तस्य तद्वचनं श्रुत्वा वानरस्य महात्मनः । आज्ञापयत्तस्य वधं रावणः क्रोधमूर्छितः॥ ०१॥ वधे तस्य समाज्ञप्ते रावणेन दुरात्मना। निवेदितवतो दौत्यं नामुमेने विभीषणः॥ ०२॥ तं रक्षोऽधिपतिं क्रुद्धं तच्च कार्यमुपस्थितम्। विदित्वा चिन्तयामास कार्यं कार्यविधौ स्थितः॥ ०३॥ निश्चितार्थस्ततः साम्ना पूज्यं शत्रुजिदग्रजम्। उवाच हितमत्यर्थं वाक्यं वाक्यविशारदः॥ ०४॥ क्षमस्व रोषं त्यज राक्षसेन्द्र प्रसीद मद्वाक्यमिदं शृणुष्व। वधं न कुर्वन्ति परावरज्ञा दूतस्य सन्तो वसुधाधिपेन्द्राः॥ ०५॥ राजधर्मविरुद्धं च लोकवृत्तेश्च गर्हितम्। तव चासदृशं वीर कपेरस्य प्रमापणम्॥ ०६॥ धर्मज्ञश्च कृतज्ञश्च राजधर्मविशारदः। परावरज्ञो भूतानां त्वमेव परमार्थवित्॥ ०७॥ गृह्यन्ते यदि रोषेण त्वादृशोऽपि विपश्चितः। ततः शास्त्रविपश्चित्त्वं श्रम एव हि केवलम्॥ ०८॥ तस्मात् प्रसीद शत्रुघ्न राक्षसेन्द्र दुरासद । युक्तायुक्तं विनिश्चित्य दूते दण्डो विधीयताम्॥ ०९॥ विभीषणवचः श्रुत्वा रावणो राक्षसेश्वरः। रोषेण महताविष्टो वाक्यमुत्तरमब्रवीत्॥ १०॥ न पापानां वधे पापं विद्यते शत्रुसूदन। तस्मादेनं वधिष्यामि वानरं पापकारिणम्॥ ११॥ अधर्ममूलं बहुदोषयुक्त मनार्यजुष्टं वचनं निशम्य। उवाच वाक्यं परमार्थतत्त्वं विभीषणो बुद्धिमतां वरिष्ठः॥ १२॥ प्रसीद लङ्केश्वर राक्षसेन्द्र धर्मार्थयुक्तं वचनं शृणुष्व। दूतानवध्यान् समरेषु राजन् सर्वेषु सर्वत्र वदन्ति सन्तः॥ १३॥ असंशयं शत्रुरयं प्रवृद्धः कृतं ह्यनेनाप्रियमप्रमेयम्। न दूतवध्यां प्रवदन्ति सन्तो दूतस्य दृष्टा बहवो हि दण्डाः॥ १४॥ वैरूप्यमङ्गेषु कशाभिघातो मौण्ड्यं तथा लक्ष्मणसंनिपातः। एतान् हि दूते प्रवदन्ति दण्डान् वधस्तु दूतस्य न नः श्रुतोऽपि॥ १५॥ कथं च धर्मार्थ विनीतबुद्धिः परावरप्रत्ययनिश्चितार्थः। भवद्विधः कोपवशे हि तिष्ठेत् कोपं नियच्छन्ति हि सत्त्ववन्तः ॥ १६॥ न धर्मवादे न च लोकवृत्ते न शास्त्रबुद्धिग्रहणेषु चापि। विद्येत कश्चित्तव वीर तुल्यः त्वं ह्युत्तमः सर्वसुरासुराणाम्॥ १७॥ शूरेण वीरेण निशाचरेन्द्र सुरासुराणामपि दुर्जयेन। त्वया प्रगल्भाः सुरदैत्यसङ्घा जिताश्च युद्धेष्वसकृन्नरेन्द्राः॥ १८॥ इत्थंविधस्यामरदैत्यशत्रोः शूरस्य वीरस्य तवाजितस्य। कुर्वन्ति मूढा मनसो व्यलीकं प्राणैर्वियुक्ता ननु ये पुरा ते॥ १९॥ न चाप्यस्य कपेर्घाते कंचित् पश्याम्यहं गुणम्। तेष्वयं पात्यतां दण्डो यैरयं प्रेषितः कपिः॥ २०॥ साधुर्वा यदि वासाधुः परैरेष समर्पितः। ब्रुवन् परार्थं परवान्न दूतो वधमर्हति॥ २१॥ अपि चास्मिन् हते राजन्नान्यं पश्यामि खेचरम्। इह यः पुनरागच्छेत् परं पारं महोदधे:॥ २२॥ तस्मान्नास्य वधे यत्न कार्यः परपुरंजय। भवान् सेन्द्रेषु देवेषु यत्नमास्थातुमर्हति॥ २३॥ अस्मिन् विनष्टे न हि दूतमन्यं पश्यामि यस्तौ नरराजपुत्रौ। युद्धाय युद्धप्रिय दुर्विनीतौ उद्योजयेद्दीर्घपथावरुद्धौ॥ २४॥ पराक्रमोत्साहमनस्विनां च सुरासुराणामपि दुर्जयेन। त्वया मनोनन्दन नैर्ऋतानां युद्धायतिर्नाशयितुं न युक्ता॥ २५॥ हिताश्च शूराश्च समाहिताश्च कुलेषु जाताश्च महागुणेषु। मनस्विनः शस्त्रभृतां वरिष्ठाः कोट्यग्रतस्ते सुभृताश्च योधाः॥ २६॥ तदेकदेशेन बलस्य तावत् केचित्तवादेशकृतोऽभियान्तु। तौ राजपुत्रौ विनिगृह्य मूढौ परेषु ते भावयितुं प्रभावम्॥ २७॥ निशाचराणामधिपोऽनुजस्य विभीषणस्योत्तमवाक्यमिष्टम्। जग्राह बुद्ध्या सुरलोकशत्रु र्महाबलो राक्षसराजमुख्यः॥ २८॥ क्रोधं च जातं दृदये निरुध्य विभीषणोक्तं वचनं सुपूज्य। उवाच रक्षोऽधिपतिर्महात्मा विभीषणं शस्त्रभृतां वरिष्ठम्॥ २९॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् सुन्दरकाण्डे दूतवधनिवारणं नाम द्विपञ्चाशः सर्गः॥५-५२॥