home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
किष्किन्धाकाण्डम्

पञ्चविंशः सर्गः ॥४-२५॥

॥वालिसंस्कारः॥

[ सलक्ष्मणेन श्रीरामेण सुग्रीवस्य ताराया अङ्गदस्य च प्रबोधनं वालिनो दाहसंस्कारार्थं प्रेरणं च तदनु ताराप्रभृतिभिः सह सर्वैर्वानरैर्वालिनः शवस्य श्मशान भूमौ नयनमङ्गदेन तस्य दाहसंस्कारस्य सम्पादनं तदर्थं जलाञ्जलीनां दानं च ]

सुग्रीवं चैव तारां च साङ्गदां सहलक्ष्मणः। समानशोकः काकुत्स्थः सान्त्वयन्निदमब्रवीत्॥ १॥ न शोकपरितापेन श्रेयसा युज्यते मृतः। यदत्रानन्तरं कार्यं तत् समाधातुमर्हथ॥ २॥ लोकवृत्तमनुष्ठेयं कृतं वो बाष्पमोक्षणम्। न कालादुत्तरं किञ्चित् कर्म शक्यमुपासितुम्॥ ३॥ नियतिः कारणं लोके नियतिः कर्मसाधनम्। नियतिः सर्वभूतानां नियोगेष्विह कारणम्॥ ४॥ न कर्ता कस्यचित् कश्चिन्नियोगे नापि चेश्वरः। स्वभावे वर्तते लोकस्तस्य कालः परायणम्॥ ५॥ न कालः कालमत्येति न कालः परिहीयते। स्वभावं च समासाद्य न कश्चिदतिवर्तते॥ ६॥ न कालस्यास्ति बन्धुत्वं न हेतुर्न पराक्रमः। न मित्रज्ञातिसम्बन्धः कारणं नात्मनो वशः॥ ७॥ किं तु कालपरीणामो द्रष्टव्यः साधु पश्यता। धर्मश्चार्थश्च कामश्च कालक्रमसमाहिताः॥ ८॥ इतः स्वां प्रकृतिं वाली गतः प्राप्तः क्रियाफलम्। धर्मार्थकामसंयोगैः पवित्रं प्लवगेश्वरः॥ ९॥ स्वधर्मस्य च संयोगाज्जितस्तेन महात्मना। स्वर्गः परिगृहीतश्च प्राणानपरिरक्षता॥ १०॥ एषा वै नियतिः श्रेष्ठा यां गतो हरियूथपः। तदलं परितापेन प्राप्तकालमुपास्यताम्॥ ११॥ वचनान्ते तु रामस्य लक्ष्मणः परवीरहा। अवदत् प्रश्रितं वाक्यं सुग्रीवं गतचेतसम्॥ १२॥ कुरु त्वमस्य सुग्रीव प्रेतकार्यमनन्तरम्। ताराङ्गदाभ्यां सहितो वालिनो दहनं प्रति॥ १३॥ समाज्ञापय काष्ठानि शुष्काणि च बहूनि च। चन्दनादीनि दिव्यानि वालिसंस्कारकारणात्॥ १४॥ समाश्वासय चैनं त्वमङ्गदं दीनचेतसम्। मा भूर्बालिशबुद्धिस्त्वं त्वदधीनमिदं पुरम्॥ १५॥ अङ्गदस्त्वानयेन्माल्यं वस्त्राणि विविधानि च। घृतं तैलमथो गन्धान् यच्चात्र समनन्तरम्॥ १६॥ त्वं तार शिबिकां शीघ्रमादायागच्छ सम्भ्रमात्। त्वरा गुणवती युक्ता ह्यस्मिन् काले विशेषतः॥ १७॥ सज्जीभवन्तु प्लवगाः शिबिकावाहनोचिताः। समर्था बलिनश्चैव निर्हरिष्यन्ति वालिनम्॥ १८॥ एवमुक्त्वा तु सुग्रीवं सुमित्रानन्दवर्धनः। तस्थौ भ्रातृसमीपस्थो लक्ष्मणः परवीरहा॥ १९॥ लक्ष्मणस्य वचः श्रुत्वा तारः सम्भ्रान्तमानसः। प्रविवेश गुहां शीघ्रं शिबिकासक्तमानसः॥ २०॥ आदाय शिबिकां तारः स तु पर्यापतत् पुनः। वानरैरुह्यमानां तां शूरैरुद्वहनोचितैः॥ २१॥ दिव्यां भद्रासनयुतां शिबिकां स्यन्दनोपमाम्। पक्षिकर्मभिराचित्रां द्रुमकर्मविभूषिताम्॥ २२॥ आचितां चित्रपत्तीभिः सुनिविष्टां समन्ततः। विमानमिव सिद्धानां जालवातायनान्विताम्॥ २३॥ सुनियुक्तां विशालां च सुकृतां विश्वकर्मणा। दारुपवर्तकोपेतां चारुकर्मपरिष्कृताम्॥ २४॥ वराभरणहारैश्च चित्रमाल्योपशोभिताम्। गुहागहनसंछन्नां रक्तचन्दनरूषिताम्॥ २५॥ पुष्पौघैः समभिच्छन्नां पद्ममालाभिरेव च। तरुणादित्यवर्णाभिर्भ्राजमानाभिरावृताम्॥ २६॥ ईदृशीं शिबिकां दृष्ट्वा रामो लक्ष्मणमब्रवीत्। क्षिप्रं विनीयतां वाली प्रेतकार्यं विधीयताम्॥ २७॥ ततो वालिनमुद्यम्य सुग्रीवः शिबिकां तदा। आरोपयत विक्रोशन्नङ्गदेन सहैव तु॥ २८॥ आरोप्य शिबिकां चैव वालिनं गतजीवितम्। अलंकारैश्च विविधैर्माल्यैर्वस्त्रैश्च भूषितम्॥ २९॥ आज्ञापयत् तदा राजा सुग्रीवः प्लवगेश्वरः। और्ध्वदेहिकमार्यस्य क्रियतामनुरूपतः॥ ३०॥ विश्राणयन्तो रत्नानि विविधानि बहून्यपि। अग्रतः प्लवगा यान्तु शिबिका तदनन्तरम्॥ ३१॥ राज्ञामृद्धिविशेषा हि दृश्यन्ते भुवि यादृशाः। तादृशैरिह कुर्वन्तु वानरा भर्तृसत्क्रियाम्॥ ३२॥ अङ्गदं परिगृह्याशु तारप्रभृतयस्तदा। क्रोशन्तः प्रययुः सर्वे वानरा हतबान्धवाः॥ ३३॥ ततः प्रणिहिताः सर्वा वानर्योऽस्य वशानुगाः। चुक्रुशुर्वीरवीरेति भूयः क्रोशन्ति ताः स्त्रियः॥ ३४॥ ताराप्रभृतयः सर्वा वानर्यो हतयूथपाः। अनुजग्मुहिं भर्तारं क्रोशन्त्यः करुणस्वनाः॥ ३५॥ तासां रुदितशब्देन वानरीणां वनान्तरे। वनानि गिरयः सर्वे विक्रोशन्तीव सर्वतः॥ ३६॥ पुलिने गिरिनद्यास्तु विविक्ते जलसंवृते। चितां चक्रुः सुबहवो वानरा शोककर्शिताः॥ ३७॥ अवरोप्य ततः स्कन्धाच्छिबिकां वहनोचिताः। तस्थुरेकान्तमाश्रित्य सर्वे शोकसमन्विताः॥ ३८॥ ततस्तारा पतिं दृष्ट्वा शिबिकातलशायिनम्। आरोप्याङ्के शिरस्तस्य विललाप सुदुःखिता॥ ३९॥ हा वानरमहाराज हा नाथ मम वत्सल। हा महार्ह महाबाहो हा मम प्रिय पश्य माम्॥ ४०॥ जनं न पश्यसीमं त्वं कस्माच्छोकाभिपीडितम्। प्रहृष्टमिव ते वक्त्रं गतासोरपि मानद॥ ४१॥ अस्तार्कसमवर्णं च लक्ष्यते जीवतो यथा। एष त्वां रामरूपेण कालः कर्षति वानर॥ ४२॥ येन स्म विधवाः सर्वाः कृता एकेषुणा रणे। इमास्तास्तव राजेन्द्र वानर्योऽप्लवगास्तव॥ ४३॥ पादैर्विकृष्टमध्वानमागताः किं न बुध्यसे। तवेष्टा ननु नामैता भार्याश्चन्द्रनिभाननाः॥ ४४॥ इदानीं नेक्षसे कस्मात् सुग्रीवं प्लवगेश्वर। एते हि सचिवा राजंस्तारप्रभृतयस्तव॥ ४५॥ पुरवासि जनश्चायं परिवार्यसतेऽनघ। विसर्जयैनान् प्लवगन् यथोचितमरिन्दम॥ ४६॥ ततः क्रीडामहे सर्वा वनेषु मदनोत्कटाः। एवं विलपतीं तारां पतिशोकपरीप्लुताम्॥ ४७॥ उत्थापयन्ति स्म तदा वानर्यः शोककर्शिताः। सुग्रीवेण ततः सार्धमङ्गदः पितरं रुदन्॥ ४८॥ चितामारोपयामास शोकेनाभिहतेन्द्रियः। ततोऽग्निं विधिवद् दत्त्वा सोऽपसव्यं चकार ह॥ ४९॥ पितरं दीर्घमध्वानं प्रस्थितं व्याकुलेन्द्रियः। संस्कृत्य वालिनं ते तु विधिपूर्वं प्लवङ्माः॥ ५०॥ आजग्मुरुदकं कर्तुं नदीं शीतजलां शिवाम्। ततस्ते सहितास्तत्र ह्यङ्गदं स्थाप्य चाग्रतः॥ ५१॥ सुग्रीवतारासहिताः सिषिचुर्वालिने जलम्। सुग्रीवेणेव दीनेन दीनो भूत्वा महाबलः। समानशोकः काकुत्स्थः प्रेतकार्याण्यकारयत्॥ ५२॥ ततस्तु तं वालिनमग्र्यपौरुषं प्रकाशमिक्ष्वाकुवरेषुणा हतम्। प्रदीप्य दीप्ताग्निसमौजसं तदा सलक्ष्मणं राममुपेयिवान् हरिः॥ ५३॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् सुन्दरकाण्डे वालिसंस्कारो नाम पञ्चविंशः सर्गः ॥४-२५॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध