home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
युद्धकाण्डम्

पञ्चोत्तरशततमः सर्गः ॥६-१०५॥

॥ दशग्रीवविधूर्णनम्॥

[ श्रीरामकर्तृकं रावणस्य भर्त्सनं रामेणाहतस्य रावणस्य तदीयसारथिना रणाद् बहिरपनयनम् ]

स तेन तु तथा क्रोधात् काकुत्स्थेनार्दितो रणे। रावणः समरश्लाघी महाक्रोधमुपागमत्॥ १॥ स दीप्तनयनो रोषाच्चापमायम्य वीर्यवान्। अभ्यर्दयत् सुसंक्रुद्धो राघवं परमाहवे॥ २॥ बाणधारासहस्रैस्तैः स तोयद इवाम्बरात्। राघवं रावणो बाणैस्तटाकमिव पूरयन्॥ ३॥ पूरितः शरजालेन धनुर्मुक्तेन संयुगे। महागिरिरिवाकम्प्यः काकुत्स्थो न प्रकम्पते॥ ४॥ स शरैः शरजालानि वारयन् समरे स्थितः। गभस्तीनिव सूर्यस्य प्रतिजग्राह वीर्यवान्॥ ५॥ ततः शरसहस्राणि क्षिप्रहस्तो निशाचरः। निजघानोरसि क्रुद्धो राघवस्य महात्मनः॥ ६॥ स शोणितसमादिग्धः समरे लक्ष्मणाग्रजः। दृष्टः फुल्ल इवारण्ये सुमहान् किंशुकद्रुमः॥ ७॥ शराभिघातसंरब्धः सोऽपि जग्राह सायकान्। काकुत्स्थः सुमहातेजा युगान्तादित्यवर्चसः॥ ८॥ ततोऽन्योन्यं सुसंरब्धावुभौ तौ रामरावणौ। शरान्धकारे समरे नोपलक्षयतां तदा॥ ९॥ ततः क्रोधसमाविष्टो रामो दशरथात्मजः। उवाच रावणं वीरः प्रहस्य परुषं वचः॥ १०॥ मम भार्या जनस्थानादज्ञानाद् राक्षसाधम। हृता ते विवशा यस्मात् तस्मात् त्वं नासि वीर्यवान्॥ ११॥ मया विरहितां दीनां वर्तमानां महावने। वैदेहीं प्रसभं हृत्वा शूरोऽहमिति मन्यसे॥ १२॥ स्त्रीषु शूर विनाथासु परदाराभिमर्शक। कृत्वा कापुरुषं कर्म शूरोऽहमिति मन्यसे॥ १३॥ भिन्नमर्याद निर्लज्ज चारित्रेष्वनवस्थित। दर्पान्मृत्युमुपादाय शूरोऽहमिति मन्यसे॥ १४॥ शूरेण धनदभ्रात्रा बलैः समुदितेन च। श्लाघनीयं यशस्यं च कृतं कर्म महत्वया॥ १५॥ उत्सेकेनाभिपन्नस्य गर्हितस्याहितस्य च। कर्मणः प्राप्नुहीदानीं तस्याद्य सुमहत् फलम्॥ १६॥ शूरोऽहमिति चात्मानमवगच्छसि दुर्मते। नैव लज्जास्ति ते सीतां चौरवद् व्यपकर्षतः॥ १७॥ यदि मत्सन्निधौ सीता धर्षिता स्यात् त्वया बलात्। भ्रातरं तु खरं पश्येस्तदा मत्सायकैर्हतः॥ १८॥ दिष्ट्यासि मम दुष्टात्मंश्चक्षुर्विषयमागतः। अद्य त्वां सायकैस्तीक्ष्णैर्नयामि यमसादनम्॥ १९॥ अद्य ते मच्छरैश्छिन्नं शिरो ज्वलितकुण्डलम्। क्रव्यादा व्यपकर्षन्तु विकीर्णं रणपांसुषु॥ २०॥ निपत्योरसि गृध्रास्ते क्षितौ क्षिप्तस्य रावण। पिबन्तु रुधिरं तर्षाच्छरशल्यान्तरोत्थितम्॥ २१॥ अद्य मद‍्बाणभिन्नस्य गतासोः पतितस्य ते। कर्षन् त्वन्त्राणि पतगा गरुत्मन्त इवोरगान्॥ २२॥ इत्येवं संवदन् वीरो रामः शत्रुनिबर्हणः। राक्षसेन्द्रं समीपस्थं शरवर्षैरवाकिरत्॥ २३॥ बभूव द्विगुणं वीर्यं बलं हर्षश्च संयुगे। रामस्यास्त्रबलं चैव शत्रोर्निधनकाङ्क्षिणः॥ २४॥ प्रादुर्बभूवुरस्त्राणि सर्वाणि विदितात्मनः। प्रहर्षाच्च महातेजाः शीघ्रहस्ततरोऽभवत्॥ २५॥ शुभान्येतानि चिह्नानि विज्ञायात्मगतानि सः। भूय एवार्दयद् रामो रावणं राक्षसान्तकृत्॥ २६॥ हरीणां चाश्मनिकरैः शरवर्षैश्च राघवात्। हन्यमानो दशग्रीवो विघूर्णहृदयोऽभवत्॥ २७॥ यदा च शस्त्रं नारेभे न व्यकर्षच्छरासनम्। नास्य प्रत्यकरोद् वीर्यं विक्लवेनान्तरात्मना॥ २८॥ क्षिप्ताश्चापि शरास्तेन शस्त्राणि विविधानि च। न रणार्थाय वर्तन्ते मृत्युकालेऽभिवर्ततः॥ २९॥ सूतस्तु रथनेतास्य तदवस्थं समीक्ष्य तम्। शनैर्युद्धादसम्भ्रान्तो रथं तस्यापवाहयत्॥ ३०॥ रामबाणविभिन्नाङ्गो रावणे रक्षसेश्वरः। निरस्तविक्रमः संख्ये रणे श्रान्तः पपात सः॥ ३१॥ सूतस्तु व्यथितं बाणैः स्यन्दनस्थं निरीक्ष्य तम्। तस्माद्रणादपोवाह रावणं हतपौरुषम्॥ ३२॥ रथं च तस्याथ जवेन सारथि- र्निवार्य भीमं जलदस्वनं तदा। जगाम भीत्या समरान्महीपतिं निरस्तवीर्यं पतितं समीक्ष्य॥ ३३॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् युद्धकाण्डे दशग्रीवविधूर्णनं नाम पञ्चोत्तरशततमः सर्गः ॥६-१०५॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध