जाबालेस्तु वचः श्रुत्वा रामः सत्यवतां वरः। उवाच परया सूक्त्या स्वबुद्ध्या चाविपन्नया॥ १॥ भवान् मे प्रियकामार्थं वचनं यदिहोक्तवान्। अकार्यं कार्यसङ्काशमपथ्यं पथ्यसम्मितम्॥ २॥ निर्मर्यादस्तु पुरुषः पापाचारसमन्वितः। मानं न लभते सत्सु भिन्नचारित्रदर्शनः॥ ३॥ कुलीनमकुलीनं वा वीरं पुरुषमानिनम्। चारित्रमेव व्याख्याति शुचिं वा यदि वाशुचिम्॥ ४॥ अनार्यस्त्वार्यसङ्काशः शौचाद्धीनस्ताथा शुचिः। लक्षण्यवदलक्षण्यो दुःशीलः शीलवानिव॥ ५॥ अधर्मं धर्मवेषेण यदीमं लोकसङ्कुरम्। अभिपत्स्ये शुभं हित्वा क्रियां विधिविवर्जितम्॥ ६॥ कश्चेतयानः पुरुषः कार्याकार्यविचक्षणः। बहु मंस्यति मां लोके दुर्वृत्तं लोकदूषणम्॥ ७॥ कस्य यास्याम्यहं वृत्तं केन वा स्वर्गमाप्नुयाम्। आनया वर्तमानोऽहं वृत्त्या हीनप्रतिज्ञया॥ ८॥ कामवृत्तस्त्वयं लोकः कृत्स्नः समुपवर्तते। यद्वृत्ताः सन्ति राजानस्तद्वृत्ताः सन्ति हि प्रजाः॥ ९॥ सत्यमेवानृशंसं च राजवृत्तं सनातनम्। तस्मात् सत्यात्मकं राज्यं सत्ये लोकः प्रतिष्ठितः॥ १०॥ ऋषयश्चैव देवाश्च सत्यमेव हि मेनिरे। सत्यवादी हि लोकेऽस्मिन् परमं गच्छति क्षयम्॥ ११॥ उद्विजन्ते यथा सर्पान्नरादनृतवादिनः। धर्मः सत्यं परो लोके मूलं सर्वस्य चोच्यते॥ १२॥ सत्यमेवेश्वरो लोके सत्यं पद्मा प्रतिष्ठिता। सत्यमूलानि सर्वाणि सत्यान्नास्ति परं पदम्॥ १३॥ दत्तमिष्टं हुतं चैव तप्तानि च तपांसि च। वेदाः सत्यप्रतिष्ठानास्तस्मात् सत्यपरो भवेत्॥ १४॥ एकः पालयते लोकमेकः पालयते कुलम्। मज्जत्येको हि निरय एकः स्वर्गे महीयते॥ १५॥ सोऽहं पितुर्नियोगं तु किमर्थं नानुपालये। सत्यप्रतिश्रवः सत्यं सत्येन समयीकृतः॥ १६॥ नैव लोभान्न मोहाद्वा न ह्यज्ञानात्तमोऽन्वितः। सेतुं सत्यस्य भेत्स्यामि गुरोः सत्यप्रतिश्रवः॥ १७॥ असत्यसन्धस्य सतश्चलस्यास्थिरचेतसः। नैव देवा न पितरः प्रतीच्छन्तीति नः श्रुतम्॥ १८॥ प्रत्यगात्ममिमं धर्मं सत्यं पश्याम्यहं ध्रुवम्। भारः सत्पुरुषैश्चीर्णस्तदर्थमभिमन्यते॥ १९॥ क्षात्रं धर्ममहं त्यक्ष्ये ह्यधर्मं धर्मसंहितम्। क्षुद्रैर्नृशंसैर्लुब्धैश्च सेवितं पापकर्मभिः॥ २०॥ कायेन कुरुते पापं मनसा सम्प्रधार्य च। अनृतं जिह्वया चाह त्रिविधं कर्म पातकम्॥ २१॥ भूमिः कीर्तिर्यशो लक्ष्मीः पुरुषं प्रार्थयन्ति हि। सत्यं समनुवर्तन्ते सत्यमेव भजेत्तत:॥ २२॥ श्रेष्ठं ह्यनार्यमेव स्याद्यद्भवानवधार्य माम्। आह युक्ति करैर्वाक्यैरिदं भद्रं कुरुष्व ह॥ २३॥ कथं ह्यहं प्रतिज्ञाय वनवासमिमं गुरौ। भरतस्य करिष्यामि वचो हित्वा गुरोर्वचः॥ २४॥ स्थिरा मया प्रतिज्ञाता प्रतिज्ञा गुरुसन्निधौ। प्रहृष्यमाणा सा देवी कैकेयी चाभवत्तदा॥ २५॥ वनवासं वसन्नेव शुचिर्नियतभोजनः। मूलैः पुष्पैः फलैः पुण्यैः पितॄन् देवांश्च तर्पयन्॥ २६॥ सन्तुष्टपञ्चवर्गोऽहं लोकयात्रां प्रवर्तये। अकुहः श्रद्दधानः सन् कार्याकार्यविचक्षणः॥ २७॥ वनवासं वसन्नेवं शुचिर्नियतभोजनः। मूलैः पुष्पैः फलैः पुण्यैः पित्रून् देवांश्च तर्पयन्॥ २६॥ सन्तुष्टपञ्चवर्गोऽहं लोकयात्रां प्रवर्तये। अकुह श्श्रद्धधानस्सन्कार्याकार्यविचक्षणः॥ २७॥ कर्मभूमिमां प्राप्य कर्तव्यं कर्म यच्छुभम्। अग्निर्वायुश्च सोमश्च कर्मणां फलभागिनः॥ २८॥ शतं क्रतूनामाहृत्य देवराट् त्रिदिवं गतः। तपांस्युग्राणि चास्थाय दिवं याता महर्षयः॥ २९॥ अमृष्यमाणः पुनरुग्रतेजा निशम्य तन्नास्तिकहेतुवाक्यम्। अथाब्रवीत्तं नृपतेस्तनूजो विगर्हमाणो वचनानि तस्य॥ ३०॥ सत्यं च धर्मं च पराक्रमं च भूतानुकम्पां प्रियवादितां च। द्विजातिदेवातिथिपूजनं च पन्थानमाहुस्त्रिदिवस्य सन्तः॥ ३१॥ तेनैवमाज्ञाय यथावदर्थ- मेकोदयं सम्प्रतिपद्य विप्राः। धर्मं चरन्तः सकलं यथावत् काङ्क्षन्ति लोकागममप्रमत्ताः॥ ३२॥ निन्दाम्यहं कर्म पितुः कृतं तद्- यस्त्वामगृह्णाद्विषमस्थबुद्धिम्। बुद्ध्यानयैवंविधया चरन्तं सुनास्तिकं धर्मपथादपेतम्॥ ३३॥ यथा हि चोर: स तथा हि बुद्धस्- तथागतं नास्तिकमत्र विद्धि। तस्माद्धि य: शङ्क्यतमः प्रजानां न नास्तिकेनाभिमुखो बुध: स्यात्॥ ३४॥ त्वत्तो जनाः पूर्वतरेऽवराश्च शुभानि कर्माणि बहूनि चक्रुः। जित्वा सदेमं च परं च लोकं तस्माव्दिजाः स्वस्ति हुतं कृतं च॥ ३५॥ धर्मे रता: सत्पुरुषै: समेतास्- तेजस्विनो दानगुणप्रधानाः। अहिंसका वीतमलाश्च लोके भवन्ति पूज्या मुनयः प्रधानाः॥ ३६॥ इति ब्रुवन्तं वचनं सरोषं रामं महात्मानमदीनसत्त्वम्। उवाच पथ्यं पुनरास्तिकं च सत्यं वच: सानुनयं च विप्रः॥ ३७॥ न नास्तिकानां वचनं ब्रवीम्यहं न नास्तिकोऽहं न च नास्ति किञ्चन। समीक्ष्य कालं पुनरास्तिकोऽभवं भवेय काले पुनरेव नास्तिकः॥ ३८॥ स चापि कालोऽयमुपागतः शनैर्- यथा मया नास्तिकवागुदीरिता। निवर्तनार्थं तव राम कारणात्- प्रसादनार्थं च मयैतदीरितम्॥ ३९॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् अयोध्याकाण्डे सत्यप्रशंसा नाम नवाधिकशततमः सर्गः॥२-१०९॥