प्रभातायां तु शर्वर्यां विश्वामित्रो महामुनिः। अभ्यभाषत काकुत्स्थं शयानं पर्णसंस्तरे॥ १॥ कौसल्या सुप्रजा राम पूर्वा संध्या प्रवर्तते। उत्तिष्ठ नरशार्दूल कर्तव्यं दैवमाह्निकम्॥ २॥ तस्यर्षेः परमोदारं वचः श्रुत्वा नृपात्मजौ। स्नात्वा कृतोदकौ वीरौ जेपतुः परमं जपम्॥ ३॥ कृताह्निकौ महावीर्यौ विश्वामित्रं तपोधनम्। अभिवाद्यातिसंहृष्टौ गमनायोपतस्थतुः॥ ४॥ तौ प्रयान्तौ महावीर्यौ दिव्यां त्रिपथगां नदीम्। ददृशाते ततस्तत्र सरय्वाः संगमे शुभे॥ ५॥ तत्राश्रमपदं पुण्यमृषीणां भावितात्मनाम्। बहुवर्षसहस्राणि तप्यतां परमं तपः॥ ६॥ तं दृष्ट्वा परमप्रीतौ राघवौ पुण्यमाश्रमम्। ऊचतुस्तं महात्मानं विश्वामित्रमिदं वचः॥ ७॥ कस्यायमाश्रमः पुण्यः को न्वस्मिन् वसते पुमान्। भगवन् श्रोतुमिच्छावः परं कौतूहलं हि नौ॥ ८॥ तयोस्तद्वचनं श्रुत्वा प्रहस्य मुनिपुङ्गवः। अब्रवीत्श्रूयतां राम कस्यायं पूर्वं आश्रमः॥ ९॥ कन्दर्पो मूर्तिमानासीत् काम इत्युच्यते बुधैः। तपस्यन्तमिह स्थाणुं नियमेन समाहितम्॥ १०॥ कृतोद्वाहं तु देवेशं गच्छन्तं समरुद्गणम्। धर्षयामास दुर्मेधा हुंकृतश्च महात्मना॥ ११॥ अवदग्धस्य रौद्रेण चक्षुषा रघुनन्दन। व्यशीर्यन्त शरीरात् स्वात् सर्वगात्राणि दुर्मतेः॥ १२॥ तस्य गात्रं हतं तत्र निर्दग्धस्य महात्मना। अशरीरः कृतः कामः क्रोधाद् देवेश्वरेण ह॥ १३॥ अनङ्ग इति विख्यातस्तदा प्रभृति राघव। स चाङ्गविषयः श्रीमान् यत्राङ्गं स मुमोच ह॥ १४॥ तस्यायमाश्रमः पुण्यस्तस्येमे मुनयः पुरा। शिष्या धर्मपरा नित्यं तेषां पापं न विद्यते॥ १५॥ इहाद्य रजनीं राम वसेम शुभदर्शन। पुण्ययोः सरितोर्मध्ये श्वस्तरिष्यामहे वयम्॥ १६॥ अभिगच्छामहे सर्वे शुचयः पुण्यमाश्रमम्। स्नाताश्च कृतजप्याश्च हुतहव्या नरोत्तम॥ १७॥ इह वासः परो राम सुखं वस्त्यामहे निशाम्। तेषां संवदतां तत्र तपोदीर्घेण चक्षुषा॥ १८॥ विज्ञाय परमप्रीता मुनयो हर्षमागमन्। अर्घ्यं पाद्यं तथातिथ्यं निवेद्य कुशिकात्मजे॥ १९॥ रामलक्ष्मणयोः पश्चादकुर्वन्नतिथिक्रियाम्। सत्कारं समनुप्राप्य कथाभिरभिरञ्जयन्॥ २०॥ यथार्हमजपन् सन्ध्यामृषयस्ते समाहिताः। तत्र वासिभिरानीता मुनिभिः सुव्रतैः सह॥ २१॥ न्यवसन् सुसुखं तत्र कामाश्रमपदे तथा। कथाभिरभिरामभिरभिरमौ नृपात्मजौ। रमयामास धर्मात्मा कौशिको मुनिपुङ्गवः॥ २२॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकिये आदिकाव्ये चतुर्विंशतिसहस्त्रिकायां संहितायां बालकाण्डे कामाश्रमनीवासो नाम त्रयोविंशः सर्गः ॥१-२३॥