home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
युद्धकाण्डम्

द्व्युत्तरशततमः सर्गः ॥६-१०२॥

॥लक्ष्मनसंजीवनम्॥

[ श्रीरामस्य विलापो हनुमदाहृतयौषध्या सुषेण- प्रयुक्तया लक्ष्मणस्य संज्ञालाभ: ]

शक्त्या विनिहतं दृष्ट्वा रावणेन बलीयसा। लक्ष्मणं समरे शूरं रुधिरौघपरिप्लुतम्॥ १॥ स दत्त्वा तुमुलं युद्धं रावणस्य दुरात्मनः। विसृजन्नेव बाणौघान् सुषेणं वाक्यमब्रवीत्॥ २॥ एष रावणवीर्येण लक्ष्मणः पतितः क्षितौ। सर्पवच्चेष्टते वीरो मम शोकमुदीरयन्॥ ३॥ शोणितार्द्रमिमं वीरं प्राणैरिष्टतमं मम। पश्यतो मम का शक्तिर्योद‍्धुं पर्याकुलात्मनः॥ ४॥ अयं स समरश्लाघी भ्राता मे शुभलक्षणः। यदि पञ्चत्वमापन्नः प्राणैर्मे किं सुखेन च॥ ५॥ लज्जतीव हि मे वीर्यं भ्रश्यतीव कराद् धनुः। सायका व्यवसीदन्ति दृष्टिर्बाष्पवशं गता॥ ६॥ अवसीदन्ति गात्राणि स्वप्नयाने नृणामिव। चिन्ता मे वर्धते तीव्रा मुमूर्षा चोपजायते॥ ७॥ भ्रातरं निहतं दृष्ट्वा रावणेन दुरात्मना। विष्टनन्तं तु दुःखार्तं मर्मण्यभिहतं भृशम्॥ ८॥ राघवो भ्रातरं दृष्ट्वा प्रियं प्राणं बहिश्चरम्। दुःखेन महताविष्टो ध्यानशोकपरायणः॥ ९॥ परं विषादमापन्नो विललापाकुलेन्द्रियः। न हि युद्धेन मे कार्यं नैव प्राणैर्न सीतया॥ १०॥ भ्रातरं निहतं दृष्ट्वा लक्ष्मणं रणपांसुषु। किं मे राज्येन किं प्राणैर्युद्ध कार्यं न विद्यते॥ ११॥ यत्रायं निहतः शेते रणमूर्धनि लक्ष्मणः। देशे देशे कलत्राणि देशे देशे च बान्धवाः॥ १२॥ तं तु देशं न पश्यामि यत्र भ्राता सहोदरः। किन्नु राज्येन दुर्धर्षलक्ष्मणेन विना मम॥ १३॥ कथं वक्ष्याम्यहं त्वम्बां सुमित्रां पुत्रवत्सलाम्। उपालम्भं न शक्ष्यामि सोढुं दत्तं सुमित्रया॥ १४॥ किन्नु वक्ष्यामि कौसल्यां मातरं किन्नु कैकयीम्। भरतं किन्नु वक्ष्यामि शत्रुघ्नं च महाबलम्॥ १५॥ सह तेन वनं यातो विना तेनागतः कथम्। इहैव मरणं श्रेयो न तु बन्धुविगर्हणम्॥ १६॥ किं मया दुष्कृतं कर्म कृतमन्यत्र जन्मनि। येन मे धार्मिको भ्राता निहतश्चाग्रतो मम॥ १७॥ हा भ्रातर्मनुजश्रेष्ठ शूराणां प्रवर प्रभो। एकाकी किन्नु मां त्यक्त्वा परलोकाय गच्छसि॥ १८॥ विलपन्तं च मां भ्रातः किमर्थं नावभाषसे। उत्तिष्ठ ब्रूहि किं शेषे दीनं मां पश्य चक्षुषा॥ १९॥ शोकार्तस्य प्रमत्तस्य पर्वतेषु वनेषु च। विषण्णस्य महाबाहो समाश्वासयिता च कः॥ २०॥ इत्येवं विलपन्तं तं सोकविह्वलितेन्द्रियम्। विवेष्टमानं करुणमुच्छ्वसन्तं पुअः पुनः॥ २१॥ राममाश्वासयन् वीरः सुषेणो वाक्यमब्रवीत्। न मृतोऽयं महाबाहो लक्ष्मणो लक्ष्मिवर्धनः॥ २२॥ न चास्यविकृतं वक्त्रं नापि श्यावं न निष्प्रभम्। सुप्रभं च प्रसन्नं च मुखमस्याभिलक्ष्यते॥ २३॥ पद्मपत्रतलौ हस्तौ सुप्रसन्ने च लोचने। एवं न विद्यते रूपं गतासूनां विशांपते॥ २४॥ दीर्घायुषस्तु ये मर्त्यास्तेषां तु मुखमीद्य्शम्। नायं प्रेतत्वमापन्नो लक्ष्मणो लक्ष्मिवर्धनः॥ २५॥ मा विषादं कृथा वीर सप्राणोऽयमरिंदम। आख्यास्यते प्रसुप्तस्य स्रस्तगात्रस्य भूतले॥ २६॥ सोच्छ्वासं हृदयं वीर कम्पमानं मुहुर्मुहुः। एवमुक्त्वा तु वाक्यज्ञः सुषेणो राघवं वचः॥ २७॥ समीपस्थमुवाचेदं हनूमन्तमभित्वरन्। सौम्य शीघ्रमितो गत्वा शैलमोषधिपर्वतम्॥ २८॥ पूर्वं ते कथितो योऽसौ वीर जाम्बवता शुभः। दक्षिणे शिखरे तस्य जातामोशधिमानय॥ २९॥ विशल्यकरणीं नाम विशल्यकरणीं शुभास्। सवर्णकरणीं चापि तथा संजीवनीमपि॥ ३०॥ संधानकरणीं चापि गत्वा शीघ्रमिहानय। संजीवनार्थं वीरस्य लक्ष्मणस्य महात्मनः॥ ३१॥ इत्येवमुक्तो हनुमान् गत्वा चौषधिपर्वतम्। चिन्तामभ्यगमच्छ्रीमानजानंस्तां महौषधीः॥ ३२॥ तस्य बुद्धिः समुत्पन्ना मारुतेरमितौजसः। इदमेव गमिष्यामि गृहीत्वा शिखरं गिरेः॥ ३३॥ अस्मिन् हि शिखरे जातामोषधीं तां सुखावहाम्। प्रतर्केणावगच्छामि सुषेणोऽप्येवमब्रवीत्॥ ३४॥ अगृह्य यदि गच्छामि विशल्यकरणीमहम्। कालात्ययेन दोषः स्याद् वैक्लव्यं च महद्भवेत्॥ ३५॥ इति संचिन्त्य हनुमान् गत्वा क्षिप्रं महाबलः। आसाद्य पर्वतश्रेष्ठं त्रिः प्रकम्प्य गिरेः शिरः॥ ३६॥ फुल्लनानातरुगणं समुत्पाट्य महाबलः। गृहीत्वा हरिशार्दूलो हस्ताभ्यां समतोलयत्॥ ३७॥ स नीलमिव जीमूतं तोयपूर्णं नभःस्थलात्। उत्पपात गृहीत्वा तु हनूमान् शिखरं गिरेः॥ ३८॥ समागम्य महावेगः संन्यस्य शिखरं गिरेः। विश्रम्य किंञ्चिद्धनुमान् सुषेणमिदमब्रवीत्॥ ३९॥ औषधीं नावगच्छामि तामहं हरिपुङ्गव। तदिदं शिखरं कृत्स्नं गिरेस्तस्याहृतं मया॥ ४०॥ एवं कथयमानं तु प्रशस्य पवनात्मजम्। सुषेणो वानर श्रेष्ठो जग्राहोत्पाट्य चौषधीम्॥ ४१॥ विस्मितास्तु बभूवुस्ते रणे वानरराक्षसाः। दृष्ट्वा हनुमतः कर्म सुरैरपि सुदुष्करम्॥ ४२॥ ततः संक्षोदयित्वा तामोषधीं वानरोत्तमः। लक्ष्मणस्य ददौ नस्तः सुषेणः सुमहाद्युतेः॥ ४३॥ सशल्यस्तां समाघ्राय लक्ष्मणः परवीरहा। विशल्यो विरुजः शीघ्रमुदतिष्ठन्महीतलात्॥ ४४॥ तमुत्थितं ते हरयो भूतलात् प्रेक्ष्य लक्ष्मणम्। साधु साध्विति सुप्रीताः सुषेणं प्रत्यपूजयन्॥ ४५॥ एह्येहीत्यब्रवीद् रामो लक्ष्मणं परवीरहा। सस्वजे स्नेहगाढं च बाष्पपर्याकुलेक्षणः॥ ४६॥ अब्रवीच्च परिष्वज्य सौमित्रिं राघवस्तदा। दिष्ट्या त्वां वीर पश्यामि मरणात् पुनरागतम्॥ ४७॥ न हि मे जीवितेनार्थः सीतया चापि लक्ष्मण। को हि मे विजयेनार्थस्त्वयि पञ्चत्वमागते॥ ४८॥ इत्येवं वदतस्तस्य राघवस्य महात्मनः। खिन्नः शिथिलया वाचा लक्ष्मणो वाक्यमब्रवीत्॥ ४९॥ तां प्रतिज्ञां प्रतिज्ञाय पुरा सत्यपराक्रम। लघुः कश्चिदिवासत्त्वो नैवं त्वं वक्तुमिहार्हसि॥ ५०॥ न हि प्रतिज्ञां कुर्वन्ति वितथां साधवोऽनघ। लक्षणं हि महत्त्वस्य प्रतिज्ञापरिपालनम्॥ ५१॥ नैराश्यमुपगन्तुं ते तदलं मत्कृतेऽनघ। वधेन रावणस्याद्य प्रतिज्ञामनुपालय॥ ५२॥ न जीवन् यास्यते शत्रुस्तव बाणपथं गतः। नर्दतस्तीक्ष्णदंष्ट्रस्य सिंहस्येव महागजः॥ ५३॥ अहं तु वधमच्छामि शीघ्रमस्य दुरात्मनः। यावदस्तं न यात्येष कृतकर्मा दिवाकरः॥ ५४॥ यदि वधमिच्छसि रावणस्य संख्ये यदि च कृतां त्वमिहेच्छसि प्रतिज्ञाम्। यदि तव राजसुताभिलाषः कुरु च वचो मम शीघ्रमद्य वीर॥ ५५॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् युद्धकाण्डे लक्ष्मनसंजीवनमं नाम द्व्युत्तरशततमः सर्गः ॥६-१०२॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध