एवं ब्रुवन्त्यां सीतायां संरब्धः परुषं वचः। ललाटे भ्रुकुटिं कृत्वा रावणः प्रत्युवाच ह॥ १॥ भ्राता वैश्रवणस्याहं सापत्नो वरवर्णिनि। रावणो नाम भद्रं ते दशग्रीवः प्रतापवान्॥ २॥ यस्य देवाः सगन्धर्वाः पिशाचपतगोरगाः। विद्रवन्ति भयाद्भीता मृत्योरिव सदा प्रजाः॥ ३॥ येन वैश्रवणो भ्राता वैमात्राः कारणान्तरे। द्वन्द्वमासादितः क्रोधाद् रणे विक्रम्य निर्जितः॥ ४॥ मद्भयार्तः परित्यज्य स्वमधिष्ठानमृद्धिमत्। कैलासं पर्वतश्रेष्ठमध्यास्ते नरवाहनः॥ ५॥ यस्य तत् पुष्पकं नाम विमानं कामगं शुभम्। वीर्यादेवर्जितं भद्रे येन यामि विहायसम्॥ ६॥ मम संजातरोषस्य मुखं दृष्ट्वैव मैथिलि। महारथाः परित्रस्ताः सुराः शक्रपुरोगमाः॥ ७॥ यत्र तिष्ठाम्यहं तत्र मारुतो वाति शङ्कितः। तीव्रांशुः शिशिरांशुश्च भयात् सम्पद्यते रविः॥ ८॥ निष्कम्पपत्रास्तरवो नद्यश्च स्तिमितोदकाः। भवन्ति यत्र तत्राहं तिष्ठामि चिचरामि च॥ ९॥ मम पारे समुद्रस्य लङ्का नाम पुरी शुभा। सम्पूर्णा राक्षसैर्घोरैर्यथेन्द्रस्यामरावती॥ १०॥ प्राकारेण परिक्षिप्ता पाण्डुरेण विराजिता। हेमकक्ष्या पुरी रम्या वैडूर्यमयतोरणा॥ ११॥ हस्त्यश्वरथसम्बाधा तूर्यनादविनादिता। सर्वकालफलैर्वृक्षैः संकुलोद्यानशोभिता॥ १२॥ तत्र त्वं वसती सीते राजपुत्रि मया सह। न स्मरिष्यसि नारीणां मानुषीणां मनस्विनि॥ १३॥ भुञ्जाना मानुषान् भोगान् दिव्यांश्च वरवर्णिनि। न स्मरिष्यसि रामस्य मानुषस्य गतायुषः॥ १४॥ स्थापयित्वा प्रियं पुत्रं राज्ये दशरथेन यः। मन्दवीर्यः सुतो ज्येष्ठस्ततः प्रस्थापितो वनम्॥ १५॥ तेन किं भ्रष्टराज्येन रामेण गतचेतसा। करिष्यसि विशालाक्षि तापसेन तपस्विना॥ १६॥ सर्वराक्षसभर्तारं कामय स्वयमागतम्। न मन्मथशराविष्टं प्रत्याख्यातुं त्वमर्हसि॥ १७॥ प्रत्याख्याय हि मां भीरु परितापं गमिष्यसि। चरणेनाभिहत्येव पुरूरवसमुर्वशी॥ १८॥ अङ्गुल्या न समो रामो मम युद्धे स मानुषः। तव भाग्येन सम्प्राप्तं भजस्व वरवर्णिनि॥ १९॥ एवमुक्ता तु वैदेही क्रुद्धा संरक्तलोचना। अब्रवीत् परुषं वाक्यं रहिते राक्षसाधिपम्॥ २०॥ कथं वैश्रवणं देवं सर्वभूतनमस्कृतम्। भ्रातरं व्यपदिश्य त्वमशुभं कर्तुमिच्छसि॥ २१॥ अवश्यं विनशिष्यन्ति सर्वे रावण राक्षसाः। येषां त्वं कर्कशो राजा दुर्बुद्धिरजितेन्द्रियः॥ २२॥ अपहृत्य शचीं भार्यां शक्यमिन्द्रस्य जीवितुम्। न च रामस्य भार्यां मामानीयास्ति जीवितम्॥ २३॥ जीवेच्चिरं वज्रधरस्य हस्ता- च्छचीं प्रधृष्याप्रतिरूपरूपाम्। न मादृशीं राक्षस दूषयित्वा पीतामृतस्यापि तवास्ति मोक्षः॥ २४॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् अरण्यकाण्डे रावणविकत्थनं नाम अष्टचत्वारिंशः सर्गः ॥३-४८॥