ब्रह्मयोनिर्महानासीत् कुशो नाम महातपाः। अक्लिष्टव्रतधर्मज्ञः सज्जनप्रतिपूजकः॥ १॥ स महात्मा कुलीनायां युक्तायां सुगुणोल्बणान्। वैदर्भ्यां जनयामास चतुरः सदृशान् सुतान्॥ २॥ कुशाम्बं कुशनाभं च अधूर्तरजसं वसुम्। दीप्तियुक्तान् महोत्साहान् क्षत्रधर्मचिकीर्षया॥ ३॥ तानुवाच कुशः पुत्रान् धर्मिष्ठान् सत्यवादिनः। क्रियतां पालनं पुत्रा धर्मं प्राप्स्यथ पुष्कलम्॥ ४॥ कुशस्य वचनं श्रुत्वा चत्वारो लोकसंमताः। निवेशं चक्रिरे सर्वे पुराणां नृवरास्तदा॥ ५॥ कुशाम्बस्तु महातेजाः कौशाम्बीमकरोत् पुरीम्। कुशनाभस्तु धर्मात्मा पुरं चक्रे महोदयम्॥ ६॥ अधूर्तरजसो राम धर्मारण्यं महीपतिः। चक्रे पुरवरं राजा वसुश्चक्रे गिरिव्रजम्॥ ७॥ एषा वसुमती राम वसोस्तस्य महात्मनः। एते शैलवराः पञ्च प्रकाशन्ते समन्ततः॥ ८॥ सुमागधी नदी पुण्या मागधा विश्रुता यया। पञ्चानां शैलमुख्यानां मध्ये मालेव शोभते॥ ९॥ सैषा हि मागधी राम वसोस्तस्य महात्मनः। पूर्वाभिचरिता राम सुक्षेत्रा सस्यमालिनी॥ १०॥ कुशनाभस्तु राजर्षिः कन्याशतमनुत्तमम्। जनयामास धर्मात्मा घृताच्यां रघुनन्दन॥ ११॥ तास्तु यौवनशालिन्यो रूपवत्यः स्वलङ्कृताः। उद्यानभूमिमागम्य प्रावृषीव शतह्रदाः॥ १२॥ गायन्त्यो नृत्यमानाश्च वादयन्त्यश्च सर्वशः। आमोदं परमं जग्मुर्वराभरणभूषिताः॥ १३॥ अथ ताश्चारुसर्वाङ्ग्यो रूपेणाप्रतिमा भुवि। उद्यानमध्ये शोभन्ते तारा इव घनान्तरे॥ १४॥ ताः सर्वगुणसम्पन्ना रूपयौवनसंयुताः। दृष्ट्वा सर्वात्मको वायुरिदं वचनमब्रवीत्॥ १५॥ अहं वः कामये सर्वा भार्या मम भविष्यथ। मानुषस्त्यज्यतां भावो दीर्घमायुरवाप्स्यथ॥ १६॥ चलं हि यौवनं नित्यं मानुषेषु विशेषतः। अक्षय्यं यौवनं प्राप्ता अमर्यश्च भविष्यथ॥ १७॥ तस्य तद्वचनं श्रुत्वा वायोरक्लिष्टकर्मणः। अपहास्य ततो वाक्यं कन्याशतमथाब्रवीत्॥ १८॥ अन्तश्चरसि भूतानां सर्वेषां त्वं सुरोत्तम। प्रभावज्ञाश्च ते सर्वाः किमस्मानवमन्यसे॥ १९॥ कुशनाभसुता सर्वाः समर्थास्त्वां सुरोत्तम। स्थानाच्च्यावयितुं देवं रक्षामस्तु तपो वयम्॥ २०॥ मा भूत्स कालो दुर्मेधः पितरं सत्यवादिनम्। नावमन्य स्वधर्मेण स्वयंवरमुपास्महे॥ २१॥ पिता हि प्रभुरस्माकं दैवतं परमं च नः। यस्य नो दास्यति पिता स नो भर्ता भविष्यति॥ २२॥ तासां तद्वचनं श्रुत्वा वायुः परमकोपनः। प्रविश्य सर्वगात्राणि बभञ्ज भगवान् प्रभुः॥ २३॥ ताः कन्या वायुना भग्ना विविशुर्नृपतेर्गृहम्। प्रविश्य भुवि सम्भ्रान्ताः सलज्जाः साश्रुलोचनाः॥ २४॥ स च ता दयिता दीनाः कन्याः परमशोभनाः। दृष्ट्वा भह्नास्तदा राजा सम्भ्रान्त इदमब्रवीत्॥ २५॥ किमिदं कथ्यतां पुत्र्यः को धर्ममवमन्यते। कुब्जाः केन कृताः सर्वा वेष्टन्त्यो नाभिभाषथ॥ २६॥ श्रोतुमिच्छामि तत्पुत्रयो यस्येदं कर्म गहिंतम्। एवं राजा विनिश्वस्य समाधिं संदधे ततः॥ २७॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकिये आदिकाव्ये चतुर्विंशतिसहस्त्रिकायां संहितायां बालकाण्डे मुशनाभकन्योपख्यानं नाम द्वात्रिंशः सर्गः ॥१-३२॥