home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
अरण्यकाण्डम्

एकोनचत्वारिंशः सर्गः ॥३-३९॥

॥साहाय्यकानभ्युपगमः॥

[ मारीचेन रावणस्य प्रबोधन ]

एवमस्मि तदा मुक्तः कथंचित् तेन संयुगे। इदानीमपि यद्वृत्तं तच्छृणुष्व निरुत्तरम्॥ १॥ राक्षसाभ्यामहं द्वाभ्यामनिर्विण्णस्तथा कृतः। सहितो मृगरूपाभ्यां प्रविष्टो दण्डकावनम्॥ २॥ दीप्तजिह्वो महाकायस्तीक्ष्णदंष्ट्रो महाबलः। व्यचरन् दण्डकारण्यं मांसभक्षो महामृगः॥ ३॥ अग्निहोत्रेषु तीर्थेषु चैत्यवृक्षेषु रावण। अत्यन्तघोरो व्यचरं तापसान् संप्रधर्षयन्॥ ४॥ निहत्य दण्डकारण्ये तापसान् धर्मचारिणः। रुधिराणि पिबंस्तेषां तथा मांसानि च भक्षयन्॥ ५॥ ऋषिमांसाशनः क्रूरस्त्रासयन् वनगोचरान्। तथा रुधिरमत्तोऽहं विचरन् दण्डकावनम्॥ ६॥ आसादयं तदा रामं तापसं धर्ममाश्रितम्। वैदेहीं च महाभागां लक्ष्मणं च महारथम्॥ ७॥ तापसं नियताहारं सर्वभूतहिते रतम्। सोऽहं वनगतं रामं परिभूय महाबलम्॥ ८॥ तापसोऽयमिति ज्ञात्वा पूर्ववैरमनुस्मरन्। अभ्यधावं हि संक्रुद्धस्तीक्ष्णशृङ्गो मृगाकृतिः॥ ९॥ जिघांसुरकृतप्रज्ञस्तं प्रहारमनुस्मरन्। तेन मुक्तास्त्रयो बाणाः शिताः शत्रुनिबर्हणाः॥ १०॥ विकृष्य सुमहच्चापं सुपर्णानिलनिस्वनाः। ते बाणा वज्रसंकाशाः सुघोरा रक्तभोजनाः॥ ११॥ आजग्मुः सहिताः सर्वे त्रयः संनतपर्वणः। पराक्रमज्ञो रामस्य शठो दृष्टभयः पुरा॥ १२॥ समुत्क्रान्तस्ततो मुक्तस्तावुभौ राक्षसौ हतौ। शरेण मुक्तो रामस्य कथंचित् प्राप्य जीवितम्॥ १३॥ इह प्रव्राजितो युक्तस्तापसोऽहं समाहितः। वृक्षे वृक्षे हि पश्यामि चीरकृष्णाजिनाम्बरम्॥ १४॥ गृहीतधनुषं रामं पाशहस्तमिवान्तकम्। अपि रामसहस्राणि भीतः पश्यामि रावण॥ १५॥ रामभूतमिदं सर्वमरण्यं प्रतिभाति मे। राममेव हि पश्यामि रहिते राक्षसाधिप॥ १६॥ दृष्ट्वा स्वप्नगतं राममुद‍्भ्रमामि विचेतनः। रकारादीनि नामानि रामत्रस्तस्य रावण॥ १७॥ रत्नानि च रथाश्चैव वित्रासं जनयन्ति मे। अहं तस्य प्रभावज्ञो न युद्धं तेन ते क्षमम्॥ १८॥ बलिं वा नमुचिं वापि हन्याद्धि रघुनन्दनः। रणे रामेण युध्यस्व क्षमां वा कुरु राक्षस॥ १९॥ न ते रामकथा कार्या यदि मां द्रष्टुमिच्छसि। बहवः साधवो लोके युक्ता धर्ममनुष्ठिताः॥ २०॥ परेषामपराधेन विनष्टाः सपरिच्छदाः। सोऽहं तवापराधेन विनश्येयं निशाचर॥ २१॥ कुरु यत् ते क्षमं तत्त्वमहं त्वां नानुयामि ह। रामश्च हि महातेजा महासत्त्वो महाबलः॥ २२॥ अपि राक्षसलोकस्य भवेदन्तकरोऽपि हि। यदि शूर्पणखाहेतोर्जनस्थानगतः खरः॥ २३॥ अतिवृत्तो हतः पूर्वं रामेणाक्लिष्टकर्मणा। अत्र ब्रूहि यथातत्त्वं को रामस्य व्यतिक्रमः॥ २४॥ इदं वचो बन्धुहितार्थिना मया यथोच्यमानं यदि नाभिपस्यसे। सबान्धवस्त्यक्ष्यसि जीवितं रणे हतोऽद्य रामेण शरैरजिह्मगैः॥ २५॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् अरण्यकाण्डे साहाय्यकानभ्युपगमो नाम एकोनचत्वारिंशः सर्गः ॥३-३९॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध