तं तु शोकपरिद्यूनं रामं दशरथात्मजम्। उवाच वचनं श्रीमान् सुग्रीवः शोकनाशनम्॥ १॥ किं त्वं संतप्यसे वीर यथान्यः प्राकृतस्तथा। मैवं भूस्त्यज संतापं कृतघ्न इव सौहृदम्॥ २॥ संतापस्य च ते स्थानं न हि पश्यामि राघव। प्रवृत्तावुपलब्धायां ज्ञाते च निलये रिपोः॥ ३॥ मतिमाञ्शास्त्रवित् प्राज्ञः पण्डितश्चासि राघव। त्यजेमां प्राकृतां बुद्धिं कृतात्मेवात्मदूषणीम्॥ ४॥ समुद्रं लङ्घयित्वा तु महानक्रसमाकुलम्। लङ्कामारोहयिष्यामो हनिष्यामश्च रावणम्॥ ५॥ निरुत्साहस्य दीनस्य शोकपर्याकुलात्मनः। सर्वार्था व्यवसीदन्ति व्यसनं चाधिगच्छति॥ ६॥ इमे शूराः समर्थाश्च सर्वे नो हरियूथपाः। त्वत्प्रियार्थं कृतोत्साहाः प्रवेष्टुमपि पावकम्॥ ७॥ एषां हर्षेण जानामि तर्कश्चास्ति दृढो मम। विक्रमेण समानेष्ये सीतां हत्वा यथा रिपुम्॥ ८॥ रावणं पापकर्माणं तथा त्वं कर्तुमर्हसि। सेतुमत्र यथा बद्धां यथा पश्येम तां पुरीम्॥ ९॥ तस्य राक्षसराजस्य तथा त्वं कुरु राघव। तां दृष्ट्वा तु पुरीं लङ्कां त्रिकूटशिखरे स्थिताम्॥ १०॥ हतं च रावणं युद्धे दर्शनादुपधारय। अबध्वा सागरे सेतुं घोरे च वरुणालये॥ ११॥ लङ्का नो मर्दितुं शक्या सेन्द्रैरपि सुरासुरैः। सेतुर्बद्धः समुद्रे च यावल्लङ्कासमीपतः॥ १२॥ सर्व तीर्णं च मे सैन्यं जितमित्युपधारय। इमे हि समरे शूराः हरयः कामरूपिणः॥ १३॥ तदलं विक्लवा बुद्धी राजन् सर्वार्थनाशिनी। पुरुषस्य हि लोकेऽस्मिन् शोकः शौर्यापकर्षणः॥ १४॥ तन्न कार्यं मनुष्येण शौण्डीर्यमवलम्बता। तदलंकरणायैव कर्तुर्भवति सत्वरम्॥ १५॥ अस्मिन् काले महाप्राज्ञ सत्त्वमातिष्ठ तेजसा। शूराणां हि मनुष्येण त्वद्विधानां महात्मनाम्॥ १६॥ विनष्टे वा प्रनष्टे वा क्षमं न ह्यनुशोचितुम्। त्वां तु बुद्धिमतां श्रेष्ठः सर्वशास्त्रार्थकोविदः॥ १७॥ मद्विधैः सचिवैः सार्धमरिं जेतुमिहार्हसि। न हि पश्याम्यहं कंचित् त्रिषु लोकेषु राघव॥ १८॥ गृहीतधनुषो यस्ते तिष्ठेदभिमुखो रणे। वानरेषु समासक्तं न ते कार्यं विपत्स्यते॥ १९॥ अचिराद् द्रक्ष्यसे सीतां तीर्त्वा सागरमक्षयम्। तदलं शोकमालम्ब्य क्रोधमालम्ब भूपते॥ २०॥ निश्चेष्टाः क्षत्रिया मन्दाः सर्वे चण्डस्य बिभ्यति। लङ्घनार्थं च घोरस्य समुद्रस्य नदीपतेः॥ २१॥ सहास्माभिरिहोपेतः सूक्ष्मबुद्धिर्विचारय। सर्वं तीर्णं च मे सैन्यं जितमित्युपधारय॥ २२॥ इमे हि हरयः शूराः हरयः कामरूपिणः। तानरीन् विधमिष्यन्ति शिलापादपवृष्टिभिः॥ २३॥ कथंचित् परिपश्यामि लङ्घितं वरुणालयम्। हतमित्येव तं मन्ये युद्धे समितिनन्दन॥ २४॥ किमुक्त्वा बहुधा चापि सर्वथा विजयी भवान्। निमित्तानि च पश्यामि मनो मे सम्प्रहृष्यति॥ २५॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् युद्धकाण्डे रामप्रोत्साहनं नाम द्वितीयः सर्गः ॥६-२॥