home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
किष्किन्धाकाण्डम्

षष्ठः सर्गः ॥४-६॥

॥भूषणप्रत्यभिज्ञानम्॥

[ सुग्रीवेण श्रीरामसमक्षे सीताभूषणानां समानयनं श्रीरामस्य शोकरोषमयं वचनं च ]

पुनरेवाब्रवीत् प्रीतः सुग्रीवो रघुनन्दनम्। अयमाख्याति ते राम सचिवो मन्त्रिसत्तमः॥ १॥ हनुमान् यन्निमित्तं त्वं निर्जनं वनमागतः। लक्ष्मणेन सह भ्रात्रा वसतश्च वने तव॥ २॥ रक्षसापहृता भार्या मैथिली जनकात्मजा। त्वया वियुक्ता रुदती लक्ष्मणेन च धीमता॥ ३॥ अन्तर प्रेप्सुना तेन हत्वा गृध्रं जटायुषम्। भार्यावियोगजं दुःखमचिरात्त्वं विमोक्ष्यसे॥ ४॥ अहं तामानयिष्यामि नष्टां वेदश्रुतिं यथा। रसातले वा वर्तन्तीं वर्तन्तीं वा नभःस्तले॥ ५॥ अहमानीय दास्यामि तव भार्यामरिन्दम। इदं तथ्यं मम वचस्त्वमवेहि च राघव॥ ६॥ न शक्या सा जरयितुमपि सेन्द्रैः सुरासुरैः। तव भार्या महाबाहो भक्ष्यं विषकृतं यथा॥ ७॥ त्यज शोकं महाबाहो तां कान्तामानयामि ते। अनुमानात् तु जानामि मैथिली सा न संशयः॥ ८॥ ह्रियमाणा मया दृष्टा रक्षसा क्रूरकर्मणा। क्रोशन्ती राम रामेति लक्ष्मणेति च विस्वरम्॥ ९॥ स्फुरन्ती रावणस्याङ्के पन्नगेन्द्रवधूर्यथा। आत्मना पञ्चमं मां हि दृष्ट्वा शैलतले स्थितम्॥ १०॥ उत्तरीयं तया त्यक्तं शुभान्याभरणानि च। तान्यस्माभिर्गृहीतानि निहितानि च राघव॥ ११॥ आनयिष्याम्यहं तानि प्रत्यभिज्ञातुमर्हसि। तमब्रवीत् ततो रामः सुग्रीवं प्रियवादिनम्॥ १२॥ आनयस्व सखे शीघ्रं किमर्थं प्रविलम्बसे। एवमुक्तस्तु सुग्रीवः शैलस्य गहनां गुहाम्॥ १३॥ प्रविवेश ततः शीघ्रं राघवप्रियकाम्यया। उत्तरीयं गृहीत्वा तु शुभान्याभरणानि च॥ १४॥ इदं पश्येति रामाय दर्शयामास वानरः। ततो गृहीत्वा तद्वासः शुभान्याभरणानि च॥ १५॥ अभवद् बाष्पसंरुद्धो नीहारेणेव चन्द्रमाः। सीतास्‍नेहप्रवृत्तेन स तु बाष्पेण दूषितः॥ १६॥ हा प्रियेति रुदन् धैर्यमुत्सृज्य न्यपतत् क्षितौ। हृदि कृत्वा तु बहुशस्तमलंकारमुत्तमम्॥ १७॥ निशश्वास भृशं सर्पो बिलस्थ इव रोषितः। अविच्छिन्नाश्रुवेगस्तु सौमित्रिं वीक्ष्य पार्श्वतः॥ १८॥ परिदेवयितुं दीनं रामः समुपचक्रमे। पश्य लक्ष्मण वैदेह्या संत्यक्तं ह्रियमाणया॥ १९॥ उत्तरीयमिदं भूमौ शरीराद् भूषणानि च। शाद्वलिन्यां ध्रुवं भूम्यां सीतया ह्रियमाणया॥ २०॥ उत्सृष्टं भूषणमिदं तथा रूपं हि दृश्यते। एवमुक्तस्तु रामेण लक्ष्मणो वाक्यमब्रवीत्॥ २१॥ नाहं जानामि केयूरे नाहं जानामि कुण्डले। नूपुरे त्वभिजानामि नित्यं पादाभिवन्दनात्॥ २२ ततः स राघवो दिनः सुग्रीवमिदमब्रवीत्। ब्रूहि सुग्रीव कं देशं ह्रियन्ती लक्षिता त्वया॥ २३॥ रक्षसा रौद्ररूपेण मम प्राणैः प्रिया हृता। क्व वा वसति तद् रक्षो महद् व्यसनदं मम॥ २४॥ यन्निमित्तमहं सर्वान् नाशयिष्यामि राक्षसान्। हरता मैथिलीं येन मां च रोषयता भृशम्॥ आत्मनो जीवितान्ताय मृत्युद्वारमपावृतम्॥ २५॥ मम दयिततरा हृता वनाद् रजनिचरेण विमथ्य येन सा। कथय मम रिपुं त्वमद्य वै प्लवगपते यमसंनिधिं नयामि॥ २६॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् सुन्दरकाण्डे भूष्णप्रत्यभिज्ञानं नाम षष्ठः सर्गः ॥४-६॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध