विशालान् कोसलान् रम्यान् यात्वा लक्ष्मणपूर्वजः। अयोध्याभिमुखो धीमान् प्राञ्जलिर्वाक्यमब्रवीत्॥ १॥ आपृच्छे त्वां पुरीश्रेष्ठे काकुत्स्थपरिपालिते। दैवतानि च यानि त्वां पालयन्त्यावसन्ति च॥ २॥ निवृत्तवनवासस्त्वामनृणो जगतीपतेः। पुनर्द्रक्ष्यामि मात्रा च पित्रा च सह सङ्गतः॥ ३॥ ततो रुधिरताम्राक्षो भुजमुद्यम्य दक्षिणम्। अश्रुपूर्णमुखो दीनोऽब्रवीज्जानपदं जनम्॥ ४॥ अनुक्रोशो दया चैव यथार्हं मयि वः कृतः। चिरं दुःखस्य पापीयो गम्यतामर्थसिद्धये॥ ५॥ तेऽभिवाद्य महात्मानं कृत्वा चापि प्रदक्षिणम्। विलपन्तो नरा घोरं व्यतिष्ठन्त क्वचित् क्वचित्॥ ६॥ तथा विलपतां तेषामतृप्तानां च राघवः। अचक्षुर्विषयं प्रायाद्यथार्कः क्षणदामुखे॥ ७॥ ततो धान्यधनोपेतान् दानशीलजनान् शुभान्। अकुतश्चिद्भयान् रम्यांश्चैत्ययूपसमावृतान्॥ ८॥ उद्यानाम्रवणोपेतान् सम्पन्नसलिलाशयान्। तुष्टपुष्टजनाकीर्णान् गोकुलाकुलसेवितान्॥ ९॥ रक्षणीयान्नरेन्द्राणां ब्रह्मघोषाभिनादितान्। रथेन पुरुषव्याघ्रः कोसलानत्यवर्तत॥ १०॥ मध्येन मुदितं स्फीतं रम्योद्यानसमाकुलम्। राज्यं भोग्यं नरेन्द्राणां ययौ धृतिमतां वरः॥ ११॥ तत्र त्रिपथगां दिव्यां शिवतोयामशैवलाम्। ददर्श राघवो गङ्गां पुण्यामृषिनिषेविताम्॥ १२॥ आश्रमैरविदूरस्थैः श्रीमद्भिः समलङ्कृताम्। कालेऽप्सरोभिर्हृष्टाभिः सेविताम्भोह्रदां शिवाम्॥ १३॥ देवदानवगन्धर्वैः किन्नरैरुपशोभिताम्। नानागन्धर्वपत्नीभिः सेवितां सततं शिवाम्॥ १४॥ देवाक्रीडशताकीर्णां देवोद्यानशतायुताम्। देवार्थमाकाशगमां विख्यातां देवपद्मिनीम्॥ १५॥ जलाघाताट्टहासोग्रां फेननिर्मलहासिनीम्। क्वचिद्वेणीकृतजलां क्वचिदावर्तशोभिताम्॥ १६॥ क्वचित् स्तिमितगम्भीरां क्वचिद्वेगजलाकुलाम्। क्वचिद्गम्भीरनिर्घोषां क्वचिद्भैरवनिस्वनाम्॥ १७॥ देवसङ्घाप्लुतजलां निर्मलोत्पलशोभिताम्। क्वचिदाभोगपुलिनां क्वचिन्निर्मलवालुकाम्॥ १८॥ हंससारससङ्घुष्टां चक्रवाकोपकूजिताम्। सदा मत्तैश्च विहगैरभिसन्नादितान्तराम्॥ १९॥ क्वचित्तीररुहैर्वृक्षैर्मालाभिरिव शोभिताम्। क्वचित् फुल्लोत्पलच्छन्नां क्वचित् पद्मवनाकुलाम्॥ २०॥ क्वचित् कुमुदषण्डैश्च कुड्मलैरुपशोभिताम्। नानापुष्परजोध्वस्तां समदामिव च क्वचित्॥ २१॥ व्यपेतमलसङ्घातां मणिनिर्मलदर्शनाम्। दिशागजैर्वनगजैर्मत्तैश्च वरवारणैः॥ २२॥ देवराजोपवाह्यैश्च सन्नादितवनान्तराम्। प्रमदामिव यत्नेन भूषितां भूषणोत्तमैः॥ २३॥ फलैः पुष्पैः किसलयैर्वृतां गुल्मैर्द्विजैस्तथा। शिंशुमारैश्च नक्रैश्च भुजङ्गैश्च निषेविताम्॥ २४॥ विष्णुपादच्युतां दिव्यामपापां पापनाशिनीम्। तां शङ्करजटाजूटाद्भ्रष्टां सागरतेजसा॥ २५॥ समुद्रमहिषीं गङ्गां सारसक्रौञ्चनादिताम्। आससाद महाबाहुः शृङ्गिबेरपुरं प्रति॥ २६॥ तामूर्मिकलिलावर्तामन्ववेक्ष्य महारथः। सुमन्त्रमब्रवीत् सूतमिहैवाद्य वसामहे॥ २७॥ अविदूरादयं नद्या बहुपुष्पप्रवालवान्। सुमहानिङ्गुदीवृक्षो वसामोऽत्रैव सारथे॥ २८॥ द्रक्ष्यामः सरितां श्रेष्ठां सम्मान्यसलिलां शिवाम्। देवदानवगन्धर्वमृगपन्नगपक्षिणाम्॥ २९॥ लक्ष्मणश्च सुमन्त्रश्च बाढमित्येव राघवम्। उक्त्वा तमिङ्गुदीवृक्षं तदोपययतुर्हयैः॥ ३०॥ रामोऽभियाय तं रम्यं वृक्षमिक्ष्वाकुनन्दनः। रथादवातरत्तस्मात् सभार्य स्सहलक्ष्मणः॥ ३१॥ सुमन्त्रोऽप्यवतीर्याथ मोचयित्वा हयोत्तमान्। वृक्षमूलगतं राममुपतस्थे कृताञ्जलिः॥ ३२॥ तत्र राजा गुहो नाम रामस्यात्मसमः सखा। निषादजात्यो बलवान् स्थपतिश्चेति विश्रुतः॥ ३३॥ स शृत्वा पुरुषव्याघ्रं रामं विषयमागतम्। वृद्धैः परिवृतोऽमात्यैः ज्ञातिभिश्चाभ्युपागतः॥ ३४॥ ततो निषादाधिपतिं दृष्ट्वा दूरादुपस्थितम्। सह सौमित्रिणा राम स्समागच्छद् गुहेन सः॥ ३५॥ तमार्तः सम्परिष्वज्य गुहो राघवमब्रवीत्। यथायोध्या तथेयं ते राम किं करवाणि ते॥ ३६॥ ईदृशं हि महाबाहो कः प्राप्स्यत्यतिथिं प्रियम्। ततो गुणवदन्नाद्यमुपादाय पृथग्विधम्॥ ३७॥ अर्घ्यं चोपानयत् क्षिप्रं वाक्यं चेदमुवाच ह। स्वागतं ते महाबाहो तवेयमखिला मही॥ ३८॥ वयं प्रेष्या भवान् भर्ता साधु राज्यं प्रशाधि नः। भक्ष्यं भोज्यं च पेयं च लेह्यं चेदमुपस्थितम्॥ ३९॥ शयनानि च मुख्यानि वाजिनां खादनं च ते। गुहमेवं ब्रुवाणं तं राघवः प्रत्यभाषत॥ ४०॥ अर्चिताश्चैव हृष्टाश्च भवता सर्वथा वयम्। पद्भ्यामभिगमाच्चैव स्नेहसन्दर्शनेन च॥ ४१॥ भुजाभ्यां साधुवृत्ताभ्यां पीडयन् वाक्यमब्रवीत्।। दिष्ट्या त्वां गुह पश्यामि नीरोगं सह बान्धवैः॥ ४२॥ अपि ते कुशलं राष्ट्रे मित्रेषु च धनेषु च। यदेतद्भवता किञ्चित् प्रीत्या समुपकल्पितम्॥ ४३॥ सर्वं तदनुजानामि न हि वर्ते प्रतिग्रहे। कुशचीराजिनधरं फलमूलाशिनं च माम्॥ ४४॥ विद्धि प्रणिहितं धर्मे तापसं वनगोचरम्। अश्वानां खादनेनाहमर्थी नान्येन केनचित्॥ ४५॥ एतावतात्रभवता भविष्यामि सुपूजितः। एते हि दयिता राज्ञः पितुर्दशरथस्य मे॥ ४६॥ एतैः सुविहितैरश्वैः भविष्याम्यहमर्चितः। अश्वानां प्रतिपानं च खादनं चैव सोऽन्वशात्॥ ४७॥ गुहस्तत्रैव पुरुषां स्त्वरितं दीयतामिति। ततश्चीरोत्तरासङ्गः सन्ध्यामन्वास्य पश्चिमाम्॥ ४८॥ जलमेवाददे भोज्यं लक्ष्मणेनाहृतं स्वयम्। तस्य भूमौ शयानस्य पादौ प्रक्षाल्य लक्ष्मणः॥ ४९॥ सभार्यस्य ततोऽभ्येत्य तस्थौ वृक्षमुपाश्रितः। गुहोऽपि सह सूतेन सौमित्रिमनुभाषयन्। अन्वजाग्रत्ततो राममप्रमत्तो धनुर्धरः॥ ५०॥ तथा शयानस्य ततोऽस्य धीमतो यशस्विनो दाशरथेर्महात्मनः। अदृष्टदुःखस्य सुखोचितस्य सा तदा व्यतीयाय चिरेण शर्वरी॥ ५१॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् अयोध्याकाण्डे गुहसंग्तं नाम पञ्चाशः सर्गः ॥२-५०॥