home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
अयोध्याकाण्डम्

चतुः पञ्चाशः सर्गः ॥२-५४॥

॥भरद्वाजाश्रमाभिगमनम्॥

[लक्ष्मणसीतासहितस्य श्रीरामस्य प्रयागे गङ्गायमुना- संगमसंनिधौ भरद्वाजाश्रमे गमनं मुनिना तस्या- तिथ्यकरणं चित्रकूटेऽवस्थातुं तस्मै सम्मतिदानं चित्रकूटस्य महत्तायाः शोभायाश्च वर्णनम्]

ते तु तस्मिन् महावृक्ष उषित्वा रजनीं शिवाम्। विमलेऽभ्युदिते सूर्ये तस्माद्देशात् प्रतस्थिरे॥ १॥ यत्र भागीरथीं गङ्गां यमुनाभिप्रवर्तते। जग्मुस्तं देशमुद्दिश्य विगाह्य सुमहद्वनम्॥ २॥ ते भूमिभागान् विविधान् देशांश्चापि मनोरमान्। अदृष्टपूर्वान् पश्यन्तस्तत्र तत्र यशश्विनः॥ ३॥ यथा क्षेमेण संपश्यन् पुष्पितान् विविधान् द्रुमान्। निवृत्तमात्रे दिवसे रामः सौमित्रिमब्रवीत्॥ ४॥ प्रयागमभितः पश्य सौमित्रे धूममुन्नतम्। अग्नेर्भगवतः केतुं मन्ये सन्निहितो मुनिः॥ ५॥ नूनं प्राप्ताः स्म सम्भेदं गङ्गायमुनयोर्वयम्। तथा हि श्रूयते शब्दो वारिणो वारिघर्षजः॥ ६॥ दारूणि परिभिन्नानि वनजैरुपजीविभिः। भरद्वाजाश्रमे चैते दृश्यन्ते विविधा द्रुमाः॥ ७॥ धन्विनौ तौ सुखं गत्वा लम्बमाने दिवाकरे। गङ्गायमुनयोः सन्धौ प्रापतुर्निलयं मुनेः॥ ८॥ रामस्त्वाश्रममासाद्य त्रासयन् मृगपक्षिणः। गत्वा मुहूर्तमध्वानं भरद्वाजमुपागमत्॥ ९॥ ततस्त्वाश्रमासाद्य मुनेर्दर्शनकाङ्क्षिणौ। सीतयाऽनुगतौ वीरौ दूरादेवावतस्थतुः॥ १०॥ स प्रविश्य महात्मानमृषिं शिष्यगणैर्वृतम्। संशितव्रतमेकाग्रं तपसा लब्धचक्षुषम्॥ ११॥ हुताग्निहोत्रं दृष्ट्वैव महाभागं कृताञ्जलिः। रामः सौमित्रिणा सार्धं सीतया चाभ्यवादयत्॥ १२॥ न्यवेदयत चात्मानं तस्मै लक्ष्मणपूर्वजः। पुत्रौ दशरथस्यावां भगवन् रामलक्ष्मणौ॥ १३॥ भार्या ममेयं वैदेही कल्याणी जनकात्मजा। मां चानुयाता विजनं तपोवनमनिन्दिता॥ १४॥ पित्रा प्रव्राज्यमानं मां सौमित्रिरनुज प्रियः। अयमन्वगमद्भ्राता वनमेव दृढव्रतः॥ १५॥ पित्रा नियुक्ता भगवन् प्रवेक्ष्यामस्तपोवनम्। धर्ममेव चरिष्याम पुत्रमूलफलाशनाः॥ १६॥ तस्य तद्वचनं श्रुत्वा राजपुत्रस्य धीमतः। उपानयत धर्मात्मा गामर्घ्यमुदकं ततः॥ १७॥ नानाविधानन्नरसान् वन्यमूलफलाश्रयान्। तेभ्यो ददौ तप्ततपा वासं चैवान्वकल्पयत्॥ १८॥ मृगपक्षिभिरासीनो मुनिभिश्च समन्ततः। राममागतमभ्यर्च्य स्वागतेनाह तं मुनिः॥ १९॥ प्रतिगृह्य च तामर्चामुपविष्टं स राघवम्। भरद्वाजोऽब्रवीद्वाक्यं धर्मयुक्तमिदं तदा॥ २०॥ चिरस्य खलु काकुत्स्थ पश्यामि त्वामिहागतम्। श्रुतं तव मया चेदं विवासनमकारणम्॥ २१॥ अवकाशो विविक्तोऽयं महानद्योः समागमे। पुण्यश्च रमणीयश्च वसत्विह भवान् सुखम्॥ २२॥ एवमुक्तः स वचनं भरद्वाजेन राघवः। प्रत्युवाच शुभं वाक्यं रामः सर्वहिते रतः॥ २३॥ भगवन्नित आसन्नः पौरजानपदो जनः। सुदर्शमिह मां प्रेक्ष्य मन्येऽहमिममाश्रमम्॥ २४॥ आगमिष्यति वैदेहीं मां चापि प्रेक्षको जनः। अनेन कारणेनाहमिह वासं न रोचये॥ २५॥ एकान्ते पश्य भगवन्नाश्रमस्थानमुत्तमम्। रमेत यत्र वैदेही सुखार्हा जनकात्मजा॥ २६॥ एतछ्रुत्वा शुभं वाक्यं भरद्वाजो महामुनिः। राघवस्य ततो वाक्यमर्थग्राहकमब्रवीत्॥ २७॥ दशक्रोश इतस्तात गिरिर्यस्मिन्निवत्स्यसि। महर्षिसेवितः पुण्यः सर्वतः सुखदर्शनः॥ २८॥ गोलाङ्गूलानुचरितो वानरर्क्षनिषेवितः। चित्रकूट इति ख्यातो गन्धमादनसन्निभः॥ २९॥ यावता चित्रकूटस्य नरः शृङ्गाण्यवेक्षते। कल्याणानि समाधत्ते न पापे कुरुते मनः॥ ३०॥ ऋषयस्तत्र बहवो विहृत्य शरदां शतम्। तपसा दिवमारूढाः कपालशिरसा सह॥ ३१॥ प्रविविक्तमहं मन्ये तं वासं भवतः सुखम्। इह वा वनवासाय वस राम मया सह॥ ३२॥ स रामं सर्वकामैस्तं भरद्वाजः प्रियातिथिम्। सभार्यं सह च भ्रात्रा प्रतिजग्राह धर्मवित्॥ ३३॥ तस्य प्रयागे रामस्य तं महर्षिमुपेयुषः। प्रपन्ना रजनी पुण्याः चित्राः कथयतः कथाः॥ ३४॥ सीतातृतीयः काकुत्स्थः परिश्रान्तः सुखोचितः। भरद्वाजाश्रमे रम्ये तां रात्रिमवसत् सुखम्॥ ३५॥ प्रभातायां तु शर्वर्यां भरद्वाजमुपागमत्। उवाच नरशार्दूलो मुनिं ज्वलिततेजसम्॥ ३६॥ शर्वरीं भगवन्नद्य सत्यशील तवाश्रमे। उषिताः स्म सुखं गन्तुमनुजानातु नो भवान्॥ ३७॥ रात्र्यां तु तस्यां व्युष्टायां भरद्वाजोऽब्रवीदिदम्। मधुमूलफलोपेतं चित्रकूटं व्रजेति ह॥ ३८॥ वासमौपयिकं मन्ये तव राम महाबल। नानानगगणोपेतः किन्नरोरगसेवितः॥ ३९॥ मयूरनादाभिरुतो गजराजनिषेवितः। गम्यतां भवता शैलश्चित्रकूटः स विश्रुतः॥ ४०॥ पुण्यश्च रमणीयश्च बहुमूलफलायुतः। तत्र कुञ्जरयूथानि मृगयूथानि चाभितः॥ ४१॥ विचरन्ति वनान्तेऽस्मिन् तानि द्रक्ष्यसि राघव। सरित्प्रस्रवणप्रस्थान् दरीकन्दरनिर्झरान्॥ ४२॥ चरतः सीतया सार्धं नन्दिष्यति मनस्तव। प्रहृष्टकोयष्टिककोकिलस्वनै- र्विनादितं तं वसुधाधरं शिवम्। मृगैश्च मत्तैर्बहुभिश्च कुञ्जरैः सुरम्यमासाद्य समावसाश्रमम्॥ ४३॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् अयोध्याकाण्डे भरद्वाजाश्रमाभिगमनं नाम चतुःपञ्चाश स्सर्गः॥२-५४॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध