home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
किष्किन्धाकाण्डम्

एकविंशः सर्गः ॥४-२१॥

॥ह्नुमदाश्वासनम्॥

[ हनुमता तारायाः प्रबोधनं ताराकर्तृकः पत्यनुगमन- निश्चयश्च ]

ततो निपतितां तारां च्युतां तारामिवाम्बरात्। शनैराश्वासयामास हनुमान् हरियूथपः॥ १॥ गुणदोषकृतं जन्तुः स्वकर्म फलहेतुकम्। अव्यग्रस्तदवाप्नोति सर्वं प्रेत्य शुभाशुभम्॥ २॥ शोच्या शोचसि कं शोच्यं दीनं दीनानुकम्पसे। कस्य को वा नु शोच्योऽस्ति देहेऽस्मिन् बुद‍्बुदोपमे॥ ३॥ अङ्गदस्तु कुमारोऽयं द्रष्टव्यो जीवपुत्रया। आयत्यां च विधेयानि समर्थान्यस्य चिन्तय॥ ४॥ जानास्यनियतामेवं भूतानामागतिं गतिम्। तस्माच्छुभं हि कर्तव्यं पण्डिते नैह लौकिकम्॥ ५॥ यस्मिन् हरिसहस्राणि प्रयुतान्यर्बुदानि च। वर्तयन्ति कृतांशानि सोऽयं दिष्टान्तमागतः॥ ६॥ यदयं न्यायदृष्टार्थः सामदानक्षमापरः। गतो धर्मजितां भूमिं नैनं शोचितुमर्हसि॥ ७॥ सर्वे हि हरिशार्दूलाः पुत्रश्चायं तवाङ्गदः। इदं हर्यृक्षराज्यं च त्वत्सनाथमनिन्दिते॥ ८॥ ताविमौ शोकसंतप्तौ शनैः प्रेरय भामिनि। त्वया परिगृहीतोऽयमङ्गदः शास्तु मेदिनीम्॥ ९॥ संततिश्च यथा दृष्टा कृत्यं यच्चापि साम्प्रतम्। राज्ञस्तत् क्रियतां तावदेष कालस्य निश्चयः॥ १०॥ संस्कार्यो हरिराजश्च अङ्गदश्चाभिषिच्यताम्। सिंहासनगतं पुत्रं पश्यन्ती शान्तिमेष्यसि॥ ११॥ सा तस्य वचनं श्रुत्वा भर्तृव्यसनपीडिता। अब्रवीदुत्तरं तारा हनूमन्तमवस्थितम्॥ १२॥ अङ्गदप्रतिरूपाणां पुत्राणामेकतः शतम्। हतस्याप्यस्य वीरस्य गात्रसंश्लेषणं वरम्॥ १३॥ न चाहं हरिराज्यस्य प्रभवाम्यङ्गदस्य वा। पितृव्यस्तस्य सुग्रीवः सर्वकार्येष्वनन्तरः॥ १४॥ न ह्येषा बुद्धिरास्थेया हनूमन्नङ्गदं प्रति। पिता हि बन्धुः पुत्रस्य न माता हरिसत्तम॥ १५॥ न हि मम हरिराजसंश्रयात् क्षमतरमस्ति परत्र चेह वा। अभिमुखहतवीरसेवितं शयनमिदं मम सेवितुं क्षमम्॥ १६॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् सुन्दरकाण्डे हनुमदाश्वासनं नाम एकविंशः सर्गः ॥४-२१॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध