सुरकार्यमिदं रम्भे कर्तव्यं सुमहत् त्वया। लोभनं कौशिकस्येह काममोहसमन्वितम्॥ १॥ तथोक्ता साप्सरा राम सहस्राक्षेण धीमता। व्रीडिता प्राञ्जलिर्भूत्वा प्रत्युवाच सुरेश्वरम्॥ २॥ अयं सुरपते घोरो विश्वामित्रो महामुनिः। क्रोधमुत्स्रक्ष्यते घोरं मयि देव न संशयः॥ ३॥ ततो हि मे भयं देव प्रसादं कर्तुमर्हसि। एवमुक्तस्तया राम सम्भया भीतया तया॥ ४॥ तामुवाच सहस्राक्षो वेपमानां कृताञ्जलिम्। मा भैषी रम्भे भद्रं ते कुरुष्व मम शासनम्॥ ५॥ कोकिलो हृदयग्राही माधवे रुचिरद्रुमे। अहं कन्दर्पसहितः स्थास्यामि तव पार्श्वतः॥ ६॥ त्वं हि रूपं बहुगुणं कृत्वा परमभास्वरम्। तमृषिं कौशिकं भद्रे भेदयस्व तपस्विनम्॥ ७॥ सा श्रुत्वा वचनं तस्य कृत्वा रूपमनुत्तमम्। लोभयामास ललिता विश्वामित्रं शुचिस्मिता॥ ८॥ कोकिलस्य स शुश्राव वल्गु व्याहरतः स्वनम्। सम्प्रहृष्टेन मनसा तत एनामुदैक्षत॥ ९॥ अथ तस्य च शब्देन गीतेनाप्रतिमेन च। दर्शनेन च रम्भाया मुनिः संदेहमागतः॥ १०॥ सहस्राक्षस्य तत् कर्म विज्ञाय मुनिपुंगवः। रम्भां क्रोधसमाविष्टः शशाप कुशिकात्मजः॥ ११॥ यन्मां लोभयसे रम्भे कामक्रोधजयैषिणम्। दश वर्षसहस्राणि शैली स्थास्यसि दुर्भगे॥ १२॥ ब्राह्मणः सुमहातेजास्तपोबलसमन्वितः। उद्धरिष्यति रम्भे त्वां मत्क्रोधकलुषीकृताम्॥ १३॥ एवमुक्त्वा महातेजा विश्वामित्रो महामुनिः। अशक्नुवन् धारयितुं क्रोधं संतापमात्मनः॥ १४॥ तस्य शापेन महता रम्भा शैली तदाभवत्। वचः श्रुत्वा च कन्दर्पो महर्षेः स च निर्गतः॥ १५॥ कोपेन सुमहातेजास्तपोऽपहरणे कृते। इन्द्रियैरजितै राम न लेभे शान्तिमात्मनः॥ १६॥ बभूवास्य मनश्चिन्ता तपोऽपहरणे कृते। नैव क्रोधं गमिष्यामि न च वक्ष्ये कथंचन॥ १७॥ अथ वा नोच्छ्वसिष्यामि संवत्सरशतान्यपि। अहं विशोषयिष्यामि ह्यात्मानं विजितेन्द्रियः॥ १८॥ तावद् यावद्धि मे प्राप्तं ब्राह्मण्यं तपसार्जितम्। अनुच्छ्वसन्नभुञ्जानस्तिष्ठेयं शाश्वतीः समाः॥ १९॥ न हि मे तप्यमानस्य क्षयं यास्यन्ति मूर्तयः। एवं वर्षसहस्रस्य दीक्षां स मुनिपुंगवः। चकाराप्रतिमां लोके प्रतिज्ञां रघुनन्दन॥ २०॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकिये आदिकाव्ये चतुर्विंशतिसहस्त्रिकायां संहितायां बालकाण्डे रम्भाशापो नाम चतुःषष्ठितमः सर्गः ॥१-६४॥