home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
अरण्यकाण्डम्

एकपञ्चाशः सर्गः ॥३-५१॥

॥जटायूरावणयुद्धम्॥

[ जटायूरावणयोर्घोरं युद्धं रावणेन जटायुषो वधश्च ]

इत्युक्तस्य यथान्यायं रावणस्य जटायुषा। क्रुद्धस्याग्निनिभाः सर्वा रेजुविंशतिद्य्ष्टयः॥ १॥ संरक्तनयनः कोपात् तप्तकाञ्चनकुण्डलः। राक्षसेन्द्रोऽभिदुद्राव पतगेन्द्रममर्षणः॥ २॥ स सम्प्रहारस्तुमुलस्तयोस्तस्मिन् महावने। बभूव वातोद्धतयोर्मेघयोर्गगने यथा॥ ३॥ तद् बभूवाद्भुतं युद्धं गृध्रराक्षसयोस्तदा। सपक्षयोर्माल्यवतोर्महापर्वतयोरिव॥ ४॥ ततो नालीकनाराचैस्तीक्ष्णाग्रैश्च विकर्णिभिः। अभ्यवर्षन्महाघोरैर्गृध्रराजं महाबलम्॥ ५॥ स तानि शरजालानि गृध्रः पत्ररथेश्वरः। जटायुः प्रतिजग्राह रावणास्त्राणि संयुगे॥ ६॥ तस्य तीक्ष्णनखाभ्यां तु चरणाभ्यां महाबलः। चकार बहुधा गात्रे व्रणान् पतगसत्तमः॥ ७॥ अथ क्रोधाद् दशग्रीवो जग्राह दश मार्गणान्। मृत्युदण्डनिभान् घोरान् शत्रोर्निधनकाङ्क्षया॥ ८॥ स तैर्बाणैर्महावीर्यः पूर्णमुक्तैरजिह्मगैः। बिभेद निशितैस्तीक्ष्णैर्गृध्रं घोरैः शिलीमुखैः॥ ९॥ स राक्षसरथे पश्यञ्जानकीं बाष्पलोचनाम्। अचिन्तयित्वा तान् बाणान् राक्षसं समभिद्रवत्॥ १०॥ ततोऽस्य सशरं चापं मुक्तामणिविभूषितम्। चरणाभ्यां महातेजा बभञ्ज पतगेश्वरः॥ ११॥ ततोऽन्यद् धनुरादाय रावणः क्रोधमूर्च्छितः। ववर्ष शरवर्षाणि शतशोऽथ सहस्रशः॥ १२॥ शरैरावारितस्तस्य संयुगे पतगेश्वरः। कुलायमुपसंप्राप्तः पक्षिव प्रबभौ तदा॥ १३॥ स तानि शरवर्शाणि पक्षाभ्यां च विधूय च। चरणाभ्यां महातेजा बभञ्जास्य महद् धनुः॥ १४॥ तच्चाग्निसदृशं दीप्तं रावणस्य शरावरम्। पक्षाभ्यां स महावीर्यो व्यधुनोत् पतगेश्वरः॥ १४॥ काञ्चनोरश्छदान् दिव्यान् पिशाचवदनान् खरान्। तांश्चास्य जवसम्पन्नाञ्जघान समरे बली॥ १६॥ वरं त्रिवेणुसम्पन्नं कामगं पावकार्चिषम्। मणिहेमविचित्राङ्गं बभञ्ज च महारथम्॥ १७॥ पूर्णचन्द्रप्रतीकाशं छत्रं च व्यजनैः सह। पातयामास वेगेन ग्राहिभी राक्षसैः सह॥ १८॥ सारथेश्चास्य वेगेन तुण्डेनैव महच्छिरः। पुनर्व्यपाहरच्छ्रीमान् पक्षिराजो महाबलः॥ १९॥ स भग्नधन्वा विरथो हताश्वो हतसारथिः। अङ्केनादाय वैदेहीं पपात भुवि रावणः॥ २०॥ दृष्ट्वा निपतितं भूमौ रावणं भग्नवाहनम्। साधु साध्विति भूतानि गृध्रराजमपूजयन्॥ २१॥ परिश्रान्तं तु तं दृष्ट्वा जरया पक्षियूथपम्। उत्पपात पुनर्हृष्टो मैथिलीं गृह्य रावणः॥ २२॥ तं प्रहृष्टं निधायाङ्के गच्छन्तं जनकात्मजाम्। गृध्रराजः समुत्पत्य समभिद्रुत्य रावणम्॥॥ २३॥ समावार्य महातेजा जटायुरिदमब्रवीत्। वज्रसंस्पर्शबाणस्य भार्यां रामस्य रावण॥ २४॥ अल्पबुद्धे हरस्येनां वधाय खलु रक्षसाम्। समित्रबन्धुः सामात्यः सबलः सपरिच्छदः॥ २५॥ विषपानं पिबस्येतत् पिपासित इवोदकम्। अनुबन्धमजानन्तः कर्मणामविचक्षणाः॥ २६॥ शीघ्रमेव विनश्यन्ति यथा त्वं विनशिष्यसि। बद्धस्त्वं कालपाशेन क्व गतस्तस्य मोक्ष्यसे॥ २७॥ वधाय बडिशं गृह्य सामिषं जलजो यथा। न हि जातु दुराधर्षौ काकुत्स्थौ तव रावण॥ २८॥ धर्षणं चाश्रमस्यास्य क्षमिष्येते तु राघवौ। यथा त्वया कृतं कर्म भीरुणा लोकगर्हितम्॥ २९॥ तस्कराचरितो मार्गो नैष वीरनिषेवितः। युद‍्ध्यस्व यदि शूरोऽसि मुहूर्तं तिष्ठ रावण॥ ३०॥ शयिष्यसे हतो भूमौ यथा भ्राता खरस्तथा। परेतकाले पुरुषो यत् कर्म प्रतिपद्यते॥ ३१॥ विनाशायात्मनोऽधर्म्यं प्रतिपन्नोऽसि कर्म तत्। पापानुबन्धो वै यस्य कर्मणः कर्म को नु तत्॥ ३२॥ कुर्वीत लोकाधिपतिः स्वयंभूर्भगवानपि। एवमुक्त्वा शुभं वाक्यं जटायुस्तस्य रक्षसः॥ ३३॥ निपपात भृशं पृष्ठे दशग्रीवस्य वीर्यवान्। तं गृहीत्वा नखैस्तीक्ष्णैर्विददार समन्ततः॥ ३४॥ अधिरूढो गजारोहो यथा स्याद् दुष्टवारणम्। विददार नखैरस्य तुण्डं पृष्ठे समर्पयन्॥ ३५॥ केशांश्चोत्पाटयामास नखपक्षमुखायुधः। स तथा गृध्रराजेन क्लिश्यमानो मुहुर्मुहुः॥ ३६॥ अमर्षस्फुरितोष्ठः सन् प्राकम्पत स रावणः। स परिष्वज्य वैदेहीं वामेनाङ्केन रावणः॥ ३७॥ तलेनाभिजघानाशु जटायुं क्रोधमूर्च्छितः। जटायुस्तमभिक्रम्य तुण्डेनास्य खगाधिपः॥ ३८॥ वामबाहून् दश तदा व्यपाहरदरिन्दमः। संछिन्नबाहोः सद्यो वै बाहवः सहसाभवन्॥ ३९॥ विषज्वालावलीयुक्ता वल्मीकादिव पन्नगाः। ततः क्रोधाद् दशग्रीवः सीतामुत्सृज्य रावणः॥ ४०॥ मुष्टिभ्यां चरणाभ्यां च गृध्रराजमपोथयत्। ततो मुहूर्तं संग्रामो बभूवातुलवीर्ययोः॥ ४१॥ राक्षसानां च मुख्यस्य पक्षिणां प्रवरस्य च। तस्य व्यायच्छमानस्य रामस्यार्थे स रावणः॥ ४२॥ पक्षौ पार्श्वौ च पादौ च खड्गमुद्‍धृत्य सोऽच्छिनत्। स च्छिन्नपक्षः सहसा रक्षसा रौद्रकर्मणा॥ ४३॥ निपपात हतो गृध्रो धरण्यामल्पजीवितः। तं दृष्ट्वा पतितं भूमौ क्षतजार्द्रं जटायुषम्। अभ्यधावत वैदेही स्वबन्धुमिव दुःखिता॥ ४४॥ तं नीलजीमूतनिकाशकल्पं सपाण्डरोरस्कमुदारवीर्यम्। ददर्श लङ्काधिपतिः पृथिव्यां जटायुषं शान्तमिवाग्निदावम्॥ ४५॥ ततस्तु तं पत्ररथं महीतले निपातितं रावणवेगमर्दितम्। पुनः परिष्वज्य शशिप्रभानना रुरोद सीता जनकात्मजा तदा॥ ४६॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् अरण्यकाण्डे जटायूरावणयुद्धं नाम एकपञ्चाशः सर्गः ॥३-५१॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध