सबले सागरं तीर्णे रामे दशरथात्मजे। अमात्यौ रावणः श्रीमानब्रवीच्छुकसारणौ॥ १॥ समग्रं सागरं तीर्णं दुस्तरं वानरं बलम्। अभूतपूर्वं रामेण सागरे सेतुबन्धनम्॥ २॥ सागरे सेतुबन्धं तु न श्रद्दध्यां कथंचन। अवश्यं चापि संख्येयं तन्मया वानरं बलम्॥ ३॥ भवन्तौ वानरं सैन्यं प्रविश्यानुपलक्षितौ। परिमाणं च वीर्यं च ये च मुख्याः प्लवङ्गमाः॥ ४॥ मन्त्रिणो ये च रामस्य सुग्रीवस्य च सम्मताः। ये पूर्वमभिवर्तन्ते ये च शूराः प्लवङ्गमाः॥ ५॥ स च सेतुर्यथा बद्धः सागरे सलिलाशये। निवेशं च यथा तेषां वानराणां महात्मनाम्॥ ६॥ रामस्य व्यवसायं च वीर्यं प्रहरणानि च। लक्ष्मणस्य च वीरस्य तत्त्वतो ज्ञातुमर्हथः॥ ७॥ कश्च सेनापतिस्तेषां वानराणां महौजसाम्। एतज्ज्ञात्वा यथातत्त्वं शीघ्रमागन्तुमर्हथः॥ ८॥ इति प्रतिसमादिष्टौ राक्षसौ शुकसारणौ। हरिरूपधरौ वीरौ प्रविष्टौ वानरं बलम्॥ ९॥ ततस्तद् वानरं सैन्यमचिन्त्यं रोमहर्षणम्। संख्यातुं नाध्यगच्छेतां तदा तौ शुकसारणौ॥ १०॥ संस्थितं पर्वताग्रेषु निर्झरेषु गुहासु च। समुद्रस्य च तीरेषु वनेषूपवनेषु च। तरमाणं च तीर्णं च तर्तुकामं च सर्वशः॥ ११॥ निविष्टं निविशच्चैव भीमनादं महाबलम्। तद्बलार्णवमक्षोभ्यं ददृशाते निशाचरौ॥ १२॥ तौ ददर्श महातेजाः प्रतिच्छन्नौ विभीषणः। आचचक्षेऽथ रामाय गृहीत्वा शुकसारणौ॥ १३॥ तस्ययेमौ राक्षसेन्द्रस्य मन्त्रिणौ शुकसारणौ। लङ्कायाः समनुप्राप्तौ चारौ परपुरंजय॥ १४॥ तौ दृष्ट्वा व्यथितौ रामं निराशौ जीविते तदा। कृताञ्जलिपुटौ भीतौ वचनं चेदमूचतुः॥ १५॥ आवामिहागतौ सौम्य रावणप्रहितावुभौ। परिज्ञातुं बलं कृत्स्नं तवेदं रघुनन्दन॥ १६॥ तयोस्तद् वचनं श्रुत्वा रामो दशरथात्मजः। अब्रवीत् प्रहसन् वाक्यं सर्वभूतहिते रतः॥ १७॥ यदि दृष्टं बलं कृत्स्नं वयं वा सुपरीक्षिताः। यथोक्तं वा कृतं कार्यं छन्दतः प्रतिगम्यताम्॥ १८॥ अथ किञ्चिददृष्टं वा भूयस्तद् द्रष्टुमर्हथः। विभीषणो वा कात्स्र्न्येन भूयः संदर्शयिष्यति॥ १९॥ न चेदं ग्रहणं प्राप्य भेतव्यं जीवितं प्रति। न्यस्तशस्त्रौ गृहीतौ वा न दूतौ वधमर्हथः॥ २०॥ प्रच्छन्नौ च विमुञ्चेतौ चारौ रात्रिंचरावुभौ। शत्रुपक्षस्य सततं विभीषण विकर्षिणौ॥ २१॥ प्रविश्य नगरीं लङ्कां भवद्भ्यां धनदानुजः। वक्तव्यो रक्षसां राजा यथोक्तं वचनं मम॥ २२॥ यद् बलं च समाश्रित्य सीतां मे हृतवानसि। तद्दर्शय यथाकामं ससैन्यः सहबान्धवः॥ २३॥ श्वः काल्ये नगरीं लङ्कां सप्राकारां सतोरणाम्। रक्षसां च बलं पश्य शरैर्विध्वंसितं मया॥ २४॥ क्रोधं भीममहं मोक्ष्ये ससैन्ये त्वयि रावण। श्वः काल्ये वज्रवान् वज्रं दानवेष्विव वासवः॥ २५॥ इति प्रतिसमादिष्टौ राक्षसौ शुकसारणौ। जयेति प्रतिनन्द्यैनं राघवं धर्मवत्सलम्॥ २६॥ आगम्य नगरीं लङ्कामब्रूतां राक्षसाधिपम्। विभीषणगृहीतौ तु वधार्हौ राक्षसेश्वर॥ २७॥ दृष्ट्वा धर्मात्मना मुक्तौ रामेणामिततेजसा। एकस्थानगता यत्र चत्वारः पुरुषर्षभाः॥ २८॥ लोकपालोपमाः शूराः कृतास्त्रा दृढविक्रमाः। रामो दाशरथिः श्रीमाल्ँलक्ष्मणश्च विभीषणः॥ २९॥ सुग्रीवश्च महातेजा महेन्द्रसमविक्रमः। एते शक्ताः पुरीं लङ्कां सप्राकारां सतोरणाम्॥ ३०॥ उत्पाट्य संक्रामयितुं सर्वे तिष्ठन्तु वानराः। यादृशं तस्य रामस्य रूपं प्रहरणानि च॥ ३१॥ वधिष्यति पुरीं लङ्कामेकस्तिष्ठन्तु ते त्रयः। रामलक्ष्मणगुप्ता सा सुग्रीवेण च वाहिनी। बभूव दुर्धर्षतरा सेन्द्रैरपि सुरासुरैः॥ ३२॥ व्यक्तः सेतुस्तथा बद्धो दशयोजनविस्तृतः। शतयोजनमायामस्तीर्णा सेना च सागरम्॥ निविष्टो दक्षिणे तीरे रामः स च नदीपतेः। तीर्णस्य तरमाणस्य बलस्यान्तो न विद्यते॥ प्रहृष्टरूपा ध्वजिनी वनौकसां महात्मनां सम्प्रति योद्धुमिच्छताम्। अलं विरोधेन शमो विधीयतां प्रदीयतां दाशरथाय मैथिली॥ ३३॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् युद्धकाण्डे शुकसारणप्रेषणं नाम पञ्चविंशः सर्गः ॥६-२५॥