पुनरेवं ब्रुवाणं तं भरतं लक्ष्मणाग्रजः। प्रत्युवाच ततः श्रीमाञ्ज्ञातिमध्येऽभिसत्कृतः॥ १॥ उपपन्नमिदं वाक्यं यत्त्वमेवमभाषथाः। जातः पुत्रो दशरथात् कैकेय्यां राजसत्तमात्॥ २॥ पुरा भ्रातः पिता नः स मातरं ते समुद्वहन्। मातामहे समाश्रौषीद्राज्यशुल्कमनुत्तमम्॥ ३॥ दैवासुरे च सङ्ग्रामे जनन्यै तव पार्थिवः। सम्प्रहृष्टो ददौ राजा वरमाराधितः प्रभुः॥ ४॥ ततः सा सम्प्रतिश्राव्य तव माता यशस्विनी। अयाचत नरश्रेष्ठं द्वौ वरौ वरवर्णिनी॥ ५॥ तव राज्यं नरव्याघ्र मम प्रव्राजनं तथा। तौ च राजा तदा तस्यै नियुक्तः प्रददौ वरौ॥ ६॥ तेन पित्राहमप्यत्र नियुक्तः पुरुषर्षभ। चतुर्दश वने वासं वर्षाणि वरदानिकम्॥ ७॥ सोऽहं वनमिदं प्राप्तो निर्जनं लक्ष्मणान्वितः। सीतया चाप्रतिद्वन्द्वः सत्यवादे स्थितः पितुः॥ ८॥ भवानपि तथेत्येव पितरं सत्यवादिनम्। कर्तुमर्हति राजेन्द्र क्षिप्रमेवाभिषेचनात्॥ ९॥ ऋणान्मोचय राजानं मत्कृते भरत प्रभुम्। पितरं त्राहि धर्मज्ञं मातरं चाभिनन्दय॥ १०॥ श्रूयते हि पुरा तात श्रुतिर्गीता यशस्विना। गयेन यजमानेन गयेष्वेव पितॄन् प्रति॥ ११॥ पुन्नाम्नो नरकाद्यस्मात् पितरं त्रायते सुतः। तस्मात् पुत्र इति प्रोक्तः पितॄन् यः पाति सर्वतः॥ १२॥ एष्टव्या बहवः पुत्रा गुणवन्तो बहुश्रुताः। तेषां वै समवेतानामपि कश्चिद्गयां व्रजेत्॥ १३॥ एवं राजर्षयः सर्वे प्रतीता राजनन्दन। तस्मात् त्राहि नरश्रेष्ठ पितरं नरकात् प्रभो॥ १४॥ अयोध्यां गच्छ भरत प्रकृतीरनुरञ्जय। शत्रुघ्नसहितो वीर सह सर्वैर्द्विजातिभिः॥ १५॥ प्रवेक्ष्ये दण्डकारण्यमहमप्यविलम्बयन्। आभ्यां तु सहितो राजन् वैदेह्या लक्ष्मणेन च॥ १६॥ त्वं राजा भरत भव स्वयं नराणां वन्यानामहमपि राजराण्मृगाणाम्। गच्छ त्वं पुरवरमद्य सम्प्रहृष्टः संहृष्टस्त्वहमपि दण्डकान् प्रवेक्ष्ये॥ १७॥ छायां ते दिनकरभाः प्रबाधमानां वर्षत्रं भरत करोतु मूर्ध्नि शीताम्। एतेषामहमपि काननद्रुमाणां छायां तामतिशयिनीं सुखी श्रयिष्ये॥ १८॥ शत्रुघ्नः कुशलमतिस्तु ते सहायः सौमित्रिर्मम विदितः प्रधानमित्रम्। चत्वारस्तनयवरा वयं नरेन्द्रं सत्यस्थं भरत चराम मा विषीद॥ १९॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् अयोध्याकाण्डे रामप्रतिवचनं नाम सप्ताधिक शततमः सर्गः॥२-१०७॥