॥ स्मार्तसम्प्रदायः ॥ स्वस्ति प्रजाभ्यः परिपालयन्तां न्याय्येन मार्गेण महीं महीशाः। गोब्राह्मणेभ्यः शुभमस्तु नित्यं लोकाः समस्ताः सुखिनो भवन्तु॥ काले वर्षतु पर्जन्यः पृथिवी सस्यशालिनी। देशोऽयं क्षोभरहितो ब्राह्मणाः सन्तु निर्भयाः॥ अपुत्राः पुत्रिणः सन्तु पुत्रिणः सन्तु पौत्रिणः । अधनाः सधनाः सन्तु जीवन्तु शरदां शतम्॥ चरितं रघुनाथस्य शतकोटिप्रविस्तरम्। एकैकमक्षरं प्रोक्तं महापातकनाशनम्॥ शृण्वन् रामायणं भक्त्या य: पादं पदमेव वा। स याति ब्रह्मणः स्थानं ब्रह्मणा पूज्यते सदा॥ रामाय रामभद्राय रामचन्द्राय वेधसे। रघुनाथाय नाथाय सीतायाः पतये नमः॥ यन्मङ्गलं सहस्राक्षे सर्वदेवनमस्कृते। वृत्रनाशे समभवत्तत्ते भवतु मङ्गलम्॥ मङ्गलं कोसलेन्द्राय महनीयगुणात्मने। चक्रवर्तितनूजाय सार्वभौमाय मङ्गलम्॥ यन्मङ्गलं सुपर्णस्य विनताकल्पयत् पुरा। अमृतं प्रार्थयानस्य तत्ते भवतु मङ्गलम्॥ अमृतोत्पादने दैत्यान् घ्नतो वज्रधरस्य यत्। अदितिर्मङ्गलं प्रादात्तत्ते भवतु मङ्गलम्॥ त्रीन् विक्रमान् प्रक्रमतो विष्णोरमिततेजसः। यदासीन्मङ्गलं राम तत्ते भवतु मङ्गलम्॥ ऋतवः सागरा द्वीपा वेदा लोका दिशश्च ते। मङ्गलानि महाबाहो दिशन्तु तव सर्वदा॥ कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वा प्रकृतेः स्वभावात्। करोमि यद्यत् सकलं परस्मै नारायणायेति समर्पयामि॥ ॥ श्रीवैष्णवसम्प्रदायः॥ एवमेतत् पुरावृत्तमाख्यानं भद्रमस्तु वः। प्रव्याहरत विस्रब्धं बलं विष्णोः प्रवर्धताम्॥ लाभस्तेषां जयस्तेषां कुतस्तेषां पराभवः। येषामिन्दीवरश्यामो हृदये सुप्रतिष्ठितः॥ काले वर्षतु पर्जन्यः पृथिवी सस्यशालिनी। देशोऽयं क्षोभरहितो ब्राह्मणाः सन्तु निर्भयाः॥ कावेरी वर्धतां काले काले वर्षतु वासवः। श्रीरङ्गनाथो जयतु श्रीरङ्गश्रीश्च वर्धताम्॥ स्वस्ति प्रजाभ्यः परिपालयन्तां न्याय्येन मार्गेण महीं महीशाः। गोब्राह्मणेभ्यः शुभमस्तु नित्यं लोकाः समस्ताः सुखिनो भवन्तु॥ मङ्गलं कोसलेन्द्राय महनीयगुणाब्धये। चक्रवर्तितनूजाय सार्वभौमाय मङ्गलम्॥ वेदवेदान्तवेद्याय मेघश्यामलमूर्तये। पुंसां मोहनरूपाय पुण्यश्लोकाय मङ्गलम्॥ विश्वामित्रान्तरङ्गाय मिथिलानगरीपतेः। भाग्यानां परिपाकाय भव्यरूपाय मङ्गलम्॥ पितृभक्ताय सततं भ्रातृभिः सह सीतया। नन्दिताखिललोकाय रामभद्राय मङ्गलम्॥ त्यक्तसाकेतवासाय चित्रकूटविहारिणे। सेव्याय सर्वयमिनां धीरोदाराय मङ्गलम्॥ सौमित्रिणा च जानक्या चापबाणासिधारिणे। संसेव्याय सदा भक्त्या स्वामिने मम मङ्गलम्॥ दण्डकारण्यवासाय खण्डितामरशत्रवे। गृधराजाय भक्ताय मुक्तिदायास्तु मङ्गलम्॥ सादरं शबरीदत्तफलमूलाभिलाषिणे। सौलभ्यपरिपूर्णाय सत्त्वोद्रिक्ताय मङ्गलम्॥ हनुमत्समवेताय हरीशाभीष्टदायिने। वालिप्रमथनायास्तु महाधीराय मङ्गलम्॥ श्रीमते रघुवीराय सेतूल्लङ्घितसिन्धवे। जितराक्षसराजाय रणधीराय मङ्गलम्॥ आसाद्य नगरीं दिव्यामभिषिक्ताय सीतया। राजाधिराजराजाय रामभद्राय मङ्गलम्॥ मङ्गलाशासनपरैर्मदाचार्यपुरोगमैः। सर्वैश्च पूर्वैराचार्यैः सत्कृतायास्तु मङ्गलम्॥ || माध्वसम्प्रदायः ॥ स्वस्ति प्रजाभ्यः परिपालयन्तां न्याय्येन मार्गेण महीं महीशाः॥ गोब्राह्मणेभ्यः शुभमस्तु नित्यं लोकाः समस्ताः सुखिनो भवन्तु॥ काले वर्षतु पर्जन्यः पृथिवी सस्यशालिनी। देशोऽयं क्षोभरहितो ब्राह्मणाः सन्तु निर्भयाः॥ लाभस्तेषां जयस्तेषां कुतस्तेषां पराभवः। येषामिन्दीवरश्यामो हृदये सुप्रतिष्ठितः॥ मङ्गलं कोसलेन्द्राय महनीयगुणाब्धये। चकवर्तितनूजाय सार्वभौमाय मङ्गलम्॥ कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वा प्रकृतेः स्वभावात्। करोमि यद्यत् सकलं परस्मै नारायणायेति समर्पयामि॥