स बभूव कृशो राजा मैथिलीकाममोहितः। असन्मानाच्च सुहृदां पापः पापेन कर्मणा॥ १॥ अतीव कामसम्पन्नो वैदेहीमनुचिन्तयन्। अतीतसमये काले तस्मिन् वै युधि रावणः। अमात्यैश्च सुहृद्भिश्च प्राप्तकालममन्यत॥ २॥ स हेमजालविततं मणिविद्रुमभूषितम्। उपगम्य विनीताश्वमारुरोह महारथम्॥ ३॥ तमास्थाय रथश्रेष्ठं महामेघसमस्वनम्। प्रययौ रक्षसश्रेष्ठो दशग्रीवः सभां प्रति॥ ४॥ असिचर्मधरा योधाः सर्वायुधधरास्तथा। राक्षसा राक्षसेन्द्रस्य पुरस्तात् सम्प्रतस्थिरे॥ ५॥ नानाविकृतवेषाश्च नानाभूषणभूषिताः। पार्श्वतः पृष्ठतश्चैनं परिवार्य ययुस्तदा॥ ६॥ रथैश्चातिरथाः शीघ्रं मत्तैश्च वरवारणैः। अनूत्पेतुर्दशग्रीवमाक्रीडद्भिश्च वाजिभिः॥ ७॥ गदापरिघहस्ताश्च शक्तितोमरपाणयः। परश्वधधराश्चान्ये तथान्ये शूलपाणयः॥ ८॥ ततस्तूर्यसहस्राणं संजज्ञे निःस्वनो महान्। तुमुलः शङ्खशब्दश्च सभां गच्छति रावणे॥ ९॥ स नेमिघोषेण महान् सहसाभिविनादयन्। राजमार्गं श्रिया जुष्टं प्रतिपेदे महारथः॥ १०॥ विमलं चातपत्राणं प्रगृहीतमशोभत। पाण्डुरं राक्षसेन्द्रस्य पूर्णस्ताराधिपो यथा॥ ११॥ हेममञ्जरिगर्भे च शुद्धस्फटिकविग्रहे। चामरव्यजने चास्य रेजतुः सव्यदक्षिणे॥ १२॥ ते कृताञ्जलयः सर्वे रथस्थं पृथिवीस्थिताः। राक्षसा राक्षसश्रेष्ठं शिरोभिस्तं ववन्दिरे॥ १३॥ राक्षसैः स्तूयमानः सञ्जयाशीर्भिररिन्दमः। आससाद महातेजाः सभां सुविहितां शुभाम्॥ १४॥ सुवर्णरजतस्थूणां विशुद्धस्फटिकान्तराम्। विराजमानो वपुषा रुक्मपट्टोत्तरच्छदाम्॥ १५॥ तां पिशाचशतैः षड्भिरभिगुप्तां सदा शुभाम्। प्रविवेश महातेजाः सुकृतां विश्वकर्मणा॥ १६॥ तस्यां तु वैदूर्यमयं प्रियकाजिनसंवृतम्। महत्सोपाश्रयं भेजे रावणः परमासनम्॥ १७॥ ततः शशासेश्वरवद्दूतान्लघुपराक्रमान्। समानयत मे क्षिप्रमिहैतान् राक्षसानिति॥ १८॥ कृत्यमस्ति महज्जातं सामर्थ्यमिह नो महत्। राक्षसास्तद्वचः श्रुत्वा लङ्कायां परिचक्रमुः॥ १९॥ अनुगेहमवस्थाय विहारशयनेषु च। उद्यानेषु च रक्षांसि चोदयन्तो ह्यभीतवत्॥ २०॥ ते रथान् रुचिरानेके दृप्तानेके पृथग्घयान्। नागानन्येऽधिरुरुहुर्जग्मुश्चैके पदातयः॥ २१॥ सा पुरी परमाकीर्णा रथकुञ्जरवाजिभिः। सम्पतद्भिर्विरुरुचे गरुत्मद्भिरिवाम्बरम्॥ २२॥ ते वाहनान्यवस्थाय यानानि विविधानि च। सभां पद्भिः प्रविविशुः सिंहा गिरिगुहामिव॥ २३॥ राज्ञः पादौ गृहीत्वा तु राज्ञा ते प्रतिपूजिताः। पीठेष्वन्ये बृसीष्वन्ये भूमौ केचिदुपाविशन्॥ २४॥ ते समेत्य सभायां वै राक्षसा राजशासनात्। यथार्हमुपतस्थुस्ते रावणं राक्षसाधिपम्॥ २५॥ मन्त्रिणश्च यथा मुख्या निश्चितार्थेषु पण्डिताः। अमात्याश्च गुणोपेताः सर्वज्ञा बुद्धिदर्शनाः॥ २६॥ समेयुस्तत्र शतशः शूराश्च बहवस्तथा। सभायां हेमवर्णायां सर्वार्थस्य सुखाय वै॥ २७॥ रम्यायां राक्षसेन्द्रस्य समेयुस्तत्र सङघशः। राक्षसा राक्षसश्रेष्ठं परिवार्यापतस्थिरे॥ २८॥ ततो महात्मा विपुलं सुयुग्यं करार्हजाम्बूनदचित्रिताङ्गम्। रथं समास्थाय ययौ यशस्वी विभीषणः संसदमग्रजस्य॥ २९॥ स पूर्वजायावरजः शशंस नामाथ पश्चाच्चरणौ ववन्दे। शुकः प्रहस्तश्च तथैव तेभ्यो ददौ यथार्हं पृथगासनानि॥ ३०॥ सुवर्णनानामणिभूषणानां सुवाससां संसदि राक्षसानाम्। तेषां परार्ध्यागरुचन्दनानां स्रजश्च गन्धाः प्रववुः समन्तात्॥ ३१॥ न चुक्रुशुर्नानृतमाह कश्चित् सभासदो नैव जजल्पुरुच्चैः। संसिद्धार्थाः सर्व एवोग्रवीर्या भर्तुः सर्वे ददृशुश्चाननं ते॥ ३२॥ स रावणः शस्त्रभृतां मनस्विनां महाबलानां समितौ मनस्वी। तस्यां सभायां प्रभया चकाशे मध्ये वसूनामिव वज्रहस्तः॥ ३३॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् युद्धकाण्डे द्वितीयमन्त्राधिवेशो नाम एकादशः सर्गः ॥६-११॥