तस्य तद्वचनं श्रुत्वा सीता रौद्रस्य रक्षसः। आर्ता दीनस्वरा दीनं प्रत्युवाच शनैर्वचः॥ ०१॥ दुःखार्ता रुदती सीता वेपमाना तपस्विनी। चिन्तयन्ती वरारोहा पतिमेव पतिव्रता॥ ०२॥ तृणमन्तरतः कृत्वा प्रत्युवाच शुचिस्मिता। निवर्तय मनो मत्तः स्वजने क्रियतां मनः॥ ०३॥ न मां प्रार्थयितुं युक्तं सुसिद्धिमिव पापकृत्। अकार्यं न मया कार्यमेकपत्न्या विगर्हितम्॥ ०४॥ कुलं संप्राप्तया पुण्यं कुले महति जातया। एवमुक्त्वा तु वैदेही रावणं तं यशस्विनी॥ ०५॥ राक्षसं पृष्ठतः कृत्वा भूयो वचनमब्रवीत्। नाहमौपयिकी भार्या परभार्या सती तव॥ ०६॥ साधु धर्ममवेक्षस्व साधु साधुव्रतं चर। यथा तव तथान्येषां दारा रक्ष्या निशाचर॥ ०७॥ आत्मानमुपमां कृत्वा स्वेषु दारेषु रम्यताम्। अतुष्टं स्वेषु दारेषु चपलं चलितेन्द्रियम्॥ ०८॥ नयन्ति निकृतिप्रज्ञं परदाराः पराभवम्। इह सन्तो न वा सन्ति सतो वा नानुवर्तसे॥ ०९॥ तथा हि विपरीता ते बुद्धिराचारवर्जिता। वचो मिथ्याप्रणीतात्मा पथ्यमुक्तं विचक्षणैः॥ १०॥ राक्षसानामभावाय त्वं वा न प्रतिपद्यसे। आकृतात्मानमासाद्य राजानमनये रतम्॥ ११॥ समृद्धानि विनश्यन्ति राष्ट्राणि नगराणि च। तथेयं त्वां समासाद्य लङ्का रत्नौघसंकुला॥ १२॥ अपराधात्तवैकस्य न चिराद्विनशिष्यति। स्वकृतैर्हन्यमानस्य रावणादीर्घदर्शिनः॥ १३॥ अभिनन्दन्ति भूतानि विनाशे पापकर्मणः। एवं त्वां पापकर्माणं वक्ष्यन्ति निकृता जनाः॥ १४॥ दिष्ट्यैतद्व्यसनं प्राप्तो रौद्र इत्येव हर्षिताः। शक्या लोभयितुं नाहमैश्वर्येण धनेन वा॥ १५॥ अनन्या राघवेणाहं भास्करेण प्रभा यथा। उपधाय भुजं तस्य लोकनाथस्य सत्कृतम्॥ १६॥ कथं नामोपधास्यामि भुजमन्यस्य कस्यचित्। अहमौपयीकी भार्या तस्यैव वसुधापतेः॥ १७॥ व्रतस्नातस्य विप्रस्य विद्येव विदितात्मनः। साधु रावण रामेण मां समानय दुःखिताम्॥ १८॥ वने वाशितया सार्धं करेण्वेव गजाधिपम्। मित्रमौपयिकं कर्तुं रामः स्थानं परीप्सता॥ १९॥ वधं चानिच्छता घोरं त्वयासौ पुरुषर्षभः। विदितः स हि धर्मज्ञः शरणागतवत्सलः॥ २०॥ तेन मैत्री भवतु ते यदि जीवितुमिच्छसि। प्रसादयस्व त्वं चैनं शरणागतवत्सलम्॥ २१॥ मां चास्मै प्रयतो भूत्वा निर्यातयितुमर्हसि। एवं हि ते भवेत् स्वस्ति संप्रदाय रघूत्तमे॥ २२॥ अन्यथा त्वं हि कुर्वणो वधं प्राप्स्यसि रावण। वर्जयेद्वज्रमुत्सृष्टं वर्जयेदन्तकश्चिरम्॥ २३॥ त्वद्विधं तु न संक्रुद्धो लोकनाथः स राघवः। रामस्य धनुषः शब्दं श्रोष्यसि त्वं महास्वनम्॥ २४॥ शतक्रतुविसृष्टस्य निर्घोषमशनेरिव। इह शीघ्रं सुपर्वाणो ज्वलितास्य इवोरगाः॥ २५॥ इषवो निपतिष्यन्ति रामलक्ष्मणलक्षणाः। रक्षांसि परिनिघ्नस्तः पुर्यामस्यां समन्ततः॥ २६॥ असंपातं करिष्यन्ति पतन्तः कङ्कवाससः। राक्षसेन्द्रमहासर्पान् स रामगरुडो महान्॥ २७॥ उद्धरिष्यति वेगेन वैनतेय इवोरगान्। अपनेष्यति मां भर्ता त्वत्तः शीघ्रमरिंदमः॥ २८॥ असुरेभ्यः श्रियं दीप्तां विष्णुस्त्रिभिरिव क्रमैः। जनस्थाने हतस्थाने निहते रक्षसां बले॥ २९॥ अशक्तेन त्वया रक्षः कृतमेतदसाधु वै। आश्रमं तु तयोः शून्यं प्रविश्य नरसिंहयोः॥ ३०॥ गोचरं गतयोर्भ्रात्रोरपनीता त्वयाधम। न हि गन्धमुपाघ्राय रामलक्ष्मणयोस्त्वया॥ ३१॥ शक्यं संदर्शने स्थातुं शुना शार्दूलयोरिव। तस्य ते विग्रहे ताभ्यां युगग्रहणमस्थिरम्॥ ३२॥ वृत्रस्येवेन्द्रबाहुभ्यां बाहोरेकस्य निग्रहः। क्षिप्रं तव स नाथो मे रामः सौमित्रिणा सह॥ ३३॥ तोयमल्पमिवादित्यः प्राणानादास्यते शरैः॥ गिरिं कुबेरस्य गतोऽथ वालयं सभां गतो वा वरुणस्य राज्ञः। असंशयं दाशरथेर्न मोक्ष्यसे महाद्रुमः कालहतोऽशनेरिव॥ ३४॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् सुन्दरकाण्डे रावणतृणीकरणं नाम एकविंशः सर्गः ॥५-२१॥