home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
युद्धकाण्डम्

अष्टोदशोत्तरशततमः सर्गः ॥६-११८॥

॥सीताप्रत्यादेशाः॥

[ सीतायाश्चरित्रं संदिह्य तामनङ्गीकृत्य श्रीरामेण तां प्रत्यन्यत्र कुत्रापि गन्तुमादेशदानम् ]

तां तु पार्श्वेस्थितां प्रह्वां रामः सम्प्रेक्ष्य मैथिलीम्। हृदयान्तर्गतं भावं व्याहर्तुमुपचक्रमे॥ १॥ एषासि निर्जिता भद्रे शत्रुं जित्वा मया रणे। पौरुषाद् यदनुष्ठेयं तदेतदुपपादितम्॥ २॥ गतोऽस्म्यन्तममर्षस्य धर्षणा सम्प्रमार्जिता। अवमानश्च शत्रुश्च मया युगपदुद्धृतौ॥ ३॥ अद्य मे पौरुषं दृष्टमद्य मे सफलः श्रमः। अद्य तीर्णप्रतिज्ञत्वात् प्रभवामीह चात्मनः॥ ४॥ या त्वं विरहिता नीता चलचित्तेन रक्षसा। दैवसम्पादितो दोषो मानुषेण मया जितः॥ ५॥ सम्प्राप्तमवमानं यस्तेजसा न प्रमार्जति। कस्तस्य पुरुषार्थाऽस्ति पुरुषस्याल्पतेजसः॥ ६॥ लङ्घनं च समुद्रस्य लङ्कायाश्चावमर्दनम्। सफलं तस्य चच्छ्लाध्यं महत् कर्म हनूमतः॥ ७॥ युद्धे विक्रमतश्चैव हितं मन्त्रयतश्च मे। सुग्रीवस्य ससैन्यस्य सफलोऽद्य परिश्रमः॥ ८॥ निगुणं भ्रातरं त्यक्त्वा यो मां स्वयमुपस्थितः। विभीषणस्य भक्तस्यसफलोऽद्य परिश्रमः॥ ९॥ इत्येवं वदतस्तस्य सीता रामस्य तद् वचः। मृगीवोत्फुल्लनयना बभूवाश्रुपरिप्लुता॥ १०॥ पश्यतस्तां तु रामस्य भूयः क्रोधो व्यवर्धत। प्रभूताज्यावसिक्तस्य पावकस्येव दीप्यतः॥ ११॥ स बद्धवा भ्रुकुटीं वक्त्रे तिर्यक्प्रेक्षितलोचनः। अब्रवीत परुषं सीतां मध्ये वानररक्षसाम्॥ १२॥ यत् कर्तव्यं मनुष्येण धर्षणां प्रतिमार्जता। तत् कृतं सकलं सीते श्त्रुहस्तादमर्षणात्॥ १३॥ निर्जिता जीवलोकस्य तपसा भावितात्मना। अगस्त्येन दुराधर्षा मुनिना दक्षिणेव दिक्॥ १४॥ विदितश्चास्तु ते भद्रे योऽयं रणपरिश्रमः। स तीर्णः सुहृदां वीर्यान्न त्वदर्थं मया कृतः॥ १५॥ रक्षता तु मया वृत्तमपवादं च सर्वशः। प्रख्यातस्यात्मवंशस्य न्यङ्गं च परिमार्जता॥ १६॥ प्राप्तचारित्रसंदेहा मम प्रतिमुखे स्थिता। दीपो नेत्रातुरस्येव प्रतिकूलासि मे दृढम्॥ १७॥ तद्गच्छ ह्यभ्यनुज्ञाता यथेष्टं जनकात्मजे। एता दश दिशो भद्रे कार्यमस्ति न मे त्वया॥ १८॥ कः पुमान् हि कुले जातः स्त्रियं परगृहोषिताम्। तेजस्वी पुनरादद्यात् सुहृल्लेख्येन चेतसा॥ १९॥ रावणाङ्कपरिभ्रष्टां दृष्टां दुष्टेन चक्षुषा। कथं त्वां पुनरादद्यां कुलं व्यपदिशन् महत्॥ २०॥ तदर्थं निर्जिता मे त्वं यशः प्रत्याहृतं मया। नास्ति मे त्वय्यभिष्वङ्गो यथेष्टं गम्यतामितः॥ २१॥ इति प्रव्याहृतं भद्रे मयैतत् कृतबुद्धिना। लक्ष्मणे भरते वा त्वं कुरु बुद्धिं यथासुखम्॥ २२॥ सुग्रीवे वानरेन्द्रे वा राक्षसेन्द्रे विभीषणे। निवेशय मनः सीते यथा वा सुखमात्मना॥ २३॥ न हि त्वां रावणो दृष्ट्वा दिव्यरूपां मनोरमाम्। मर्षयेत चिरं सीते स्वगृहे परिवर्तिनीम्॥ २४॥ ततः प्रियार्हश्रवणा तदप्रियं प्रियादुपश्रुत्य चिरस्य मैथिली। मुमोच बाष्पं सुभृशं प्रवेपिता गजेन्द्रहस्ताभिहतेव सल्लकी॥ २५॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् युद्धकाण्डे सीताप्रत्यादेशो नाम अष्टोदशोत्तरशततमः सर्गः ॥६-११८॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध