स तदा वालिनं हत्वा सुग्रीवमभिषिच्य च। वसन् माल्यवतः पृष्ठे रामो लक्ष्मणमब्रवीत्॥ १॥ अयं स कालः सम्प्राप्तः समयोऽद्य जलागमः। सम्पश्य त्वं नभो मेघैः संवृतं गिरिसंनिभैः॥ २॥ नवमासधृतं गर्भं भास्करस्य गभस्तिभिः। पीत्वा रसं समुद्राणां द्यौः प्रसूते रसायनम्॥ ३॥ शक्यमम्बरमारुह्य मेघसोपानपङ्क्तिभिः। कुटजार्जुनमालाभिरलंकर्तुं दिवाकरः॥ ४॥ सन्ध्यारागोत्थितैस्ताम्रैरन्तेष्वधिकपाण्डरैः। स्निग्धैरभ्रपटच्छेदैर्बद्धव्रणमिवाम्बरम्॥ ५॥ मन्दमारुतनिःश्वासं सन्ध्याचन्दनरञ्जितम्। आपाण्डुजलदं भाति कामातुरमिवाम्बरम्॥ ६॥ एषा घर्मपरिक्लिष्टा नववारिपरिप्लुता। सीतेव शोकसंतप्ता मही बाष्पं विमुञ्चति॥ ७॥ मेघोदरविनिर्मुक्ताः कह्लारसुखशीतलाः। शक्यमञ्जलिभिः पातुं वाताः केतकगन्धिनः॥ ८॥ एष फुल्लार्जुनः शैलः केतकैरद्गिवासितः। सुग्रीव इव शान्तारिर्धाराभिरभिषिच्यते॥ ९॥ मेघकृष्णाजिनधरा धारायज्ञोपवीतिनः। मारुतापूरितगुहाः प्राधीता इव पर्वताः॥ १०॥ कशाभिरिव हैमीभिर्विद्युद्भिरभिताडितम्। अन्तःस्तनितनिर्घोषं सवेदनमिवाम्बरम्॥ ११॥ नीलमेघाश्रिता विद्युत् स्फुरन्ती प्रतिभाति मे। स्फुरन्ती रावणस्याङ्के वैदेहीव तपस्विनी॥ १२॥ इमास्ता मन्मथवतां हिताः प्रतिहता दिशः। अनुलिप्ता इव घनैर्नष्टग्रहनिशाकराः॥ १३॥ क्वचिद् बाष्पाभिसंरुद्धान् वर्षागमसमुत्सुकान्। कुटजान् पश्य सौमित्रे पुष्पितान् गिरिसानुषु। मम शोकाभिभूतस्य कामसंदीपनान् स्थितान्॥ १४॥ रजः प्रशान्तं सहिमोऽद्य वायु- र्निदाघदोषप्रसराः प्रशान्ताः। स्थिता हि यात्रा वसुधाधिपानां प्रवासिनो यान्ति नराः स्वदेशान्॥ १५॥ सम्प्रस्थिता मानसवासलुब्धाः प्रियान्विताः सम्प्रति चक्रवाकाः। अभीक्ष्णवर्षोदकविक्षतेषु यानानि मार्गेषु न सम्पतन्ति॥ १६॥ क्वचित् प्रकाशं क्वचिदप्रकाशं नभः प्रकीर्णाम्बुधरं विभाति। क्वचित् क्वचित् पर्वतसंनिरुद्धं रूपं यथा शान्तमहार्णवस्य॥ १७॥ व्यामिश्रितं सर्जकदम्बपुष्पै- र्नवं जलं पर्वतधातुताम्रम्। मयूरकेकाभिरनुप्रयातं शैलापगाः शीघ्रतरं वहन्ति॥ १८॥ रसाकुलं षट्पदसंनिकाशं प्रभुज्यते जम्बुफलं प्रकामम्। अनेकवर्णं पवनावधूतं भूमौ पतत्याम्रफलं विपक्वम्॥ १९॥ विद्युत्पताकाः सबलाकमालाः शैलेन्द्रकूटाकृतिसंनिकाशाः। गर्जन्ति मेघाः समुदीर्णनादा मत्ता गजेन्द्रा इव संयुगस्थाः॥ २०॥ वर्षोदकाप्यायितशाद्वलानि प्रवृत्तनृत्तोत्सवबर्हिणानि। वनानि निर्वृष्टवलाहकानि पश्यापराह्णेष्वधिकं विभान्ति॥ २१॥ समुद्वहन्तः सलिलातिभारं बलाकिनो वारिधरा नदन्तः। महत्सु शृङ्गेषु महीधराणां विश्रम्य विश्रम्य पुनः प्रयान्ति॥ २२॥ मेघाभिकामा परिसम्पतन्ती सम्मोदिता भाति बलाकपङ्क्तिः। वातावधूता वरपौण्डरीकी लम्बेव माला रुचिराम्बरस्य॥ २३॥ बालेन्द्रगोपान्तरचित्रितेन विभाति भूमिर्नवशाद्वलेन। गात्रानुवृक्तेन शुकप्रभेण नारीव लाक्षोक्षितकम्बलेन॥ २४॥ निद्रा शनैः केशवमभ्युपैति द्रुतं नदी सागरमभ्युपैति। हृष्टा बलाका घनमभ्युपैति कान्ता सकामा प्रियमभ्युपैति॥ २५॥ जाता वनान्ताः शिखिसंप्रनृत्ता जाताः कदम्बाः सकदम्बशाखाः। जाता वृषा गोषु समानकामा जाता मही सस्यवनाभिरामा॥ २६॥ वहन्ति वर्षन्ति नदन्ति भान्ति ध्यायन्ति नृत्यन्ति समाश्वसन्ति। नद्यो घना मत्तगजा वनान्ताः प्रियाविहीनाः शिखिनः प्लवंगमाः॥ २७॥ प्रहर्षिताः केतकपुष्पगन्ध- माघ्राय हृष्टा वननिर्झरेषु। प्रपातशब्दाकुलिता गजेन्द्राः सार्धं मयूरैः समदा नदन्ति॥ २८॥ धारानिपातैरभिहन्यमानाः कदम्बशाखासु विलम्बमानाः। क्षणार्जितं पुष्परसावगाढं शनैर्मदं षट्चरणास्त्यजन्ति॥ २९॥ अङ्गारचूर्णोत्करसंनिकाशैः फलैः सुपर्याप्तरसैः समृद्धैः। जम्बूद्रुमाणां प्रविभान्ति शाखा निलीयमाना इव षट्पदौघैः॥ ३०॥ तडित्पताकाभिरलंकृताना- मुदीर्णगम्भीरमहारवाणाम्। विभान्ति रूपाणि वलाहकानां रणोद्यतानामिव वारणानाम्॥ ३१॥ मार्गानुगः शैलवनानुसारी सम्प्रस्थितो मेघरवं निशम्य। युद्धाभिकामः प्रतिनागशङ्की मत्तो गजेन्द्रः प्रतिसंनिवृत्तः॥ ३२॥ क्वचित् प्रगीता इव षट्पदौघैः क्वचित् प्रनृत्ता इव नीलकण्ठैः। क्वचित् प्रमत्ता इव वारणेन्द्रै- र्विभान्त्यनेकाश्रयिणो वनान्ताः॥ ३३॥ कदम्बसर्जार्जुनकन्दलाढ्या वनान्तभूमिर्नववारिपूर्णा। मयूरमत्ताभिरुतप्रनृत्तै- रापानभूमिप्रतिमा विभाति॥ ३४॥ मुक्तासकाशं सलिलं पतद् वै सुनिर्मलं पत्रपुटेषु लग्नम्। हृष्टा विवर्णच्छदना विहङ्गाः सुरेन्द्रदत्तं तृषिताः पिबन्ति॥ ३५॥ षट्पादतन्त्रीमधुराभिधानं प्लवङगमोदीरितकण्ठतालम्। आविष्कृतं मेघमृदङ्गनादै- र्वनेषु संगीतमिव प्रवृत्तम्॥ ३६॥ क्वचित् प्रनृत्तैः क्वचिदुन्नदद्भिः क्वचिच्च वृक्षाग्रनिषण्णकायैः। व्यालम्बबर्हाभरणैर्मयूरै- र्वनेषु संगीतमिव प्रवृत्तम्॥ ३७॥ स्वनैर्घनानां प्लवगाः प्रबुद्धा विहाय निद्रां चिरसंनिरुद्धाम्। अनेकरूपाकृतिवर्णनादा नवाम्बुधाराभिहता नदन्ति॥ ३८॥ नद्यः समुद्वाहितचक्रवाका- स्तटानि शीर्णान्यपवाहयित्वा। दृप्ता नवप्राभृतपूर्णभोगा- दृतं स्वभर्तारमुपोपयान्ति॥ ३९॥ नीलेषु नीलाः प्रविभान्ति स्क्ता मेघेषु मेघाः नववारिपूर्णाः। दवाग्निदग्धेषु दवाग्निदग्धाः शैलेषु शैला इव बद्धमूलाः॥ ४०॥ प्रहृष्ट संनादितबर्हिणानि सशक्रगोपाकुलशाद्वलानि। चरन्ति नीपार्जुनवासितानि गजाः सुरम्याणि वनान्तराणि॥ ४१॥ नवाम्बुधाराहतकेसराणि द्रुतं परित्यज्य सरोरुहाणि। कदम्बपुष्पाणि सकेसराणि नवानि हृष्टा भ्रमराः पिबन्ति॥ ४२॥ मत्ता गजेन्द्रा मुदिता गवेन्द्रा वनेषु विश्रान्ततरा मृगेन्द्राः। रम्या नगेन्द्रा निभृता नरेन्द्राः प्रक्रीडितो वारिधरैः सुरेन्द्रः॥ ४३॥ मेघाः समुद्धूतसमुद्रनादा महाजलौघैर्गगनावलम्बाः। नदीस्तटाकानि सरांसि वापी- र्महीं च कृत्स्नामपवाहयन्ति॥ ४४॥ वर्षप्रवेगा विपुलाः पतन्ति प्रवान्ति वाताः समुदीर्णघोषः। प्रणष्टकूलाः प्रवहन्ति शीघ्रं नद्यो जलैर्विप्रतिपन्नमार्गाः॥ ४५॥ नरैर्नरेन्द्रा इव पर्वतेन्द्राः सुरेन्द्रदत्तैः पवनोपनीतैः। घनाम्बुकुम्भैरभिषिच्यमाना रूपं श्रियं स्वामिव दर्शयन्ति॥ ४६॥ घनोपगूढं गगनं सतारं न भास्करो दर्शनमभ्युपैति। नवैर्जलौघैर्धरणी वितृप्ता तमोविलिप्ता न दिशः प्रकाशाः॥ ४७॥ महान्ति कूटानि महीधराणां धाराभिधौतान्यधिकं विभान्ति। महाप्रमाणैर्विपुलैः प्रपातै- र्मुक्ताकलापैरिव लम्बमानैः॥ ४८॥ शैलोपलप्रस्खलमानवेगाः शैलोत्तमानां विपुलाः प्रपाताः। गुहासु संनादितबर्हिणासु हारा विशीर्यन्त इवाभिभान्ति॥ ४९॥ शीघ्रप्रवेगा विपुलाः प्रपाता निर्धौतशृङ्गोपतला गिरीणाम्। मुक्ताकलापप्रतिमाः पतन्तो महागुहोत्सङ्गतलैर्ध्रियन्ते॥ ५०॥ सुरतामर्दविच्छिन्नाः स्वर्गस्त्रीहारमौक्तिकाः। पतन्तिवाकुला दिक्षु तोयधाराः समन्ततः॥ ५१॥ निलीयमानैर्विहगैर्निमीलद्भिश्च पङ्कजैः। विकसन्त्या च मालत्या गतोऽस्तं ज्ञायते रविः॥ ५२॥ वृत्ता यात्रा नरेन्द्राणां सेना प्रतिनिवर्तते। वैराणि चैव मार्गाश्च सलिलेन समीकृताः॥ ५३॥ मासि प्रोष्ठपदे ब्रह्म ब्राह्मणानामधीयताम्। अयमध्यायसमयः सामगानामुपस्थितः॥ ५४॥ निवृत्तकर्मायतनो नूनं संचितसंचयः। आषाढीमभ्युपगतो भरतः कोसलाधिपः॥ ५५॥ नूनमापूर्यमाणायाः सरय्वा वर्धते रयः। मां समीक्ष्य समायान्तमयोध्याया इव स्वनः॥ ५६॥ इमाः स्फीतगुणा वर्षाः सुग्रीवः सुखमश्नुते। विजितारिः सदारश्च राज्ये महति च स्थितः॥ ५७॥ अहं तु हृतदारश्च राज्याच्च महतश्युतः। नदीकूलमिव क्लिन्नमवसीदामि लक्ष्मण॥ ५८॥ शोकश्च मम विस्तीर्णो वर्षाश्च भृशदुर्गमाः। रावणश्च महाञ्शत्रुरपारं प्रतिभाति मे॥ ५९॥ अयात्रां चैव दृष्ट्वेमां मार्गांश्च भृशदुर्गमान्। प्रणते चैव सुग्रीवे न मया किञ्चिदीरितम्॥ ६०॥ अपि चाति परिक्लिष्टं चिराद् दारैः समागतम्। आत्मकार्यगरीयस्त्वाद् वक्तुं नेच्छामि वानरम्॥ ६१॥ स्वयमेव हि विश्रम्य ज्ञात्वा कालमुपागतम्। उपकारं च सुग्रीवो वेत्स्यते नात्र संशयः॥ ६२॥ तस्मात् कालप्रतीक्षोऽहं स्थितोऽस्मि शुभलक्षण। सुग्रीवस्य नदीनां च प्रसादमनुपालयन्॥ ६३॥ उपकारेण वीरो हि प्रतीकारेण युज्यते। अकृतज्ञोऽप्रतिकृतो हन्ति सत्त्ववतां मनः॥ ६४॥ तेनैवमुक्तः प्रणिधाय लक्ष्मणः कृताञ्जलिस्तत् प्रतिपूज्य भाषितम्। उवाच रामं स्वभिरामदर्शनं प्रदर्शयन् दर्शनमात्मनः शुभम्॥ ६५॥ यथोक्तमेतत् तव सर्वमीप्सितं नरेन्द्र कर्ता न चिराद्धरीश्वरः। शरत्प्रतीक्षः क्षमतामिमं भवान् जलप्रपातं रिपुनिग्रहे धृतः॥ ६६॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् सुन्दरकाण्डे प्रावृडुज्जृम्भणं नाम अष्टाविंशः सर्गः ॥४-२८॥