home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भागवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
सुन्दरकाण्डम्

एकोनचत्वारिंशः सर्गः॥५-३९॥

॥हनूमत्संदेशः॥

[ चूडामणिमादाय यान्तं हनुमन्तं प्रति सीतया श्रीरामप्रभृतीनुत्साहयितुमाग्रहकरणं समुद्रतरणे संशयानायाः सीताया हनुमता वानराणां पराक्रमं वर्णयित्वाऽऽश्वासनम् ]

मणिं दत्त्वा ततः सीता हनूमन्तमथाब्रवीत्। अभिज्ञानमभिज्ञातमेतद्रामस्य तत्त्वतः॥ ०१ मणिं तु दृष्ट्वा रामो वै त्रयाणां संस्मरिष्यति। वीरो जनन्या मम च राज्ञो दशरथस्य च॥ ०२॥ स भूयस्त्वं समुत्साह चोदितो हरिसत्तम। अस्मिन् कार्यसमारम्भे प्रचिन्तय यदुत्तरम्॥ ०३॥ त्वमस्मिन् कार्यनिर्योगे प्रमाणं हरिसत्तम। तस्य चिन्तय यो यत्‌नो दुःखक्षयकरो भवेत्॥ ०४॥ हनुमन् यत्‌नमास्थाय दुःखक्षयकरो भव। स तथेति प्रतिज्ञाय मारुतिर्भीमविक्रमः॥ ०५॥ शिरसा वन्द्य वैदेहीं गमनायोपचक्रमे। ज्ञात्वा संप्रस्थितं देवी वानरं मारुतात्मजम्॥ ०६॥ बाष्पगद्गदया वाचा मैथिली वाक्यमब्रवीत्। कुशलं हनुमन् ब्रूयाः सहितौ रामलक्ष्मणौ॥ ०७॥ सुग्रीवं च सहामात्यं वृद्धान् सर्वांश्च वानरान्। ब्रूयास्त्वं वानरश्रेष्ठ कुशलं धर्मसंहितम्॥ ०८॥ यथा स च महाबाहुर्मां तारयति राघवः। अस्माद् दुःखाम्बुसंरोधात्त्वं समाधातुमर्हसि॥ ०९॥ जीवन्तीं मां यथा रामः संभावयति कीर्तिमान्। तत्त्वथा हनुमन्वाच्यो वाचा धर्ममवाप्नुहि॥ १०॥ नित्यमुत्साहयुक्ताश्च वाचः श्रुत्वा त्वयेरिताः। वर्धिष्यते दाशरथेः पौरुषं मदवाप्तये॥ ११ मत्संदेशयुता वाचत्वत्तः श्रुत्वैव राघवः। पराक्रमे मतिं वीरो विधिवत्संविधास्यति॥ १२॥ सीताया वचनं श्रुत्वा हनुमान् मारुतात्मजः। शिरस्यञ्जलिमाधाय वाक्यमुत्तरमब्रवीत्॥ १३॥ क्क्षिप्रमेष्यति काकुत्स्थो हर्यृक्षप्रवरैर्वृतः। यस्ते युधि विजित्यारीञ्शोकं व्यपनयिष्यति॥ १४॥ न हि पश्यामि मर्त्येषु नामरेष्वसुरेषु वा। यस्तस्य क्षिपतो बाणान् स्थातुमुत्सहतेऽग्रतः॥ १५॥ अप्यर्कमपि पर्जन्यमपि वैवस्वतं यमम्। स हि सोढुं रणे शक्तस्तव हेतोर्विशेषतः॥ १६॥ स हि सागरपर्यन्तां महीं शासितुमर्हति। त्वन्निमित्तो हि रामस्य जयो जनकनन्दिनि॥ १७॥ तस्य तत् वचनम् श्रुत्वा सम्यक्सत्यं सुभाषितम्। जानकी बहु मेनेऽथ वचनं चेदमब्रवीत्॥ १८॥ ततस्तं प्रस्थितं सीता वीक्षमाणा पुनः पुनः। भर्तृस्नेहान्वितं वाक्यं सौहार्दादनुमानयत्॥ १९॥ यदि वा मन्यसे वीर वसैकाहमरिन्दम। कस्मिंश्चित्संवृते देशे विश्रान्तः श्वो गमिष्यसि॥ २०॥ मम चैवाल्पभाग्यायाः सांनिध्यात्तव वानर। अस्य शोकस्य महतो मुहूर्तं मोक्षणं भवेत्॥ २१ गते हि हरिशार्दूल पुनरागमनाय तु। प्राणानामपि संदेहो मम स्यान्नात्र संशयः॥ २२॥ तवादर्शनजः शोको भूयो मां परितापयेत्। दुःखाद् दुःखपरामृष्टां दीपयन्निव वानर॥ २३॥ अयं च वीर संदेहस्तिष्ठतीव ममाग्रतः। सुमहांस्त्वत्सहायेषु हर्यृक्षेषु हरीश्वर॥ २४॥ कथं नु खलु दुष्पारं तरिष्यन्ति महोदधिम्। तानि हर्यृक्षसैन्यानि तौ वा नरवरात्मजौ॥ २५॥ त्रयाणामेव भूतानां सागरस्यास्य लङ्घने। शक्तिः स्याद्वैनतेयस्य तव वा मारुतस्य वा॥ २६॥ तदस्मिन् कार्यनिर्योगे वीरैवं दुरतिक्रमे। किं पश्यसि समाधानं त्वं हि कार्यविदां वरः॥ २७॥ काममस्य त्वमेवैकः कार्यस्य परिसाधने। पर्याप्तः परवीरघ्न यशस्यस्ते बलोदयः॥ २८॥ बलैः समग्रैर्यदि मां रावणं जित्य संयुगे। विजयी स्वपुरीं यायात् तत्तु मे स्याद्यशस्करम्॥ २९॥ शरैस्तु संकुलां कृत्वा लङ्कां परबलार्दनः। मां नयेद्यदि काकुत्स्थस्तत्तस्य सदृशं भवेत्॥ ३०॥ तद्यथा तस्य विक्रान्तमनुरूपं महात्मनः। भवेदाहवशूरस्य तथा त्वमुपपादय॥ ३१ तदर्थोपहितं वाक्यं सहितं हेतुसंहितम्। निशम्य हनुमाञ्शेषं वाक्यमुत्तरमब्रवीत्॥ ३२॥ देवि हर्यृक्षसैन्यानामीश्वरः प्लवतां वरः। सुग्रीवः सत्त्वसंपन्नस्तवार्थे कृतनिश्चयः॥ ३३॥ स वानरसहस्राणां कोटीभिरभिसंवृतः। क्षिप्रमेष्यति वैदेहि राक्षसानां निबर्हणः॥ ३४॥ तस्य विक्रमसंपन्नाः सत्त्ववन्तो महाबलाः। मनःसंकल्पसंपाता निदेशे हरयः स्थिताः॥ ३५॥ येषां नोपरि नाधस्तान्न तिर्यक्सज्जते गतिः। न च कर्मसु सीदन्ति महत्स्वमिततेजसः॥ ३६॥ असकृत्तैर्महोत्सहैः ससागरधराधरा। प्रदक्षिणीकृता भूमिर्वायुमार्गानुसारिभिः॥ ३७॥ मद्विशिष्टाश्च तुल्याश्च सन्ति तत्र वनौकसः। मत्तः प्रत्यवरः कश्चिन्नास्ति सुग्रीवसंनिधौ॥ ३८॥ अहं तावदिह प्राप्तः किं पुनस्ते महाबलाः। न हि प्रकृष्टाः प्रेष्यन्ते प्रेष्यन्ते हीतरे जनाः॥ ३९॥ तदलं परितापेन देवि शोको व्यपैतु ते। एकोत्पातेन ते लङ्कामेष्यन्ति हरियूथपाः॥ ४०॥ मम पृष्ठगतौ तौ च चन्द्रसूर्याविवोदितौ। त्वत्सकाशं महासत्त्वौ नृसिंहावागमिष्यतः॥ ४१ तौ हि वीरौ नरवरौ सहितौ रामलक्ष्मणौ। आगम्य नगरीं लङ्कां सायकैर्विधमिष्यतः॥ ४२॥ सगणं रावणं हत्वा राघवो रघुनन्दनः। त्वामादाय वरारोहे स्वपुरं प्रतियास्यति॥ ४३॥ तदाश्वसिहि भद्रं ते भव त्वं कालकाङ्क्षिणी। न चिराद्द्रक्ष्यसे रामं प्रज्वलन्तमिवानलम्॥ ४४॥ निहते राक्षसेन्द्रेऽस्मिन् सपुत्रामात्यबान्धवे। त्वं समेष्यसि रामेण शशाङ्केनेव रोहिणी॥ ४५॥ क्षिप्रं त्वं देवि शोकस्य पारं यास्यसि मैथिलि। रावणं चैव रामेण निहतं द्रक्ष्यसेऽचिरात्॥ ४६॥ एवमाश्वस्य वैदेहीं हनूमान् मारुतात्मजः। गमनाय मतिं कृत्वा वैदेहीं पुनरब्रवीत्॥ ४७॥ तमरिघ्नं कृतात्मानं क्षिप्रं द्रक्ष्यसि राघवम्। लक्ष्मणं च धनुष्पाणिं लङ्काद्वारमुपस्थितम्॥ ४८॥ नखदंष्ट्रायुधान् वीरान् सिंहशार्दूलविक्रमान्। वानरान् वारणेन्द्राभान् क्षिप्रं द्रक्ष्यसि संगतान्॥ ४९॥ शैलाम्बुदनिकाशानां लङ्कामलयसानुषु। नर्दतां कपिमुख्यानामचिराच्छ्रोष्यसि स्वनम्॥ ५०॥ स तु मर्मणि घोरेण ताडितो मन्मथेषुणा। न शर्म लभते रामः सिंहार्दित इव द्विपः॥ ५१ मा रुदो देवि शोकेन मा भूत्ते मनसोऽप्रियम्। शचीव पत्या शक्रेण भर्त्रा नाथवती ह्यसि॥ ५२॥ रामाद्विशिष्टः कोऽन्योऽस्ति कश्चित्सौमित्रिणा समः। अग्निमारुतकल्पौ तौ भ्रातरौ तव संश्रयौ॥ ५३॥ नास्मिंश्चिरं वत्स्यसि देवि देशे रक्षो गणैरध्युषितोऽतिरौद्रे। न ते चिरादागमनं प्रियस्य क्षमस्व मत्सांगमकालमात्रम्॥ ५४॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् सुन्दरकाण्डे हनूमत्संदेशो नाम एकोनचत्वारिंशः सर्गः ॥५-३९॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध