home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
किष्किन्धाकाण्डम्

सप्तपञ्चाशः सर्गः ॥४-५७॥

॥जटायुर्दिष्टकथनम्॥

[ सम्पातिं पर्वतशिखरादवतार्याङ्गदेन तं प्रति जटायुर्वधवृत्तान्तस्य निवेदनं रामसुग्रीवयोमैत्रीं वालिनो वधं च निशाम्य स्वप्रायोपवेशनस्य यत्कारणं तस्य वर्णनम् ]

तत् तु श्रुत्वा तदा वाक्यमङ्गदस्य मुखोद‍्गतम्। अब्रवीद् वचनं गृध्रस्तीक्ष्णतुण्डो महास्वनः॥ १॥ कोऽयं गिरा घोषयति प्राणैः प्रियतरस्य मे। जटायुषो वधं भ्रातुः कम्पयन्निव मे मनः॥ २॥ कथमासीज्जनस्थाने युद्धं राक्षसगृध्रयोः। नामधेयमिदं भ्रातुश्चिरस्याद्य मया श्रुतम्॥ ३॥ इच्छेयं गिरिदुर्गाच्च भवद्भिरवतारितुम्। यवीयसो गुणज्ञस्य श्लाघनीयस्य विक्रमैः॥ ४॥ अतिदीर्घस्य कालस्य तुष्टोऽस्मि परिकीर्तनात्। तदिच्छेयमहं श्रोतुं विनाशं वानरर्षभाः॥ ५॥ भ्रातुर्जटायुषस्तस्य जनस्थाननिवासिनः। तस्यैव च मम भ्रातुः सखा दशरथः कथम्॥ ६॥ यस्य रामः प्रियः पुत्रो ज्येष्ठो गुरुजनप्रियः। सूर्यांशुदग्धपक्षत्वान्न शक्नोम्युपसर्पितुम्॥ ७॥ इच्छेयं पर्वतादस्मादवतर्तुमरिन्दमाः। शोकाद् भ्रष्टस्वरमपि श्रुत्वा ते हरियूथपाः॥ ८ श्रद्दधुर्नैव तद्वाक्यं कर्मणा तस्य शङ्किताः। ते प्रायमुपविष्टास्तु दृष्ट्वा गृध्रं प्लवङ्गमाः॥ ९॥ चक्रुर्बुद्धिं तदा रौद्रां सर्वान् नो भक्षयिष्यति। सर्वथा प्रायमासीनान् यदि नो भक्षयिष्यति॥ १०॥ कृतकृत्या भविष्यामः क्षिप्रं सिद्धिमितो गताः। एतां बुद्धिं ततश्चक्रुः सर्वे ते वानरर्षभाः॥ ११॥ अवतार्य गिरेः शृङ्गाद् गृध्रमाहाङ्गदस्तदा। बभूवर्क्षरजो नाम वानरेन्द्रः प्रतापवान्॥ १२॥ ममार्यः पार्थिवः पक्षिन् धार्मिकस्तस्य चात्मजौ। सुग्रीवश्चैव वाली च पुत्रावोघबलावुभौ॥ १३॥ लोके विश्रुतकर्माभूद् राजा वाली पिता मम। राजा कृत्स्नस्य जगत इक्ष्वाकूणां महारथः॥ १४॥ रामो दाशरथिः श्रीमान् प्रविष्टो दण्डकावनम्। लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया॥ १५॥ पितुर्निदेशनिरतो धर्म्यं पन्थानमाश्रितः। तस्य भार्या जनस्थानाद् रावणेन हृता बलात्॥ १६॥ रामस्य तु पितुर्मित्रं जटायुर्नाम गृध्रराट्। ददर्श सीतां वैदेहीं ह्रियमाणां विहायसा॥ १७॥ रावणं विरथं कृत्वा स्थापयित्वा च मैथिलीम्। परिश्रान्तश्च वृद्धश्च रावणेन हतो रणे॥ १८॥ एवं गृध्रो हतस्तेन रावणेन बलीयसा। संस्कृतश्चापि रामेण गतश्च गतिमुत्तमाम्॥ १९॥ ततो मम पितृव्येण सुग्रीवेण महात्मना। चकार राघवः सख्यं सोऽवधीत् पितरं मम॥ २०॥ मम पित्रा निरुद्धो हि सुग्रीवः सचिवैः सह। निहत्य वालिनं रामस्ततस्तमभिषेचयत्॥ २१॥ स राज्ये स्थापितस्तेन सुग्रीवो वानराधिपः। राजा वानरमुख्यानां येन प्रस्थापिता वयम्॥ २२॥ एवं रामप्रयुक्तास्तु मार्गमाणास्ततस्ततः। वैदेहीं नाधिगच्छामो रात्रौ सूर्यप्रभामिव॥ २३॥ ते वयं दण्डकारण्यं विचित्य सुसमाहिताः। अज्ञानात् तु प्रविष्टाः स्म धरण्या विवृतं बिलम्॥ २४॥ मयस्य मायाविहितं तद् बिलं च विचिन्वताम्। व्यतीतस्तत्र नो मासो यो राज्ञा समयः कृतः॥ २५॥ ते वयं कपिराजस्य सर्वे वचनकारिणः। कृतां संस्थामतिक्रान्ता भयात् प्रायमुपास्महे॥ २६॥ क्रुद्धे तस्मिंस्तु काकुत्स्थे सुग्रीवे च सलक्ष्मणे। गतानामपि सर्वेषां तत्र नो नास्ति जीवितम्॥ २७॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् सुन्दरकाण्डे जटायुर्दिष्टकथनंनाम सप्तपञ्चाशः सर्गः ॥४-५७॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध