home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
किष्किन्धाकाण्डम्

तृतीयः सर्गः ॥४-३॥

॥हनूमत्प्रेषणम्॥

[ हनुमता श्रीरामलक्ष्मणयोर्वने आगमनस्य किं कारणमिति जिज्ञासाकरणमात्मनः सुग्रीवस्य च परिचयदानं श्रीरामेण तद्वचनानां प्रशंसनं कृत्वा लक्ष्मणस्य स्वपक्षतो वार्ताकरणे नियोजनं लक्ष्मणेन स्वयेऽभ्यर्थने स्वीकृते हनुमतो हर्षश्च ]

वचो विज्ञाय हनुमान् सुग्रीवस्य महात्मनः। पर्वतादृश्यमूकात् तु पुप्लुवे यत्र राघवौ॥ १॥ कपिरूपं परित्यज्य हनुमान् मारुतात्मजः। भिक्षुरूपं ततो भेजे शठबुद्धितया कपिः॥ २॥ ततः स हनुमान् वाचा श्लक्ष्णया सुमनोज्ञया। विनीतवदुपागम्य राघवौ प्रणिपत्य च॥ ३॥ आबभाषेऽथ तौ वीरौ यथावत् प्रशशंस च। सम्पूज्य विधिवद् वीरौ हनुमान् मारुतात्मजः॥ ४॥ उवाच कामतो वाक्यं मृदु सत्यपराक्रमौ। राजर्षिदेवप्रतिमौ तापसौ संशितव्रतौ॥ ५॥ देशं कथमिमं प्राप्तौ भवन्तौ वरवर्णिनौ। त्रासयन्तौ मृगगणानन्यांश्च वनचारिणः॥ ६॥ पम्पातीररुहान् वृक्षान् वीक्षमाणौ समन्ततः। इमां नदीं शुभजलां शोभयन्तौ तरस्विनौ॥ ७॥ धैर्यवन्तौ सुवर्णाभौ कौ युवां चीरवाससौ। निःश्वसन्तौ वरभुजौ पीडयन्ताविमाः प्रजाः॥ ८॥ सिंहविप्रेक्षितौ वीरौ संहातिबलविक्रमौ। शक्रचापनिभे चापे गृहीत्वा शत्रुसूदनौ॥ ९॥ श्रीमन्तौ रूपसम्पन्नौ वृषभश्रेष्ठविक्रमौ। हस्तिहस्तोपमभुजौ द्युतिमन्तौ नरर्षभौ॥ १०॥ प्रभया पर्वतेन्द्रोऽयं युवयोरवभासितः। राज्यार्हावमरप्रख्यौ कथं देशमिहागतौ॥ ११॥ पद्मपत्रेक्षणौ वीरौ जटामण्डलधारिणौ। अन्योन्यसदृशौ वीरौ देवलोकादिवागतौ॥ १२॥ यदृच्छयेव सम्प्राप्तौ चन्द्रसूर्यौ वसुंधराम्। विशालवक्षसौ वीरौ मानुषौ देवरूपिणौ॥ १३॥ सिंहस्कन्धौ महोत्साहौ समदाविव गोवृषौ। आयताश्च सुवृत्ताश्च बाहवः परिघोपमाः॥ १४॥ सर्वभूषणभूषार्हाः किमर्थं न विभूषिताः। उभौ योग्यावहं मन्ये रक्षितुं पृथिवीमिमाम्॥ १५॥ ससागरवनां कृत्स्नां विन्ध्यमेरुविभूषिताम्। इमे च धनुषी चित्रे श्लक्ष्णे चित्रानुलेपने॥ १६॥ प्रकाशेते यथेन्द्रस्य वज्रे हेमविभूषिते। सम्पूर्णा निशितैर्बाणैस्तूणाश्च शुभदर्शनाः॥ १७॥ जीवितान्तकरैर्घोरैः श्वसद्भिरिव पन्नगैः। महाप्रमाणौ विस्तीर्णौ तप्तहाटकभूषितौ॥ १८॥ खड्गावेतौ विराजेते निर्मुक्तविव पन्नगौ। एवं मां परिभाषन्तं कस्माद् वै नाभिभाषथः॥ १९॥ सुग्रीवो नाम धर्मात्मा कश्चिद् वानरयूथपः। वीरो विनिकृतो भ्रात्रा जगद‍्भ्रमति दुःखितः॥ २०॥ प्राप्तोऽहं प्रेषितस्तेन सुग्रीवेण महात्मना। राज्ञा वानरमुख्यानां हनुमान् नाम वानरः॥ २१॥ सुवाभ्यां सह धर्मात्मा सुग्रीवः सख्यमिच्छति। तस्य मां सचिवं वित्तं वानरं पवनात्मजम्॥ २२॥ भिक्षुरूपप्रतिच्छन्नं सुग्रीवप्रियकाम्यया। ऋष्यमूकादिह प्राप्तं कामगं कामरूपिणम्॥ २३॥ एवमुक्त्वा तु हनुमांस्तौ वीरौ रामलक्ष्मणौ। वाक्यज्ञो वाक्यकुशलः पुनर्नोवाच किञ्चन॥ २४॥ एतच्छ्रुत्वा वचस्तस्य रामो लक्ष्मणमब्रवीत्। प्रहृष्टवदनः श्रीमान् भ्रातरं पार्श्वतः स्थितम्॥ २५॥ सचिवोऽयं कपीन्द्रस्य सुग्रीवस्य महात्मनः। तमेव काङ्‍क्षमाणस्य ममान्तिकमुपागतः॥ २६॥ अभिभाषस्व सौमित्रे सुग्रीवसचिवं कपिम्। वाक्यज्ञं मधुरैर्वाक्यैः स्नेहयुक्तमरिन्दम॥ २७॥ नानृग्वेदविनीतस्य नायजुर्वेदधारिणः। नासामवेदविदुषः शक्यमेवं प्रभाषितुम्॥ २८॥ नूनं व्याकरणं कृत्स्नमनेन बहुधा श्रुतम्। बहु व्याहरतानेन न किञ्चिदपशब्दितम्॥ २९॥ न मुखे नेत्रयोर्वापि ललाटे च भ्रुवोस्तथा। अन्येष्वपि च गात्रेषु दोषः संविदितः क्वचित्॥ ३०॥ अविस्तरमसन्दिग्धमविलम्बितमद्रुतम्। उरःस्थं कण्ठगं वाक्यं वर्तते मध्यमे स्वरे॥ ३१॥ संस्कारक्रमसम्पन्नामद्रुतामविलम्बिताम्। उच्चारयति कल्याणीं वाचं हृदयहारिणीम्॥ ३२॥ अनया चित्रया वाचा त्रिस्थानव्यञ्जनस्थया। कस्य नाराध्यते चित्तमुद्यतासेररेरपि॥ ३३॥ एवंविधो यस्य दूतो न भवेत् पार्थिवस्य तु। सिध्यन्ति हि कथं तस्य कार्याणां गतयोऽनघ॥ ३४॥ एवंगुणगणैर्युक्ता यस्य स्युः कार्यसाधकाः। तस्य सिध्यन्ति सर्वेर्था दूतवाक्यप्रचोदिताः॥ ३५॥ एवमुक्तस्तु सौमित्रिः सुग्रीवसचिवं कपिम्। अभ्यभाषत वाक्यज्ञो वाक्यज्ञं पवनात्मजम्॥ ३६॥ विदिता नौ गुणा विद्वन् सुग्रीवस्य महात्मनः। तमेव चावां मार्गावः सुग्रीवं प्लवगेश्वरम्॥ ३७॥ यथा ब्रवीषि हनुमन् सुग्रीववचनादिह। तत् तथा हि करिष्यावो वचनात् तव सत्तम॥ ३८॥ तत् तस्य वाक्यं निपुणं निशम्य प्रहृष्टरूपः पवनात्मजः कपिः। मनः समाधाय जयोपपत्तौ सख्यं तदा कर्तुमियेष ताभ्याम्॥ ३९॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् सुन्दरकाण्डे हनुमत्प्रेषणं नाम तृतीयः सर्गः ॥४-३॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध