ह्रियमाणा तु वैदेही कंचिन्नाथमपश्यती। ददर्श गिरिशृङ्गस्थान् पञ्च वानरपुङ्गवान्॥ १॥ तेषां मध्ये विशालाक्षी कौशेयं कनकप्रभम्। उत्तरीयं वरारोहा शुभान्याभरणानि च॥ २॥ मुमोच यदि रामाय शंसेयुरिति मैथिली। वस्त्रमुत्सृज्य तन्मध्ये निक्षिप्तं सहभूषणम्॥ ३॥ सम्भ्रमात् तु दशग्रीवस्तत् कर्म च न बुद्धवान्। पिङ्गाक्षास्तां विशालाक्षीं नेत्रैरनिमिषैरिव॥ ४॥ विक्रोशन्तीं तथा सीतां दृशुर्वानरर्षभाः। स च पम्पामतिक्रम्य लङ्कामभिमुखः पुरीम्॥ ५॥ जगाम रुदतीं गृह्य वैदेहीं राक्षसेश्वरः। तां जहार सुसंहृष्टो रावणो मृत्युमात्मनः॥ ६॥ उत्सङ्गेनैव भुजगीं तीक्ष्णदंष्ट्रां महाविषाम्। वनानि सरितः शैलान् सरांसि च विहायसा॥ ७॥ स क्षिप्रं समतीयाय शरश्चापादिव च्युतः। तिमिनक्रनिकेतं तु वरुणालयमक्षयम्॥ ८॥ सरितां शरणं गत्वा समतीयाय सागरम्। सम्भ्रमात् परिवृत्तोर्मी रुद्धमीनमहोरगः॥ ९॥ वैदेह्यां ह्रियमाणायां बभूव वरुणालयः। अन्तरिक्षगता वाचः ससृजुश्चारणास्तदा॥ १०॥ एतदन्तो दशग्रीव इति सिद्धास्तदाब्रुवन्। स तु सीतां विचेष्टन्तीमङ्केनादाय रावणः॥ ११॥ प्रविवेश पुरीं लङ्कां रूपिणीं मृत्युमात्मनः। सोऽभिगम्य पुरीं लङ्कां सुविभक्तमहापथाम्॥ १२॥ संरूढकक्ष्याबहुलं स्वमन्तःपुरमाविशत्। तत्र तामसितापाङ्गीं शोकमोहपरायणाम्॥ १३॥ निदधे रावणः सीतां मयो मायामिव स्त्रियम्। अब्रवीच्च दशग्रीवः पिशाचीर्घोरदर्शनाः॥ १४॥ यथा नेमां पुमान् स्त्री वा सीतां पश्यत्यसम्मतः। मुक्तामणिसुवर्णानि वस्त्राण्याभरणानि च॥ १५॥ यद् यदिच्छेत् तदैवास्या देयं मच्छन्दतो यथा। या च वक्ष्यति वैदेहीं वचनं किञ्चिदप्रियम्॥ १६॥ अज्ञानाद् यदि वा ज्ञानान्न तस्या जीवितं प्रियम्। तथोक्त्वा राक्षसीस्तास्तु राक्षसेन्द्रः प्रतापवान्॥ १७॥ निष्क्रम्यान्तःपुरात् तस्मात् किं कृत्यमिति चिन्तयन्। ददर्शाष्टौ महावीर्यान् राक्षसान् पिशिताशनान्॥ १८॥ स तान् दृष्ट्वा महावीर्यो वरदानेन मोहितः। उवाचैतानिदं वाक्यं प्रशस्य बलवीर्यतः॥ १९॥ नानाप्रहरणाः क्षिप्रमितो गच्छत सत्वराः। जनस्थानं हतस्थानं भूतपूर्वं खरालयम्॥ २०॥ तत्रोष्यतां जनस्थाने शून्ये निहतराक्षसे। पौरुषं बलमाश्रित्य त्रासमुत्सृज्य दूरतः॥ २१॥ बलं हि सुमहद्यन्मे जनस्थाने निवेशितम्। सदूषणखरं युद्धे हतं रामेण सायकैः॥ २२॥ तत्र क्रोधो ममामर्षाद्धैर्यस्योपरि वर्तते। वैरं च सुमहज्जातं रामं प्रति सुदारुणम्॥ २३॥ निर्यातयितुमिच्छामि तच्च वैरमहं रिपोः। न हि लप्स्याम्यहं निद्रामहत्वा संयुगे रिपुम्॥ २४॥ तं त्विदानीमहं हत्वा खरदूषणघातिनम्। रामं शर्मोपलप्स्यामि धनं लब्ध्वेव निर्धनः॥ २५॥ जनस्थाने वसद्भिस्तु भवद्भी राममाश्रिता। प्रवृत्तिरुपनेतव्या किं करोतीति तत्त्वतः॥ २६॥ अप्रमादाच्च गन्तव्यं सर्वैरपि निशाचरैः। कर्तव्यश्च सदा यत्नो राघवस्य वधं प्रति॥ २७॥ युष्माकं च बल ज्ञोऽहं बहुशो रणमूर्धनि। अतश्चास्मिञ्जनस्थाने मया यूयं नियोजिताः॥ २८॥ ततः प्रियं वाक्यमुपेत्य राक्षसा महार्थमष्टावभिवाद्य रावणम्। विहाय लङ्कां सहिताः प्रतस्थिरे यतो जनस्थानमलक्ष्यदर्शनाः॥ २९॥ ततस्तु सीतामुपलभ्य रावणः सुसम्प्रहृष्टः परिगृह्य मैथिलीम्। प्रसज्य रामेण च वैरमुत्तमं बभूव मोहान्मुदितः स रावणः॥ ३०॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् अरण्यकाण्डे लङ्काप्रापणं नाम चतुःपञ्चाशः सर्गः ॥३-५४॥