home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
किष्किन्धाकाण्डम्

एकत्रिंशः सर्गः ॥४-३१॥

॥लक्ष्मणक्रोधः॥

[ सुग्रीवं प्रति लक्ष्मणस्य कोप:, श्रीरामेण तस्य सान्त्वनं किष्किन्धाद्वारमुपेत्य लक्ष्मणेन सुग्रीव- पार्श्वेऽङ्गदस्य प्रेषणं वानराणां भयं प्लक्षप्रभावाभ्यां सुग्रीवाय कर्तव्यस्योपदेशश्च ]

स कामिनं दीनमदीनसत्त्वं शोकाभिपन्नं समुदीर्णकोपम्। नरेन्द्रसूनुर्नरदेवपुत्रं रामानुजः पूर्वजमित्युवाच॥ १॥ न वानरः स्थास्यति साधुवृत्ते न मन्यते कर्मफलानुषङ्गान्। न भोक्ष्यते वानरराज्यलक्ष्मीं तथा हि नातिक्रमतेऽस्य बुद्धिः॥ २॥ मतिक्षयाद् ग्राम्यसुखेषु सक्त- स्तव प्रसादाप्रतिकारबुद्धिः। हतोऽग्रजं पश्यतु वीर तस्य न राज्यमेवं विगुणस्य देयम्॥ ३॥ न धारये कोपमुदीर्णवेगं निहन्मि सुग्रीवमसत्यमद्य। हरिप्रवीरैः सह वालिपुत्रो नरेन्द्रपुत्र्या विचयं करोतु॥ ४॥ तमात्तबाणासनमुत्पतन्तं निवेदितार्थं रणचण्डकोपम्। उवाच रामः परवीरहन्ता स्ववीक्षितं सानुनयं च वाक्यम्॥ ५॥ नहि वै त्वद्विधो लोके पापमेवं समाचरेत्। कोपमार्येण यो हन्ति स वीरः पुरुषोत्तमः॥ ६॥ नेदमद्य त्वया ग्राह्यं साधुवृत्तेन लक्ष्मण। तां प्रीतिमनुवर्तस्व पूर्ववृत्तं च संगतम्॥ ७॥ सामोपहितया वाचा रूक्षाणि परिवर्जयन्। वक्तुमर्हसि सुग्रीवं व्यतीतं कालपर्यये॥ ८॥ सोऽग्रजेनानुशिष्टार्थो यथावत् पुरुषर्षभः। प्रविवेश पुरीं वीरो लक्ष्मणः परवीरहा॥ ९॥ ततः शुभमतिः प्राज्ञो भ्रातुः प्रियहिते रतः। लक्ष्मणः प्रतिसंरब्धो जगाम भवनं कपेः॥ १०॥ शक्रबाणासनप्रख्यं धनुः कालान्तकोपमम्। प्रगृह्य गिरिशृङ्गाभं मन्दरः सानुमानिव॥ ११॥ यथोक्तकारी वचनमुत्तरं चैव सोत्तरम्। बृहस्पतिसमो बुद्ध्या मत्वा रामानुजस्तदा॥ १२॥ कामक्रोधसमुत्थेन भ्रातुः कोपाग्निना वृतः। प्रभञ्जन इवाप्रीतः प्रययौ लक्ष्मणस्तदाः॥ १३॥ सालतालाश्वकर्णांश्च तरसा पातयन् बहून्। पर्यस्यन् गिरिकूटानि द्रुमानन्यांश्च वेगितः॥ १४॥ शिलाश्च शकलीकुर्वन् पद्‍भ्यां गज इवाशुगः। दूरमेकपदं त्यक्त्वा ययौ कार्यवशाद् द्रुतम्॥ १५॥ तामपश्यद् बलाकीर्णां हरिराजमहापुरीम्। दुर्गामिक्ष्वाकुशार्दूलः किष्किन्धां गिरिसंकटे॥ १६॥ रोषात् प्रस्फुरमाणोष्ठः सुग्रीवं प्रति लक्ष्मणः। ददर्श वानरान् भीमान् किष्किन्धाया बहिश्चरान्॥ १७॥ तं दृष्ट्वा वानराः सर्वे लक्ष्मणं पुरुषर्षभम्। शैलशृङ्गाणि शतशः प्रवृद्धांश्च महीरुहान्॥ १८॥ जगृहुः कुञ्जरप्रख्या वानराः पर्वतान्तरे। तान् गृहीतप्रहरणान् सर्वान् दृष्ट्वा तु लक्ष्मणः॥ १९॥ बभूव द्विगुणं क्रुद्धो बह्विन्धन इवानलः। तं ते भयपरीताङ्गाः क्रुद्धं दृष्ट्वा प्लवंगमाः॥ २०॥ कालमृत्युयुगान्ताभं शतशो विद्रुता दिशः। ततः सुग्रीवभवनं प्रविश्य हरिपुंगवाः॥ २१॥ क्रोधमागमनं चैव लक्ष्मणस्य न्यवेदयन्। तारया सहितः कामी सक्तः कपिवृषो रहः॥ २२॥ न तेषां कपिवीराणां शुश्राव वचनं तदा। ततः सचिवसंदिष्टा हरयो रोमहर्षणाः॥ २३॥ गिरिकुञ्जरमेघाभा नगर्या निर्ययुस्तदा। नखदंष्ट्रायुधा ह्गोराः सर्वे विकृतदर्शनाः॥ २४॥ सर्वे शार्दूलदर्पाश्च सर्वे च विवृताननाः। दशनागबलाः केचित् केचिद् दशगुणोत्तराः॥ २५॥ केचिन्नागसहस्रस्य बभूवुस्तुल्यविक्रमाः। कृत्स्नां हि कपिभिर्व्याप्तां द्रुमहस्तैर्महाबलैः॥ २६॥ अपश्यल्लक्ष्मणः क्रुद्धः किष्किन्धां तां दुरासदाम्। ततस्ते हरयः सर्वे प्राकारपरिघान्तरात्॥ २७॥ निष्क्रम्योदग्रसत्त्वास्तु तस्थुराविष्कृतं तदा। सुग्रीवस्य प्रमादं च पूर्वजस्यार्थमात्मवान्॥ २८॥ बुद्ध्वा कोपवशं वीरः पुनरेव जगाम सः। स दीर्घोष्णमहोच्छ्वासः कोपसंरक्तलोचनः॥ २९॥ बभूव नरशार्दूलः सधूम इव पावकः। बाणशल्यस्फुरज्जिह्वः सायकासनभोगवान्॥ ३०॥ स्वतेजोविषसङ्घातः पञ्चास्य इव पन्नगः। तं दीप्तमिव कालाग्निं नागेन्द्रमिव कोपितम्॥ ३१॥ समासाद्याङ्गदस्त्रासाद् विषादमगमद्भृशम्। सोऽङ्गदं रोषताम्राक्षः संदिदेश महायशाः॥ ३२॥ सुग्रीवः कथ्यतां वत्स ममागमनमित्युत। एष रामानुजः प्राप्तस्त्वत्सकाशमरिन्दम॥ ३३॥ भ्रातुर्व्यसनसंतप्तो द्वारि तिष्ठति लक्ष्मणः। तस्य वाक्ये यदि रुचिः क्रियतां साधु वानर॥ ३४॥ इत्युक्त्वा शीघ्रमागच्छ वत्स वाक्यमिदं मम। लक्ष्मणस्य वचः श्रुत्वा शोकाविष्टोऽङ्गदोऽब्रवीत्। पितुः समीपमागम्य सौमित्रिरयमागतः॥ ३५॥ अथाङ्गदस्तस्य वचो निशम्य सम्भ्रान्तभावः परिदीनवक्त्रः। निपत्य तूर्णं नृपतेस्तरस्वी ततो कुमारश्चरणौ ववन्दे॥ ३६॥ संगृह्य पादौ पितुरुग्र्यतेजा जग्राह मातुः पुनरेव पादौ। पादौ रुमायाश्च निपीडयित्वा निवेदयामास ततस्तदर्थम्॥ ३७॥ स निद्रामदसंवीतो वानरो न विबुद्धवान्। बभूव मदमत्तश्च मदनेन च मोहितः॥ ३८॥ ततः किलकिलां चक्रुर्लक्ष्मणं प्रेक्ष्य वानराः। प्रसादयन्तस्तं क्रुद्धं भयमोहितचेतसः॥ ३९॥ ते महौघनिभं दृष्ट्वा वज्राशनिसमस्वनम्। सिंहनादं समं चक्रुर्लक्ष्मणस्य समीपतः॥ ४०॥ तेन शब्देन महता प्रत्यबुध्यत वानरः। मदविह्वलताम्राक्षो व्याकुलस्स्रग्विभूषणः॥ ४१॥ अथाङ्गदवचः श्रुत्वा तेनैव च समागतौ। मन्त्रिणौ वानरेन्द्रस्य सम्मतोदारदर्शनौ॥ ४२॥ प्लक्षश्चैव प्रभावश्च मन्त्रिणावर्थधर्मयोः। वक्तुमुच्चावचं प्राप्तं लक्ष्मणं तौ शशंसतुः॥ ४३॥ प्रसादयित्वा सुग्रीवं वचनैः सामनिश्चितैः। आसीनं पर्युपासीनौ यथा शक्रं मरुत्पतिम्॥ ४४॥ सत्यसन्धौ महाभागौ भ्रातरौ रामलक्ष्मणौ। वयस्यभावं सम्प्राप्तौ राज्यार्हौ राज्यदायिनौ॥ ४५॥ तयोरेको धनुष्पाणिर्द्वारि तिष्ठति लक्ष्मणः। यस्य भीताः प्रवेपन्तो नादान् मुञ्चन्ति वानराः॥ ४६॥ स एष राघवभ्राता लक्ष्मणो वाक्यसारथिः। व्यवसायरथः प्राप्तस्तस्य रामस्य शासनात्॥ ४७॥ अयं च दयितो राजंस्तारायास्तनयिऽङ्गदः। लक्ष्मणेन सकाशं ते प्रेषितस्त्वरयानघ॥ ४८॥ सोऽयं रोषपरीताक्षो द्वारि तिष्ठति वीर्यवान्। वानरान् वानरपते चक्षुषा निर्दहन्निव॥ ४९॥ तस्य मूर्ध्ना प्रणाम्य त्वं सपुत्रः सह बान्धुभिः। गच्छ शीघ्रं महाराज रोषो ह्यस्य निवर्त्यताम्॥ ५०॥ यथाह रामो धर्मात्मा तत्कुरुष्व समाहितः। राजंस्तिष्ठ स्वसमये भव सत्यप्रतिश्रवाः॥ ५१॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् सुन्दरकाण्डे लक्ष्मणक्रोधो नाम् एकत्रिंशः सर्गः ॥४-३१॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध