अथ तानब्रवीत् सर्वान् विश्रान्तान् हरियूथपान्। इदं वचनमेकाग्रा तापसी धर्मचारिणी॥ १॥ वानरा यदि वः खेदः प्रणष्टः फलभक्षणात्। यदि चैतन्मया श्राव्यं श्रोतुमिच्छामि कथ्यताम्॥ २॥ तस्यास्तद् वचनं श्रुत्वा हनूमान् मारुतात्मजः। आर्जवेन यथातत्त्वमाख्यातुमुपचक्रमे॥ ३॥ राजा सर्वस्य लोकस्य महेन्द्रवरुणोपमः। रामो दाशरथिः श्रीमान् प्रविष्टो दण्डकावनम्॥ ४॥ लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया। तस्य भार्या जनस्थानाद् रावणेन हृता बलात्॥ ५॥ वीरस्तस्य सखा राज्ञः सुग्रीवो नाम वानरः। राजा वानरमुख्यानां येन प्रस्थापिता वयम्॥ ६॥ अगस्त्याचरितामाशां दक्षिणां यमरक्षिताम्। सहैभिर्वानरैर्मुख्यैरङ्गदप्रमुखैर्वयम्॥ ७॥ रावणं सहिताः सर्वे राक्षसं कामरूपिणम्। सीतया सह वैदेह्या मार्गध्वमिति चोदिताः॥ ८॥ विचित्य तु वयं सर्व समग्रां दक्षिणां दिशम्। बुभुक्षिताः श्रान्ता वृक्षमूलमुपाश्रिताः॥ ९॥ विवर्णवदनाः सर्वे सर्वे ध्यानपरायणाः। नाधिगच्छामहे पारं मग्नाश्चिन्तामहार्णवे॥ १०॥ चारयन्तस्ततश्चक्षुर्दृष्टवन्तो वयं बिलम्। लतापादपसंछन्नं तिमिरेण समावृतम्॥ ११॥ अस्माद्धंसा जलक्लिन्नाः पक्षैः सलिलविस्त्रवैः। कुरराः सारसाश्चैव निष्पतन्ति पतत्रिणः॥ १२॥ साध्वत्र प्रविशामेति मया तूक्ताः प्लवङ्गमाः। तेषामपि हि सर्वेषामनुमानमुपागतम्॥ १३॥ गच्छाम प्रविशामेति भर्तृकार्यत्वरान्विताः। ततो गाढं निपतिता गृह्य हस्तौ परस्परम्॥ १४॥ इदं प्रविष्टाः सहसा बिलं तिमिरसंवृतम्। एतन्नः कार्यमेतेन कृत्येन वयमागताः॥ १५॥ त्वां चैवोपगताः सर्वे परिद्यूना बुभुक्षिताः। आतिथ्यधर्मदत्तानि मूलानि च फलानि च॥ १६॥ अस्माभिरुपयुक्तानि बुभुक्षापरिपीडितैः। यत् त्वया रक्षिताः सर्वे म्रियमाणा बुभुक्षया॥ १७॥ ब्रूहि प्रत्युपकारार्थं किं ते कुर्वन्तु वानराः। एवमुक्ता तु सर्वज्ञा वानरैस्तैः स्वयंप्रभा॥ १८॥ प्रत्युवाच ततः सर्वानिदं वानरयूथपान्। सर्वेषां परितुष्टास्मि वानराणां महात्मनाम्॥ १९॥ चरन्त्या मम धर्मेण न कार्यमिह केनचित्। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे बिलप्रवेशकारणकथनं नाम द्विपञ्चाशः सर्गः ॥४-५२॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् सुन्दरकाण्डे स्वयंप्रभातिथ्यं नाम एकपञ्चाशः सर्गः ॥४-५१॥