home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
अयोध्याकाण्डम्

एकसप्ततितम सर्गः ॥२-७१॥

॥अयोध्यागमनम्॥

[ सेनया सह भरतस्य रथेन यात्रामार्गे विविधानि स्थानानि समुल्लङ्घय तस्योज्जिहानायां नगर्या - मेकस्मिन्नुद्याने प्रवेशस्तत्र सेनां शनैः शनैरागन्तु- मादिश्य स्वयं रथेन तीव्रवेगात् पुरःसृत्य सालवनमतिक्रम्यायोध्यानिकटे गमनं ततश्च अयोध्याया दुरवस्थां दर्श दर्शमग्रे सरणं सारथिं प्रति स्वीयं दुखपूर्णमुद्गारं प्रकटय्य राजभवने प्रवेशश्च ]

स प्राङ्मुखो राजगृहादभिनिर्याय राघवः। ततः सुदामां द्युतिमान् सन्तीर्यावेक्ष्य तां नदीम्॥ १॥ ह्लादिनीं दूरपारां च प्रत्यक्स्रोतस्तरङ्गिणीम्। शतद्रूमतरच्छ्रीमान्नदीमिक्ष्वाकुनन्दनः॥ २॥ एलाधाने नदीं तीर्त्वा प्राप्य चापरपर्पटान्। शिलामकुर्वतीं तीर्त्वा ह्याग्नेयं शल्यकर्तनम्॥ ३॥ सत्यसन्धः शुचिः श्रीमान् प्रेक्षमाणः शिलावहाम्। अत्ययात् स महाशैलान् वनं चैत्ररथं प्रति॥ ४॥ सरस्वतीं च गङ्गां च युग्मेन प्रतिपद्यच। उत्तरान् वीर मत्स्यानां भारुण्डं प्राविशद्वनम्॥ ५॥ वेगिनीं च कुलिङ्गाख्यां ह्लादिनीं पर्वतावृताम्। यमुनां प्राप्य सन्तीर्णो बलमाश्वासयत्तदा॥ ६॥ सशीतीकृत्य तु गात्राणि क्लान्तानाश्वास्य वाजिनः। तत्र स्नात्वा च पीत्वा च प्रायादादाय चोदकम्॥ ७॥ राजपुत्रो महारण्यमनभीक्ष्णोपसेवितम्। भद्रो भद्रेण यानेन मारुतः खमिवात्ययात्॥ ८॥ भागीरथीं दुष्प्रतरामंशुधाने महानदीम्। उपायाद्राघवस्तूर्णं प्राग्वटे विश्रुते पुरे॥ ९॥ स गङ्गां प्राग्वटे तीर्त्वा समायात् कुटिकोष्ठिकाम्। सबलस्तां स तीर्त्वाथ समायाद्धर्मवर्धनम्॥ १०॥ तोरणं दक्षिणार्धेन जम्भूप्रस्थमुपागमत्। वरूथं च ययौ रम्यं ग्रामं दशरथात्मजः॥ ११॥ तत्र रम्ये वने वासं कृत्वासौ प्राङ्मुखो ययौ। उद्यानमुज्जिहानायाः प्रियका यत्र पादपाः॥ १२॥ सालांस्तु प्रियकान् प्राप्य शीघ्रानास्थाय वाजिनः। अनुज्ञाप्याथ भरतो वाहिनीं त्वरितो ययौ॥ १३॥ वासं कृत्वा सर्वतीर्थे तीर्त्वा चोत्तानिकां नदीम्। अन्या नदीश्च विविधाः पार्वतीयैस्तुरङ्गमैः॥ १४॥ हस्तिपृष्ठकमासाद्य कुटिकामत्यवर्तत। ततार च नरव्याघ्रो लौहित्ये सिकतावतीम्॥ १५॥ एकसाले स्थाणुमतीं विनते गोमतीं नदीम्। कलिङ्गनगरे चापि प्राप्य सालवनं तदा॥ १६॥ भरतः क्षिप्रमागच्छत् सुपरिश्रान्तवाहनः। वनं च समतीत्याशु शर्वर्यामरुणोदये॥ १७॥ अयोध्यां मनुना राज्ञा निर्मितां सन्ददर्श ह। तां पुरीं पुरुषव्याघ्रः सप्तरात्रोषितः पथि॥ १८॥ अयोध्यामग्रतो दृष्ट्वा सारथिं वाक्यमब्रवीत्। एषा नातिप्रतीता मे पुण्योद्याना यशस्विनी॥ १९॥ अयोध्या दृश्यते दूरात् सारथे पाण्डुमृत्तिका। यज्वभिर्गुणसम्पन्नैर्ब्राह्मणैर्वेदपारगैः॥ २०॥ भूयिष्ठमृद्धैराकीर्णा राजर्षिपरिपालिता। अयोध्यायां पुरा शब्दः श्रूयते तुमुलो महान्॥ २१॥ समन्तान्नरनारीणां तमद्य न शृणोम्यहम्। उद्यानानि हि सायाह्ने क्रीडित्वोपरतैर्नरैः॥ २२॥ समन्ताद्विप्रधावद्भिः प्रकाशन्ते ममान्यथा। तान्यद्यानुरुदन्तीव परित्यक्तानि कामिभिः॥ २३॥ अरण्यभूतेव पुरी सारथे प्रतिभाति मे। न ह्यत्र यानैर्दृश्यन्ते न गजैर्न च वाजिभिः॥ २४॥ निर्यान्तो वाभियान्तो वा नरमुख्या यथापुरम्। उद्यानानि पुरा भान्ति मत्तप्रमुदितानि च॥ २५॥ जनानां रतिसंयोगेष्वत्यन्तं गुणवन्ति च। तान्येतान्यद्य पश्यामि निरानन्दानि सर्वशः॥ २६॥ स्रस्तपर्णैरनुपथं विक्रोशद्भिरिव द्रुमैः। नाद्यापि श्रूयते शब्दो मत्तानां मृगपक्षिणाम्॥ २७॥ संरक्तां मधुरां वाणीं कलं व्याहरतां बहु। चन्दनागरुसम्पृक्तो धूपसम्मूर्छितोऽतुलः॥ २८॥ प्रवाति पवनः श्रीमान् किं तु नाद्य यथापुरम्। भेरीमृदङ्गवीणानां कोणसङ्घट्टितः पुनः॥ २९॥ किमद्य शब्दो विरतः सदादीनगतिः पुरा। अनिष्टानि च पापानि पश्यामि विविधानि च॥ ३०॥ निमित्तान्यमनोज्ञानि तेन सीदति मे मनः। सर्वथा कुशलं सूत दुर्लभं मम बन्दुषु॥ ३१ ॥ तथा ह्यसति सम्मोहे हृदयं सीदतीव मे। विषण्णः श्रान्तहृदयः त्रस्तः संलुलितेन्द्रियः॥ ३२॥ भरतः प्रविवेशाशु पुरीमिक्ष्वाकुपालिताम्। द्वारेण वैजयन्तेन प्राविशच्छ्रान्तवाहनः॥ ३३॥ द्वाःस्थैरुत्थाय विजयं पृष्टस्तैः सहितो ययौ। स त्वनेकाग्रहृदयो द्वाःस्थं प्रत्यर्च्य तं जनम्॥ ३४॥ सूतमश्वपतेः क्लान्तमब्रवीत् तत्र राघवः। किमहं त्वरयानीतः कारणेन विनानघ॥ ३५॥ अशुभाशङ्कि हृदयं शीलं च पततीव मे। श्रुता नो यादृशाः पूर्वं नृपतीनां विनाशने॥ ३६॥ आकारांस्तानहं सर्वानिह पश्यामि सारथे। सम्मार्जनविहीनानि परुषाण्युपलक्षये॥ ३७॥ असंयत कवाटानि श्रीविहीनानि सर्वशः। बलिकर्मविहीनानि धूपसम्मोदनेन च॥ ३८॥ अनाशितकुटुम्बानि प्रभाहीनजनानि च। अलक्ष्मीकानि पश्यामि कुटुम्बिभवनान्यहम्॥ ३९॥ अपेतमाल्यशोभानि ह्यसम्मृष्टाजिराणि च। देवागाराणि शून्यानि न चाभान्ति यथापुरम्॥ ४०॥ देवतार्चाः प्रविद्धाश्च यज्ञगोष्ठ्यस्तथाविधाः। माल्यापणेषु राजन्ते नाद्य पण्यानि वै तथा॥ ४१॥ दृश्यन्ते वणिजोऽप्यद्य न यथापूर्वमत्र वै। ध्यानसंविग्नहृदयाः नष्टव्यापारयन्त्रिताः॥ ४२॥ देवायतनचैत्येषु दीनाः पक्षिगणास्तथा। मलिनं चाश्रुपूर्णाक्षं दीनं ध्यानपरं कृशम्॥ ४३॥ सस्त्रीपुंसं च पश्यामि जनमुत्कण्ठितं पुरे। इत्येवमुक्त्वा भरतः सूतं तं दीनमानसः॥ ४४॥ तान्यनिष्टान्ययोध्यायां प्रेक्ष्य राजगृहं ययौ। तां शून्यशृङ्गाटकवेश्मरथ्यां रजोऽरुणद्वारकपाटयन्त्राम्। दृष्ट्वा पुरीमिन्द्रपुरप्रकाशां दुःखेन सम्पूर्णतरो बभूव॥ ४५॥ बहूनि पश्यन् मनसोऽप्रियाणि यान्यन्यदा नात्र पुरे बभूवुः। अवाक्शिरा दीनमना न हृष्टः पितुर्महात्मा प्रविवेश वेश्म॥ ४६॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् अयोध्याकाण्डे अयोध्यागमनं नाम एकसप्ततितमः सर्गः॥२-७१॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध