तमुद्वीक्ष्य महाबाहुः पिङ्गाक्षं पुरतः स्थितम्। रोषेण महताविष्टो रावणो लोकरावणः॥ ०१॥ शङ्काहतात्मा दध्यौ स कपीन्द्रं तेजसावृतम्। किमेष भगवान्नन्दी भवेत् साक्षादिहागतः॥ ०२॥ येन शप्तोऽस्मि कैलासे मया संचालिते पुरा। सोऽयं वानरमूर्तिः स्यात् किंस्विद्बाणोऽपि वासुरः॥ ०३॥ स राजा रोषताम्राक्षः प्रहस्तं मन्त्रिसत्तमम्। कालयुक्तमुवाचेदं वचो विपुलमर्थवत्॥ ०४॥ दुरात्मा पृच्छ्यतामेष कुतः किं वास्य कारणम्। वनभङ्गे च कोऽस्यार्थो राक्षसीनां च तर्जने॥ ०५॥ मत्पुरीमप्रधृष्यां वागमने किं प्रयोजनम्। आयोधने वा किं कार्यं पृच्छ्यतामेष दुर्मतिः॥ ०६॥ रावणस्य वचः श्रुत्वा प्रहस्तो वाक्यमब्रवीत्। समाश्वसिहि भद्रं ते न भीः कार्या त्वया कपे॥ ०७॥ यदि तावत्त्वमिन्द्रेण प्रेषितो रावणालयम्। तत्त्वमाख्याहि मा भूत्ते भयं वानर मोक्ष्यसे॥ ०८॥ यदि वैश्रवणस्य त्वं यमस्य वरुणस्य वा। चारुरूपमिदं कृत्वा प्रविष्टो नः पुरीमिमाम्॥ ०९॥ विष्णुना प्रेषितो वापि दूतो विजयकाङ्क्षिणा। न हि ते वानरं तेजो रूपमात्रं तु वानरम्॥ १०॥ तत्त्वतः कथयस्वाद्य ततो वानर मोक्ष्यसे । अनृतं वदतश्चापि दुर्लभं तव जीवितम्॥ ११॥ अथवा यन्निमित्तं ते प्रवेशो रावणालये। एवमुक्तो हरिवरस्तदा रक्षोगणेश्वरम्॥ १२॥ अब्रवीन्नास्मि शक्रस्य यमस्य वरुणस्य वा। धनदेन न मे सख्यं विष्णुना नास्मि चोदितः॥ १३॥ जातिरेव मम त्वेषा वानरोऽहमिहागतः। दर्शने राक्षसेन्द्रस्य दुर्लभे तदिदं मया॥ १४॥ वनं राक्षसराजस्य दर्शनार्थे विनाशितम्। ततस्ते राक्षसाः प्राप्ता बलिनो युद्धकाङ्क्षिणः॥ १५॥ रक्षणार्थं तु देहस्य प्रतियुद्धा मया रणे। अस्त्रपाशैर्न शक्योऽहं बद्धुं देवासुरैरपि॥ १६॥ पितामहादेव वरो ममाप्येषोऽभ्युपागतः। राजानं द्रष्टुकामेन मयास्त्रमनुवर्तितम्॥ १७॥ विमुक्तो ह्यहमस्त्रेण राक्षसैस्त्वभिपीडितः। केनचिद्राजकार्येण संप्राप्तोऽस्मि तवान्तिकम्॥ १८॥ दूतोऽहमिति विज्ञेयो राघवस्यामितौजसः। श्रूयतां चापि वचनं मम पथ्यमिदं प्रभो॥ १९॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् सुन्दरकाण्डे प्रहस्तप्रक्ष्नो नाम पञ्चाशः सर्गः ॥५-५०॥