर्मः उइरा दृष्टो लोके वेदे श्रुतः स्मृतः। अग्निकार्येषु च सदा सुमनोभिश्च देवताः॥ २८॥ पूज्यास्ते मत्कृते देवि ब्राह्मणाश्चैव सुव्रताः। एवं कालं प्रतीक्षस्व ममागमनकाङ्क्षिणी॥ २९॥ नियता नियताहारा भर्तृशुश्रूषणे रता। प्राप्स्यसे परमं कामं मयि प्रत्यागते सति॥ ३०॥ यदि धर्मभृतां श्रेष्ठो धारयिष्यति जीवितम्। एवमुक्ता तु रामेण बाष्पपर्याकुलेक्षणा॥ ३१॥ कौसल्या पुत्रशोकार्ता रामं वचनमब्रवीत्। गमने सुकृतां बुद्धिं न ते शक्नोमि पुत्रक॥ ३२॥ विनिवर्तयितुं वीर नूनं कालो दुरत्ययः। गच्छ पुत्र त्वमेकाग्रो भद्रं तेऽस्तु सदा विभो॥ ३३॥ पुनस्त्वयि निवृत्ते तु भविष्यामि गतक्लमा। प्रत्यागते महाभागे कृतार्थे चरितव्रते॥ ३४॥ पितुरानृण्यतां प्राप्ते त्वयि लप्स्ये परं सुखम्। कृतान्तस्य गतिः पुत्र दुर्विभाव्या सदा भुवि॥ ३५॥ यस्त्वां संचोदयति मे वच आच्छिद्य राघव। गच्छेदानीं महाबाहो क्षेमेण पुनरागतः॥ ३६॥ नन्दयिष्यसि मां पुत्र साम्ना वाक्येन चारुणा। अपीदानीं स कालः स्याद् वनात् प्रत्यागतं पुनः। यत् त्वां पुत्रक पश्येयं जटावल्कलधारिणम्॥ ३७॥ तथा हि रामं वनवासनिश्चितं समीक्ष्य देवी परमेण चेतसा। उवाच रामं शुभलक्षणं वचो बभूव च स्वस्त्ययनाभिकाङ्क्षिणी॥ ३८॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् अयोध्याकाण्डे कौसल्यार्तिसमाश्वासनं नाम चतुर्विंशः सर्गः ॥२-२४॥