स तस्य मध्ये भवनस्य मारुतिर् लतागृहांश्चित्रगृहान्निशागृहान्। जगाम सीतां प्रति दर्शनोत्सुको न चैव तां पश्यति चारुदर्शनाम्॥ ०१॥ स चिन्तयामास ततो महाकपिः प्रियामपश्यन् रघुनन्दनस्य ताम्। ध्रुवं न सीता ध्रियते यथा न मे विचिन्वतो दर्शनमेति मैथिली॥ ०२॥ सा राक्षसानां प्रवरेण जानकी स्वशीलसंरक्षकतत्परा सती। अनेन नूनं प्रतिदुष्टकर्मणा हता भवेदार्यपथे वरे स्थिता॥ ०३॥ विरूपरूपा विकृता विवर्चसो महानना दीर्घविरूपदर्शनाः। समीक्ष्य सा राक्षसराजयोषितो भयाद्विनष्टा जनकेश्वरात्मजा॥ ०४॥ सीतामदृष्ट्वा ह्यनवाप्य पौरुषं विहृत्य कालं सह वानरैश्चिरम्। न मेऽस्ति सुग्रीवसमीपगा गतिः सुतीक्ष्णदण्डो बलवांश्च वानरः॥ ०५॥ दृष्टमन्तःपुरं सर्वं दृष्टा रावणयोषितः। न सीता दृश्यते साध्वी वृथा जातो मम श्रमः॥ ०६॥ किं नु मां वानराः सर्वे गतं वक्ष्यन्ति संगताः। गत्वा तत्र त्वया वीर किं कृतं तद्वदस्व नः॥ ०७॥ अदृष्ट्वा किं प्रवक्ष्यामि तामहं जनकात्मजाम्। ध्रुवं प्रायमुपैष्यन्ति कालस्य व्यतिवर्तने॥ ०८॥ किं वा वक्ष्यति वृद्धश्च जाम्बवानङ्गदश्च सः। गतं पारं समुद्रस्य वानराश्च समागताः॥ ०९॥ अनिर्वेदः श्रियो मूलमनिर्वेदः परं सुखम्। अनिर्वेदो हि सततं सर्वार्थेषु प्रवर्तकः॥ १०॥ करोति सफलं जन्तोः कर्म यत्तत् करोति सः। तस्मादनिर्वेदकरं यत्नं चेष्टेऽहमुत्तमम्॥ ११॥ भूयस्तावद्विचेष्यामि न यत्र विचयः कृतः। अदृष्टांश्च विचेष्यामि देशान् रावणपालितान्॥ १२॥ आपानशाला विचितास्तथा पुष्पगृहाणि च। चित्रशालाश्च विचिता भूयः क्रीडागृहाणि च॥ १३॥ निष्कुटान्तररथ्याश्च विमानानि च सर्वशः। इति संचिन्त्य भूयोऽपि विचेतुमुपचक्रमे॥ १४॥ भूमीगृहांस्चैत्यगृहान् गृहातिगृहकानपि। उत्पतन्निष्पतंस्चापि तिष्ठन् गच्छन् पुनः पुन्ः॥ १५॥ अपावृण्वंश्च द्वाराणि कपाटान्यवघाटयन्। प्रविशन्निष्पतंश्चापि प्रपतन्नुत्पतन्नपि॥ १६॥ सर्वमप्यवकाशं स विचचार महाकपिः। चतुरङ्गुलमात्रोऽपि नावकाशः स विद्यते॥ १७॥ रावणान्तःपुरे तस्मिन् यं कपिर्न जगाम सः। प्राकरान्तररथ्याश्च वेदिकाश्चैत्यसंश्रयाः॥ १८॥ दीर्घिका: पुष्करिण्यश्च सर्वं तेनावलोकितम्। राक्षस्यो विविधाकारा विरूपा विकृतास्तदा॥ १९॥ दृष्टा हनुमता तत्र न तु सा जनकात्मजा। रूपेणाप्रतिमा लोके वरा विद्याधरस्त्रियः॥ २०॥ दृष्टा हनूमता तत्र न तु राघवनन्दिनी। नागकन्या वरारोहाः पूर्णचन्द्रनिभाननाः॥ २१॥ दृष्टा हनुमता तत्र न तु सीता सुमध्यमा। प्रमथ्य राक्षसेन्द्रेण नागकन्या बलाद्धृताः॥ २२॥ दृष्टा हनुमता तत्र न सा जनकनन्दिनी। सोऽपश्यंस्तां महाबाहुः पश्यंश्चान्या वरस्त्रियः॥ २३॥ विषसाद महुर्धीमान् हनुमान् मारुतात्मजः। उद्योगं वानरेन्द्राणां प्लवनं सागरस्य च॥ २४॥ व्यर्थं वीक्ष्यानिलसुतशिचन्तां पुनरुपागमत्। अवतीर्य विमानाच्च हनुमान् मारुतात्मजः॥ २५॥ चिन्तामुपजगामाथ शोकोपहतचेतनः॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् सुन्दरकाण्डे हनूमद्विषादो नाम द्वादशः सर्गः ॥५-१२॥