home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
युद्धकाण्डम्

अष्टोत्तरशततमः सर्गः ॥६-१०८॥

॥शुभाशुभनिमित्तदर्शनम्॥

[ रावणस्य रथं दृष्ट्वा श्रीरामेण मातलेः प्रबोधनं रावणपराजयस्य श्रीरामविजयस्य च सूचकानां शकुनानां वर्णनम् ]

स रथं सारथिर्हृष्टः परसैन्यप्रधर्षणम्। गन्धर्वनगराकारं समुच्छ्रितपताकिनम्॥ १॥ युक्तं परमसम्पन्नैवाजिभिर्हेममालिभिः। युद्धोपकरणैः पूर्णं पताकाध्वजमालिनम्॥ २॥ ग्रसन्तमिव चाकाशं नादयन्तं वसुंधराम्। प्रणाशं परसैन्यानां स्वसैन्यस्य प्रहर्षणम्॥ ३॥ रावणस्य रथं क्षिप्रं चोदयामास सारथिः। तमापतन्तं सहसा स्वनवन्तं महास्वनम्॥ ४॥ रथं राक्षसराजस्य नरराजो ददर्श ह। कृष्णवाजिसमायुक्तं युक्तं रौद्रेण वर्चसा॥ ५॥ तडित्पताकागहनं दर्शितेन्द्रायुधायुधम्। शरधारा विमुञ्चन्तं धारासारमिवाम्बुदम्॥ ६॥ तं दृष्ट्वा मेघसंकाशमापतन्तं रथं रिपोः। गिरेर्वज्राभिमृष्टस्य दीर्यतः सदृशस्वनम्॥ ७॥ विस्फारयन् वै वेगेन बालचन्द्रानतं धनुः। उवाच मातलिं रामः सहस्राक्षस्य सारथिम्॥ ८॥ मातले पश्य संरब्धमापतन्तं रथं रिपोः। यथापसव्यं पतता वेगेन महता पुनः॥ ९॥ समरे हन्तुमात्मानं तथा तेन कृता मतिः। तदप्रमादमातिष्ठन् प्रत्युद‍्गच्छ रथं रिपोः॥ १०॥ विध्वंसयितुमिच्छामि वायुर्मेघमिवोत्थितम्। अविक्लवमसम्भ्रान्तमव्यग्रहृदयेक्षणम्॥ ११॥ रश्मिसंचारनियतं प्रचोदय रथं द्रुतम्। कामं न त्वं समाधेयः पुरंदररथोचितः॥ १२॥ युयुत्सुरहमेकाग्रः स्मारये त्वां न शिक्षये। परितुष्टः स रामस्य तेन वाक्येन मातलिः॥ १३॥ प्रचोदयामास रथं सुरसारथिसत्तमः। अपसव्यं ततः कुर्वन् रावणस्य महारथम्॥ १४॥ चक्रोत्क्षिप्तेन रजसा रावणं व्यवधूनयत्। ततः क्रुद्धो दशग्रीवस्ताम्रविस्फारितेक्षणः॥ १५॥ रथप्रतिमुखं रामं सायकैरवधूनयत्। धर्षणामर्षितो रामो धैर्यं रोषेण लम्भयन्॥ १६॥ जग्राह सुमहावेगमैन्द्रं युधि शरासनम्। शरांश्च सुमहातेजाः सूर्यरश्मिसमप्रभान्॥ १७॥ तदुपोढं महद् युद्धमन्योन्यवधकाङ् क्षिणोः। परस्पराभिमुखयोर्दृप्तयोरिव सिंहयोः॥ १८॥ ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः। समेयुर्द्वैरथं द्रष्टुं रावणक्षयकाङ्क्षिणः॥ १९॥ समुत्पेतुरथोत्पाता दारुणा रोमहर्षणाः। रावणस्य विनाशाय राघवस्य जयाय च॥ २०॥ ववर्ष रुधिरं देवो रावणस्य रथोपरि। वाता मण्डलिनस्तीक्ष्णा ह्यपसव्यं प्रचक्रमुः॥ २१॥ महद‍्गृध्रकुलं चास्य भ्रममाणं नभःस्थले। येन येन रथो याति तेन तेन प्रधावति॥ २२॥ संध्यया चावृता लङ्का जपापुष्पनिकाशया। दृश्यते सम्प्रदीप्तेव दिवसेऽपि वसुंधरा॥ २३॥ सनिर्घाता महोल्काश्च सम्प्रचेरुर्महास्वनाः। विषादयंस्ते रक्षांसि रावणस्य तदाहिताः॥ २४॥ रावणश्च यतस्तत्र संचचाल वसुंधरा। रक्षसां च प्रहरतां गृहीता इव बाहवः॥ २५॥ ताम्राः पीताः सिताः श्वेताः पतिताः सूर्यरश्मयः। दृश्यन्ते रावणस्याङ्गे पर्वतस्येव धातवः॥ २६॥ गृध्रैरनुगताश्चास्य वमन्त्यो ज्वलनं मुखैः। प्रणेदुर्मुखमीक्षन्त्यः संरब्धमशिवं शिवाः॥ २७॥ प्रतिकूलं ववौ वायू रणे पांसून् समाकिरन्। तस्य राक्षसराजस्य कुर्वन् दृष्टिविलोपनम्॥ २८॥ निपेतुरिन्द्राशनयः सैन्ये चास्य समन्ततः। दुर्विषह्यस्वना घोरा विना जलधरस्वनम्॥ २९॥ दिशश्च प्रदिशः सर्वा बभूवुस्तिमिरावृताः। पांसुवर्षेण महता दुर्दर्शं च नभोऽभवत्॥ ३०॥ कुर्वन्त्यः कलहं घोरं सारिकास्तद्रथं प्रति। निपेतुः शतशस्तत्र दारुणं दारुणारुताः॥ ३१॥ जघनेभ्यः स्फुलिङ्गाश्च नेत्रेभ्योऽश्रूणि संततम्। मुमुचुस्तस्य तुरगास्तुल्यमग्निं च वारि च॥ ३२॥ एवंप्रकारा बहवः समुत्पाता भयावहाः। रावणस्य विनाशाय दारुणाः सम्प्रजज्ञिरे॥ ३३॥ रामस्यापि निमित्तानि सौम्यानि च शुभानि च। बभूवुर्जयशंसीनि प्रादुर्भूतानि सर्वशः॥ ३४॥ निमित्तानी च सौम्यानि राघवः स्वजयाय च। दृष्ट्वा परमसंहृष्टो हतं मेने च रावणम्॥ ३५॥ ततो निरीक्ष्यात्मगतानि राघवो रणे निमित्तानि निमित्तकोविदः। जगाम हर्षं च परां च निर्वृतिं चकार युद्धे ह्यधिकं च विक्रमम्॥ ३६॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् युद्धकाण्डे शुभाशुभनिमित्तदर्शनं नाम अष्टोत्तरशततमः सर्गः ॥६-१०८॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध