अथाहमुत्तरं देव्या पुनरुक्तः ससम्भ्रमः। तव स्नेहान्नरव्याघ्र सौहार्दादनुमान्य वै ॥ ०१॥ एवं बहुविधं वाच्यो रामो दाशरथिस्त्वया। यथा मामाप्नुयाच्छिघ्रं हत्वा रावणमाहवे ॥ ०२॥ यदि वा मन्यसे वीर वसैकाहमरिन्दम। कस्मिंश्चित् संवृते देशे विश्रान्तः श्वो गमिष्यसि ॥ ०३॥ मम चाप्यल्पभाग्यायाः सांनिध्यात्तव वानर। अस्य शोकविपाकस्य मुहूर्तं स्याद्विमोक्षणम् ॥ ०४॥ गते हि त्वयि विक्रान्ते पुनरागमनाय वै। प्राणानामपि सन्देहो मम स्यान्नात्र संशयः ॥ ०५॥ तवादर्शनजः शोको भूयो मां परितापयेत्। दुःखाद् दुःखपराभूतां दुर्गतां दुःखभागिनीम् ॥ ०६॥ अयं तु वीर सन्देहस्तिष्ठतीव ममाग्रतः। सुमहांस्त्वत्सहायेषु हर्यृक्षेषु हरीश्वरः ॥ ०७॥ कथं नु खलु दुष्पारं तरिष्यन्ति महोदधिम्। तानि हर्यृक्षसैन्यानि तौ वा नरवरात्मजौ ॥ ०८॥ त्रयाणामेव भूतानां सागरस्यास्य लङ्घने। शक्तिः स्याद्वैनतेयस्य वायोर्वा तव वानघ ॥ ०९॥ तदस्मिन् कार्यनिर्योगे वीरैवं दुरतिक्रमे। किं पश्यसि समाधानं त्वं हि कार्यविदां वरः ॥ १०॥ काममस्य त्वमेवैकः कार्यस्य परिसाधने ॥ पर्याप्तः परवीरघ्न यशस्यस्ते बलोदयः ॥ ११॥ बलैः समग्रैर्यदि मां हत्वा रावणमाहवे। विजयी स्वां पुरीं रामो नयेत्तत् स्याद्यशस्करम् ॥ १२॥ यथाहं तस्य वीरस्य वनादुपधिना हृता। रक्षसा तद्भयादेव तथा नार्हति राघवः ॥ १३॥ बलैस्तु सङ्कुलां कृत्वा लङ्कां परबलार्दनः। मां नयेद्यदि काकुत्स्थस्तत्तस्य सदृशं भवेत् ॥ १४॥ तद्यथा तस्य विक्रान्तमनुरूपं महात्मनः। भवत्याहवशूरस्य तथा त्वमुपपादय ॥ १५॥ तदर्थोपहितं वाक्यं प्रश्रितं हेतुसंहितम्। निशम्याहं ततः शेषं वाक्यमुत्तरमब्रुवम् ॥ १६॥ देवि हर्यृक्षसैन्यानामिश्वरः प्लवतां वरः। सुग्रीवः सत्त्वसम्पन्नस्तवार्थे कृतनिश्चयः ॥ १७॥ तस्य विक्रमसम्पन्नाः सत्त्ववन्तो महाबलाः। मनःसङ्कल्पसम्पाता निदेशे हरयः स्थिताः ॥ १८॥ येषां नोपरि नाधस्तान्न तिर्यक् सज्जते गतिः। न च कर्मसु सीदन्ति महत्स्वमिततेजसः ॥ १९॥ असकृत्तैर्महाभागैर्वानरैर्बलदर्पितैः। प्रदक्षिणीकृता भूमिर्वायुमार्गानुसारिभिः ॥ २०॥ मद्विशिष्टाश्च तुल्याश्च सन्ति तत्र वनौकसः। मत्तः प्रत्यवरः कश्चिन्नास्ति सुग्रीवसंनिधौ ॥ २१॥ अहं तावदिह प्राप्तः किं पुनस्ते महाबलाः। न हि प्रकृष्टाः प्रेष्यन्ते प्रेष्यन्ते हीतरे जनाः ॥ २२॥ तदलं परितापेन देवि मन्युर्व्यपैतु ते। एकोत्पातेन ते लङ्गकामेष्यन्ति हरियूथपाः ॥ २३॥ मम पृष्ठगतौ तौ च चन्द्रसूर्याविवोदितौ। त्वत्सकाशं महाभागे नृसिंहावागमिष्यतः ॥ २४॥ अरिघ्नं सिंहसङ्काशं क्षिप्रं द्रक्ष्यसि राघवम्। लक्ष्मणं च धनुष्पाणिं लङ्काद्वारमुपस्थितम् ॥ २५॥ नखदंष्ट्रायुधान् वीरान् सिंहशार्दूलविक्रमान्। वानरान् वारणेन्द्राभान् क्षिप्रं द्रक्ष्यसि सङ्गतान् ॥ २६॥ शैलाम्बुदनिकाशानां लङ्कामलयसानुषु। नर्दतां कपिमुख्यानामचिराच्छ्रोष्यसि स्वनम् ॥ २७॥ निवृत्तवनवासं च त्वया सार्धमरिन्दमम्। अभिषिक्तमयोध्यायां क्षिप्रं द्रक्ष्यसि राघवम् ॥ २८॥ ततो मया वाग्भिरदीनभाषिणा शिवाभिरिष्टाभिरभिप्रसादिता। जगाम शान्तिं मम मैथिलात्मजा तवापि शोकेन तदाभिपीडिता ॥ २९॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् सुन्दरकाण्डे हनूमत्समाश्वासवचनानुवादो नाम अष्टषष्टितमः सर्गः॥५-६८॥