ततः संतप्तहृदयः स्मरन्निग्रहमात्मनः। विनिःश्वस्य विनिःश्वस्य कृतवैरो महात्मना॥ १॥ स दक्षिणां दिशं गत्वा महिष्या सह राघव। तताप परमं घोरं विश्वामित्रो महातपाः॥ २॥ फलमूलाशनो दान्तश्चचार सुमहत्तपः। अथास्य जज्ञिरे पुत्राः सत्यधर्मपरायणाः॥ ३॥ हविःष्पन्दो मधुष्पन्दो दृढनेत्रो महारथः। पूर्णे वर्षसहस्रे तु ब्रह्मा लोकपितामहः॥ ४॥ अब्रवीन्मधुरं वाक्यं विश्वामित्रं तपोधनम्। जिता राजर्षिलोकास्ते तपसा कुशिकात्मज॥ ५॥ अनेन तपसा त्वां हि राजर्षिरिति विद्महे। एवमुक्त्वा महातेजा जगाम सह दैवतैः॥ ६॥ त्रिविष्टपं ब्रह्मलोकं लोकानां परमेश्वरः। विश्वामित्रोऽपि तच्छ्रुत्वा ह्रिया किञ्चिदवाङ्मुखः॥ ७॥ दुःखेन महताविष्टः समन्युरिदमब्रवीत्। तपश्च सुमहत् तप्तं राजर्षिरिति मां विदुः॥ ८॥ देवाः सर्षिगणाः सर्वे नास्ति मन्ये तपः फलम्। इति निश्चित्य मनसा भूय एव महातपाः॥ ९॥ तपश्चचार काकुत्स्थ परमं परमात्मवान्। एतस्मिन्नेव काले तु सत्यवादी जितेन्द्रियः॥ १०॥ त्रिशङ्कुरिति विख्यात इक्ष्वाकुकुलवर्धनः। तस्य बुद्धिः समुत्पन्ना यजेयमिति राघव॥ ११॥ गच्छेयं स्वशरीरेण देवानां परमां गतिम्। स वसिष्ठं स समाहूय कथयामास चिन्तितम्॥ १२॥ अशक्यमिति चाप्युक्तो वसिष्ठेन महात्मना। प्रत्याख्यातो वसिष्ठेन स ययौ दक्षिणां दिशम्॥ १३॥ ततस्तत्कर्मसिद्ध्यर्थं पुत्रांस्तस्य गतो नृपः। वासिष्ठा दीर्घतपसस्तपो यत्र हि तेपिरे॥ १४॥ त्रिशङ्कुः सुमहातेजाः शतं परमभास्वरम्। वसिष्ठपुत्रान् ददृशे तप्यमानान् यास्विनः॥ १५॥ सोऽभिगम्य महात्मानः सर्वानेव गुरोः सुतान्। अभिवाद्यानुपूर्व्येण ह्रिया किञ्चिदवाङ्मुखः॥ १६॥ अब्रवीत् सुमहाभागान् सर्वानेव कृताञ्जलिः। शरणं वः प्रपद्येऽहं शरण्यान् शरणागतः॥ १७॥ प्रत्याख्यातोऽस्मि भद्रं वो वसिष्ठेन महात्मना। यष्टुकामो महायज्ञं तदनुज्ञातुमर्हथ॥ १८॥ गुरुपुत्रानहं सर्वान् नमस्कृत्य प्रसादये। शिरसा प्रणतो याचे ब्राह्मणांस्तपसि स्थितान्॥ १९॥ ते मां भवन्तः सिद्ध्यर्थं याजयन्तु समाहिताः। सशरीरो यथाहं हि देवलोकमवाप्नुयाम्॥ २०॥ प्रत्याख्यातो वसिष्ठेन गतिमन्यां तपोधनाः। गुरुपुत्रानृते सर्वान् नाहं पश्यामि कांचन॥ २१॥ इक्ष्वाकूणां हि सर्वेषां पुरोधाः परमा गतिः। पुरोधसस्तु विद्वांसस्तारयन्ति सदा नृपन्। तस्मादनन्तरं सर्वे भवन्तो दैवतं मम॥ २२॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकिये आदिकाव्ये चतुर्विंशतिसहस्त्रिकायां संहितायां बालकाण्डे त्रिशङ्कुयाजनप्रार्थना नाम सप्तपञ्चाशः सर्गः ॥१-५७॥