home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
युद्धकाण्डम्

दशोत्तशततमः सर्गः ॥६-११०॥

॥रावणैकशतशिरश्छेदनम्॥

[ राम रावणयोः मध्ये सप्तदिनानि रात्रौ च कोलाहलपूर्णं युद्धं भवति, उभयत्र शक्तिशालिनः बाणगदाः, मुसलानां च उपयुज्यते ]

तौ तदा युध्यमानौ तु समरे रामरावणौ। ददृशुः सर्वभूतानि विस्मितेनान्तरात्मना॥ १॥ अर्दयन्तौ तु समरे तयोस्तौ स्यन्दनोत्तमौ। परस्परमभिक्रुद्धौ परस्परमभिद्रुतौ॥ २॥ परस्परवधे युक्तौ घोररूपौ बभूवतुः। मण्डलानि च वीथीश्च गतप्रत्यागतानि च॥ ३॥ दर्शयन्तौ बहुविधां सूतसारथ्यजां गतिम्। अर्दयन् रावणं रामो राघवं चापि रावणः॥ ४॥ गतिवेगं समापन्नौ प्रवर्तननिवर्तने। क्षिपतोः शरजालानि तयोस्तौ स्यन्दनोत्तमौ॥ ५॥ चेरतुः संयुगमहीं सासारौ जलदौ यथा। दर्शयित्वा तथा तौ तु गतिं बहुविधां रणे॥ ६॥ परस्परस्याभिमुखौ पुनरेवावतस्थतुः। धुरं धुरेण रथयोर्वक्त्रं वक्त्रेण वाजिनाम्॥ ७॥ पताकाश्च पताकाभिः समेयुः स्थितयोस्तदा। रावणस्य ततो रामो धनुर्मुक्तैः शितैः शरैः॥ ८॥ चतुर्भिश्चतुरो दीप्तैर्हयान् प्रत्यपसर्पयत्। स क्रोधवशमापन्नो हयानामपसर्पणे॥ ९॥ मुमोच निशितान् बाणान् राघवाय निशाचरः। सोऽतिविद्धो बलवता दशग्रीवेण राघवः॥ १०॥ जगाम न विकारं च न चापि व्यथितोऽभवत्। चिक्षेप च पुनर्बाणान् वज्रपातसमस्वनान्॥ ११॥ सारथिं वज्रहस्तस्य समुद्दिश्य दशाचरः। मातलेस्तु महावेगाः शरीरे पतिताः शराः॥ १२॥ न सूक्ष्ममपि सम्मोहं व्यथां वा प्रददुर्युधि। तया धर्षणया क्रुद्धो मातलेर्न तथात्मनः॥ १३॥ चकार शरजालेन राघवो विमुखं रिपुम्। विंशतिं त्रिंशतिं षष्टिं शतशोऽथ सहस्रशः॥ १४॥ मुमोच राघवो वीरः सायकान् स्यन्दने रिपोः। रावणोऽपि ततः क्रुद्धो रथस्थो राक्षसेश्वरः॥ १५॥ गदामुसलवर्षेण रामं प्रत्यर्दयद् रणे। तत्प्रवृत्तं पुनर्युद्धं तुमुलं रोमहर्षणम्॥ १६॥ गदानां मुसलानां च परिघाणां च निःस्वनैः। शराणां पुङ्खवातैश्च क्षुभिताः सप्त सागराः॥ १७॥ क्षुब्धानां सागराणां च पातालतलवासिनः। व्यथिताः पन्नगाः सर्वे दानवाश्च सहस्रशः॥ १८॥ चकम्पे मेदिनी कृत्स्ना सशैलवनकानना। भास्करो निष्प्रभश्चासीन्न ववौ चापि मारुतः॥ १९॥ ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः। चिन्तामापेदिरे सर्वे सकिन्नरमहोरगाः॥ २०॥ स्वस्ति गोब्राह्मणेभ्योऽस्तु लोकास्तिष्ठन्तु शाश्वताः। जयतां राघवः संख्ये रावणं राक्षसेश्वरम्॥ २१॥ एवं जपन्तोऽपश्यंस्ते देवाः सर्षिगणास्तदा। रामरावणयोर्युद्धं सुघोरं रोमहर्षणम्॥ २२॥ गन्धर्वाप्सरसां सङ्घा दृष्ट्वा युद्धमनूपमम्। गगनं गगनाकारं सागरः सागरोपमः॥ २३॥ रामरावणयोर्युद्धं रामरावणयोरिव। एवं ब्रुवन्तो ददृशुस्तद् युद्धं रामरावणम्॥ २४॥ ततः क्रुद्धो महाबाहू रघूणां कीर्तिवर्धनः। संधाय धनुषा रामः क्षुरमाशीविषोपमम्॥ २५॥ रावणस्य शिरोऽच्छिन्दच्छ्रीमज्ज्वलितकुण्डलम्। तच्छिरः पतितं भूमौ दृष्टं लोकैस्त्रिभिस्तदा॥ २६॥ तस्यैव सदृशं चान्यद् रावणस्योत्थितं शिरः। तत्क्षिप्रं क्षिप्रहस्तेन रामेण क्षिप्रकारिणा॥ २७॥ द्वितीयं रावणशिरश्छिन्नं संयति सायकैः। छिन्नमात्रं तु तच्छीर्षं पुनरन्यत् स्म दृश्यते॥ २८॥ तदप्यशनिसंकाशैश्छिन्नं रामेण सायकैः। एवमेकशतं छिन्नं शिरसां तुल्यवर्चसाम्॥ २९॥ न चैव रावणस्यान्तो दृश्यते जीवितक्षये। ततः सर्वास्त्रविद् वीरः कौसल्यानन्दवर्धनः॥ ३०॥ मार्गणैर्बहुभिर्युक्तश्चिन्तयामास राघवः। मारीचो निहतो यैस्तु खरो यैस्तु सदूषणः॥ ३१॥ क्रौञ्चारण्ये विराधस्तु कबन्धो दण्डकावने। यैः साला गिरयो भग्ना वाली च क्षुभितोऽम्बुधिः॥ ३२॥ त इमे सायकाः सर्वे युद्धे प्रात्ययिका मम। किं नु तत् कारणं येन रावणे मन्दतेजसः॥ ३३॥ इति चिन्तापरश्चासीदप्रमत्तश्च संयुगे। ववर्ष शरवर्षाणि राघवो रावणोरसि॥ ३४॥ रावणोऽपि ततः क्रुद्धो रथस्थो राक्षसेश्वरः। गदामुसलवर्षेण रामं प्रत्यर्दयद् रणे॥ ३५॥ तत्प्रवृत्तं महद् युद्धं तुमुलं रोमहर्षणम्। अन्तरिक्षे च भूमौ च पुनश्च गिरिमूर्धनि॥ ३६॥ देवदानवयक्षाणां पिशाचोरगरक्षसाम्। पश्यतां तन्महद् युद्धं सर्वरात्रमवर्तत॥ ३७॥ नैव रात्रिं न दिवसं न मुहूर्तं न च क्षणम्। रामरावणयोर्युद्धं विराममुपगच्छति॥ ३८॥ दशरथसुतराक्षसेन्द्रयोर्जय- मनवेक्ष्य रणे स राघवस्य। सुरवररथसारथिर्महान् रणगत- मेनमुवाच वाक्यमाशु॥ ३९॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् युद्धकाण्डे रावणैकशतशिरश्छेदनं नाम दशोत्तशततमः सर्गः ॥६-११०॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध