home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
युद्धकाण्डम्

षोडशः सर्गः ॥६-१६॥

॥विभीषणाक्रोशः॥

[ रावणेन विभीषणस्य तिरस्करणं विभीषणेनापि रावणं निर्भत्र्त्स्य तत्स्थानान्निर्गमनम् ]

सुनिविष्टं हितं वाक्यमुक्तवन्तं विभीषणम्। अब्रवीत्परुषं वाक्यं रावणः कालचोदितः॥ १॥ वसेत्सह सपत्नेन क्रुद्धेनाशीविषेण वा। न तु मित्रप्रवादेन संवसेच्छत्रुसेविना॥ २॥ जानामि शीलं ज्ञातीनां सर्वलोकेषु राक्षस। हृष्यन्ति व्यसनेष्वेते ज्ञातीनां ज्ञातयः सदा॥ ३॥ प्रधानं साधकं वैद्यं धर्मशीलं च राक्षस। ज्ञातयो ह्यवमन्यन्ते शूरं परिभवन्ति च॥ ४॥ नित्यमन्योन्यसंहृष्टा व्यसनेष्वाततायिनः। प्रच्छन्नहृदया घोरा ज्ञातयस्तु भयावहाः॥ ५॥ श्रूयन्ते हस्तिभिर्गीताः श्लोकाः पद्मवने क्वचित्। पाशहस्तान्नरान् दृष्ट्वा शृणु तान् गदतो मम॥ ६॥ नाग्निर्नान्यानि शस्त्राणि न नः पाशा भयावहाः। घोराः स्वार्थप्रयुक्तास्तु ज्ञातयो नो भयावहाः॥ ७॥ उपायमेते वक्ष्यन्ति ग्रहणे नात्र संशयः। कृत्स्नाद्भयाज्ज्ञातिभयं कुकष्टं विहितं च नः॥ ८॥ विद्यते गोषु सम्पन्नं विद्यते ब्राह्म्णे दमः। विद्यते स्त्रीषु चापल्यं विद्यते ज्ञातितो भयम्॥ ९॥ ततो नेष्टमिदं सौम्य यदहं लोकसत्कृतः। ऐश्वर्यणाभिजातश्च रिपूणां मूर्ध्न्यवस्थितः॥ १०॥ यथा पुष्करपत्रेषु पतितास्तोयबिन्दवः। न श्लेषमुपगच्छन्ति तथानार्येषु सौहृदम्॥ ११॥ यथा मधुकरस्तर्षाद्रसं विन्दन्न विद्यते। तथा त्वमपि तत्रैव तथानार्येषु सौहृदम्॥ १२॥ यथा पूर्वं गजः स्नात्वा गृह्य हस्तेन वै रजः। दूषयत्यात्मनो देहं तथानार्येषु सौहृदम्॥ १३॥ यथा शरदि मेघानां सिञ्चतामपि गर्जताम्। न भवत्यम्बुसंक्लेदस्तथानार्येषु सौहृदम्॥ १४॥ अन्यस्त्वेवंविधं ब्रूयाद्वाक्यमेतन्निशाचर। अस्मिन् मुहूर्ते न भवेत्त्वां तु धिक्कुलपांसन॥ १५॥ इत्युक्तः परुषं वाक्यं न्यायवादी विभीषणः। उत्पपात गदापाणिश्चतुर्भिः सह राक्षसैः॥ १६॥ अब्रवीच्च तदा वाक्यं जातक्रोधो विभीषणः। अन्तरिक्षगतः श्रीमान् भ्रातरं राक्षसाधिपम्॥ १७॥ स त्वं भ्रान्तासि मे राजन् ब्रूहि मां यद्यदिच्छसि। ज्येष्ठो मान्यः पितृसमो न च धर्मपथे स्थितः॥ १८॥ इदं तु परुषं वाक्यं न क्षमाम्यनृतं तव। सुनीतं हितकामेन वाक्यमुक्तं दशानन॥ १९॥ न गृह्णन्त्यकृतात्मानः कालस्य वशमागताः। सुलभाः पुरुषा राजन् सततं प्रियवादिनः॥ २०॥ अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः। बद्धं कालस्य पाशेन सर्वभूतापहारिणा॥ २१॥ न नश्यन्तमुपेक्षेयं प्रदीप्तं शरणं यथा। दीप्तपावकसंकाशैः शितैः काञ्चनभूषणैः॥ २२॥ न त्वामिच्छाम्यहं द्रष्टुं रामेण निहतं शरैः। शूराश्च बलवन्तश्च कृतास्त्राश्च रणाजिरे॥ २३॥ कालाभिपन्नाः सीदन्ति यथा वालुकसेतवः। तन्मर्षयतु यच्चोक्तं गुरुत्वाद्धितमिच्छता॥ २४॥ आत्मानं सर्वथा रक्ष पुरीं चेमां सराक्षसाम्। स्वस्ति तेऽस्तु गमिष्यामि सुखी भव मया विना॥ २५॥ निवार्यमाणस्य मया हितैषिणा न रोचते ते वचनं निशाचर। परान्तकाला हि गतायुषो नरा हितं न गृह्णन्ति सुहृद्भिरीरितम्॥ २६॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् युद्धकाण्डे विभीषणाक्रोशो नाम षोडशः सर्गः ॥६-१६॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध