home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
अयोध्याकाण्डम्

द्वादशाधिकशततमः सर्गः॥२-११२॥

॥पादुकाप्रदानम्॥

[ ऋषीणां भरतं प्रति श्रीरामाज्ञया निवर्तितुं सम्मतिर्भरतस्य श्रीरामचरणयोः प्रणिपत्य पुरीं प्रति चलितुं तत्प्रति प्रार्थना श्रीरामेण तं प्रबोध्य स्वीयां चरणपादुकां दत्त्वा तेषां सर्वेषां ततः प्रस्थापनम् ]

तमप्रतिमतेजोभ्यां भ्रातृभ्यां रोमहर्षणम्। विस्मिता: स‌ङ्गमं प्रेक्ष्य समवेता महर्षयः॥ १॥ अन्तर्हितास्त्वृषिगणाः सिद्धाश्च परमर्षयः। तौ भ्रातरौ महात्मानौ काकुत्स्थौ प्रशशंसिरे॥ २॥ स धन्यो यस्य पुत्रौ द्वौ धर्मज्ञौ धर्मविक्रमौ। श्रुत्वा वयं हि सम्भाषामुभाभ्यां स्पृहयामहे॥ ३॥ ततस्त्वृषिगणाः क्षिप्रं दशग्रीववधैषिणः। भरतं राजशार्दूलमित्यूचु: स‌ङ्गता वचः॥ ४॥ कुलेजात महाप्राज्ञ महावृत्त महायशः। ग्राह्यं रामस्य वाक्यं ते पितरं यद्यवेक्षसे॥ ५॥ सदानृणमिमं रामं वयमिच्छामहे पितुः। आनृणत्वाश्च कैकेय्या स्वर्गं दशरथो गतः॥ ६॥ एतावदुक्त्वा वचनं गन्धर्वा: स‌महर्षयः। राजर्षयश्चैव तदा सर्वे स्वां स्वां गतिं गताः॥ ७॥ ह्लादितस्तेन वाक्येन शुभेन शुभदर्शनः। रामः संहृष्टवदनस्तानृषीनभ्यपूजयत्॥ ८॥ त्रस्तगात्रस्तु भरतः स वाचा सज्जमानया। कृताञ्जलिरिदं वाक्यं राघवं पुनरब्रवीत्॥ ९॥ राजधर्ममनुप्रेक्ष्य कुलधर्मानुसन्ततिम्। कर्तुमर्हसि काकुत्स्थ मम मातुश्च याचनाम्॥ १०॥ रक्षितुं सुमहद्राज्यमहमेकस्तु नोत्सहे। पौरजानपदांश्चापि रक्तान् रञ्जयितुं तथा॥ ११॥ ज्ञातयश्च हि योधाश्च मित्राणि सुहृदश्च नः। त्वामेव प्रतिकाङ्क्षन्ते पर्जन्यमिव कर्षकाः॥ १२॥ इदं राज्यं महाप्राज्ञ स्थापयं प्रतिपद्य हि। शक्तिमानसि काकुत्स्थ लोकस्य परिपालने॥ १३॥ इत्युक्त्वा न्यपतद्भ्रातुः पादयोर्भरतस्तदा। भृशं सम्प्रार्थयामास राममेव प्रियंवदः॥ १४॥ तमङ्के भ्रारतं कृत्वा रामो वचनमब्रवीत्। श्यामं नलिनपत्राक्षं मत्तहंसस्वरः स्वयम्॥ १५॥ आगता त्वामियं बुद्धिः स्वजा वैनयिकी च या। भृशमुत्सहसे तात रक्षितुं पृथिवीमपि॥ १६॥ अमात्यैश्च सुहृद्भिश्च बुद्धिमद्भिश्च मन्त्रिभिः। सर्वकार्याणि सम्मन्त्र्य सुमहन्त्यपि कारय॥ १७॥ लक्ष्मीश्चन्द्रादपेयाद्वा हिमवान् वा हिमं त्यजेत्। अतीयात् सागरो वेलां न प्रतिज्ञामहं पितुः॥ १८॥ कामाद्वा तात लोभाद्वा मात्रा तुभ्यमिदं कृतम्। न तन्मनसि कर्तव्यं वर्तितव्यं च मातृवत्॥ १९॥ एवं ब्रुवाणं भरतः कौसल्यासुतमब्रवीत्। तेजसादित्यसङ्काशं प्रतिपच्चन्द्रदर्शनम्॥ २०॥ आधिरोहार्य पादाभ्यां पादुके हेमभूषिते। एते हि सर्वलोकस्य योगक्षेमं विधास्यतः॥ २१॥ सोऽधिरुह्य नरव्याघ्रः पादुके व्यवमुच्य च। प्रायच्छत् सुमहातेजा भरताय महात्मने॥ २२॥ स पादुके सम्प्रणम्य रामं वचनमब्रवीत् चतुर्दश हि वर्षाणि जटाचीरधरो ह्याहम्॥ २३॥ फलमूलाशनो वीर भवेयं रघुनन्दन। तवागमनमाकाङ्क्षान् वसन् वै नगराद्बहिः॥ २४॥ तव पादुकयोर्न्यस्य राज्यतन्त्रं परन्तप। चतुर्दशे तु संपूर्णे वर्षेऽहनि रघूत्तम॥ २५॥ न द्रक्ष्यामि यदि त्वां तु प्रवेक्ष्यामि हुताशनम्। तथेति च प्रतिज्ञाय तं परिष्वज्य सादरम्॥ २६॥ शत्रुघ्नं च परिष्वज्य भरतं चेदमब्रवीत्। मातरं रक्ष कैकेयीं मा रोषं कुरु तां प्रति॥ २७॥ मया च सीतया चैव शप्तोऽसि रघुसत्तम। इत्युक्त्वाश्रुपरीताक्षो भ्रातरं विससर्ज ह॥ २८॥ स पादुके ते भरतः प्रतापवान् स्वलङ्कृते सम्परिगृह्या धर्मवित्। प्रदक्षिणं चैव चकार राघवम् चकार चैवोत्तमनागमूर्धनि॥ २९॥ अथाऽनुपूर्व्यार् प्रतिनन्द्य तं जनं गुरूंश्च मन्त्रिप्रकृतीस्तथानुजौ। व्यसर्जयद्राघववंशवर्धनः स्थिरः स्वधर्मे हिमवानिवाचलः॥ ३०॥ तं मातरो बाष्पगृहीतकण्ठ्यो दुःखेन नामन्त्रयितुं हि शेकुः। स त्वेव मातॄरभिवाद्य सर्वा रुदन् कुटीं स्वां प्रविवेश रामः॥ ३१॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् अयोध्याकाण्डे पादुकाप्रदानं नाम द्वादशाधिकशततमः सर्गः॥२-११२॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध