home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
किष्किन्धाकाण्डम्

पञ्चत्रिंशः सर्गः ॥४-३५॥

॥तारासमाधानम्॥

[ तारया युक्तियुक्तया वाचा लक्ष्मणस्य प्रशमनम् ]

तथा ब्रूवाणं सौमित्रिं प्रदीप्तमिव तेजसा। अब्रवील्लक्ष्मणं तारा ताराधिपनिभानना॥ १॥ नैवं लक्ष्मण वक्तव्यो नायं परुषमर्हति। हरीणामीश्वरः श्रोतुं तव वक्त्राद् विशेषतः॥ २॥ नैवाकृतज्ञः सुग्रीवो न शठो नापि दारुणः। नैवाकृतकथो वीर न जिह्मश्च कपीश्वरः॥ ३॥ उपकारं कृतं वीरो नाप्ययं विस्मृतः कपिः। रामेण वीर सुग्रीवो यदन्यैर्दुष्करं रणे॥ ४॥ रामप्रसादात् कीर्तिं च कपिराज्यं च शाश्वतम्। प्राप्तवानिह सुग्रीवो रुमां मां च परंतप॥ ५॥ सुदुःखं शयितः पूर्वं प्राप्येदं सुखमुत्तमम्। प्राप्तकालं न जानीते विश्वामित्रो यथा मुनिः॥ ६॥ घृताच्यां किल संसक्तो दश वर्षाणि लक्ष्मण। अहोऽमन्यत धर्मात्मा विश्वामित्रो महामुनिः॥ ७॥ स हि प्राप्तं न जानीते कालं कालविदां वरः। विश्वामित्रो महातेजाः किं पुनर्यः पृथग्जनः॥ ८॥ देहधर्मं गतस्यास्य परिश्रान्तस्य लक्ष्मण। अवितृप्तस्य कामेषु कामं क्षन्तुमिहार्हति॥ ९॥ न च रोषवशं तात गन्तुमर्हसि लक्ष्मण। निश्चयार्थमविज्ञाय सहसा प्राकृतो यथा॥ १०॥ सत्त्वयुक्ता हि पुरुषास्त्वद्विधाः पुरुषर्षभ। अविमृश्य न रोषस्य सहसा यान्ति वश्यताम्॥ ११॥ प्रसादये त्वां धर्मज्ञ सुग्रीवार्थं समाहिता। महान् रोषसमुत्पन्नः संरम्भस्त्यज्यतामयम्॥ १२॥ रुमां मां कपिराज्यं च धनधान्यपसूनि च। रामप्रियार्थं सुग्रीवस्त्यजेदिति मतिर्मम॥ १३॥ समानेष्यति सुग्रीवः सीतया सह राघवम्। शशाङ्कमिव रोहिण्या निहत्वा रावणं रणे॥ १४॥ शतकोटिसहस्राणि लङ्कायां किल रक्षसाम्। अयुतानि च षट्त्रिंशत्सहस्राणि शतानि च॥ १५॥ अहत्वा तांश्च दुर्धर्षान् राक्षसान् कामरूपिणः। न शक्यो रावणो हन्तुं येन सा मैथिली हृता॥ १६॥ ते न शक्या रणे हन्तुमसहायेन लक्ष्मण। रावणः क्रूरकर्मा च सुग्रीवेण विशेषतः॥ १७॥ एवमाख्यातवान् वाली स ह्यभिज्ञो हरीश्वरः। आगमस्तु न मे व्यक्तः श्रवात्तद्‍ब्रवीम्यहम्॥ १८॥ त्वत्सहायनिमित्तं वै प्रेषिता हरिपुङ्गवाः। आनेतुं वानरान् युद्धे सुबहून् हरियूथपान्॥ १९॥ तांश्च प्रतीक्षमाणोऽयं विक्रान्तान् सुमहाबलान्। राघवस्यार्थसिद्ध्यर्थं न निर्याति हरीश्वरः॥ २०॥ कृतात्र संस्था सौमित्रे सुग्रीवेण यथा पुरा। अद्य तैर्वानरैः सर्वैरागन्तव्यं महाबलैः॥ २१॥ ऋक्षकोटिसहस्राणि गोलाङ्गूलशतानि च। अद्य त्वामुपयास्यन्ति जहि कोपमरिन्दम। कोट्योऽनेकास्तु काकुत्स्थ कपीनां दीप्ततेजसाम्॥ २२॥ तव हि मुखमिदं निरीक्ष्य कोपात् क्षतजसमे नयने निरीक्षमाणाः। हरिवरवनिता न यान्ति शान्तिं प्रथमभयस्य हि शङ्किताः स्म सर्वाः॥ २३॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् सुन्दरकाण्डे तारासमाधानं नाम पञ्चत्रिंशः सर्गः ॥४-३५॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध