home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
अरण्यकाण्डम्

षट्त्रिंशः सर्गः ॥३-३६॥

॥सहायैषणा॥

[ श्रीरामस्यागांसि वर्णयित्वा तत्पत्न्याः सीताया अपहरणे साहाय्यं कर्तुं मारीचं प्रति रावणस्यानुरोधः ]

मारीच श्रूयतां तात वचनं मम भाषतः। आर्तोऽस्मि मम चार्तस्य भवान् हि परमा गतिः॥ १॥ जानीषे त्वं जनस्थानं भ्राता यत्र खरो मम। दूषणश्च महाबाहुः स्वसा शूर्पणखा च मे॥ २॥ त्रिशिराश्च महातेजा राक्षसः पिशिताशनः। अन्ये च बहवः शूरा लब्धलक्षा निशाचराः॥ ३॥ वसन्ति मन्नियोगेन नित्यवासं च राक्षसाः। बाधमाना महारण्ये मुनीन् ये धर्मचारिणः॥ ४॥ चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम्। शूराणां लब्धलक्षाणां खरचित्तानुवर्तिनाम्॥ ५॥ ते त्विदानीं जनस्थाने वसमाना महाबलाः। सङ्गताः परमायत्ता रामेण सह संयुगे॥ ६॥ नानाप्रहरणोपेताः खरप्रमुखराक्षसाः। तेन सञ्जातरोषेण रामेण रणमूर्धनि॥ ७॥ अनुक्त्वा परुषं किञ्चिच्छरैर्व्यापारितं धनुः। चतुर्दश सहस्राणि रक्षसामुग्रतेजसाम्॥ ८॥ निहतानि शरैस्तीक्ष्णैर्मानुषेण पदातिना। खरश्च निहतः संख्ये दूषणश्च निपातितः॥ ९॥ हत्वा त्रिशिराश्चपि निर्भया दण्डकाः कृताः। पित्रा निरस्तः क्रुद्धेन सभार्यः क्षीणजीवितः॥ १०॥ स हन्ता तस्य सैन्यस्य रामः क्षत्त्रियपांसनः। दुःशीलः कर्कशस्तीक्ष्णो मूर्खो लुब्धोऽजितेन्द्रियः॥ ११॥ त्यक्तधर्मा त्वधर्मात्मा भूतानामहिते रतः। येन वैरं विनारण्ये सत्त्वमाश्रित्य केवलम्॥ १२॥ कर्णनासापहारणाद् भगिनी मे विरूपिता। तस्य भार्यां जनस्थानात् सीतां सुरसुतोपमाम्॥ १३॥ आनयिष्यामि विक्रम्य सहायस्तत्र मे भव। त्वया ह्यहं सहायेन पार्श्वस्थेन महाबल॥ १४॥ भ्रातृभिश्च सुरान् युद्धे समग्रान्नाभिचिन्तये। तत्सहायो भव त्वं मे समर्थो ह्यसि राक्षस॥ १५॥ वीर्ये युद्धे च दर्पे च न ह्यस्ति सदृशस्तव। उपायज्ञो महान् शूरो महामायाविशारदः॥ १६॥ एतदर्थमहं प्राप्तस्त्वत्समीपं निशाचर। शृणु तत्कर्म साहाय्ये यत्कार्यं वचनान्मम॥ १७॥ सौवर्णस्त्वं मृगो भूत्वा चित्रो रजतबिन्दुभिः। आश्रमे तस्य रामस्य सीतायाः प्रमुखे चर॥ १८॥ त्वां तु निःसंशयं सीता दृष्ट्वा तु मृगरूपिणम्। गृह्यतामिति भर्तारं लक्ष्मणं चाभिधास्यति॥ १९॥ ततस्तयोरपाये तु शून्ये सीतां यथासुखम्। निराबाधो हरिष्यामि राहुश्चन्द्रप्रभामिव॥ २०॥ ततः पश्चात् सुखं रामे भार्याहरणकर्शिते। विस्त्रब्धं प्रहरिष्यामि कृतार्थेनान्तरात्मना॥ २१॥ तस्य रामकथां श्रुत्वा मारीचस्य महात्मनः। शुष्कं समभवद् वक्त्रं परित्रस्तो बभूव च॥ २२॥ ओष्ठौ परिलिहन् शुष्कौ नेत्रैरनिमिषैरिव। मृतभूत इवार्तस्तु रावणं समुदैक्षत॥ २३॥ स रावणं त्रस्तविषण्णचेता महावने रामपराक्रमज्ञः। कृताञ्जलिस्तत्त्वमुवाच वाक्यं हितं च तस्मै हितमात्मनश्च॥ २४॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् अरण्यकाण्डे सहायैषणा नाम षट्त्रिंशः सर्गः ॥३-३६॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध