home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
युद्धकाण्डम्

द्वात्रिंशः सर्गः ॥६-३२॥

॥सीताविलापः॥

[ श्रीरामनिधनं मत्वा सीताया विलापः रावणेन सभां गत्वा मन्त्रिभिः सह युद्धविषये मन्त्रणम् ]

सा सीता तच्छिरो दृष्ट्वा तच्च कार्मुकमुत्तमम्। सुग्रीवप्रतिसंसर्गमाख्यातं च हनूमता॥ १॥ नयने मुखवर्णं च भर्तुस्तत्सदृशं मुखम्। केशान् केशान्तदेशं च तं च चूडामणिं शुभम्॥ २॥ एतैः सर्वैरभिज्ञानैरभिज्ञाय सुदुःखिता। विजगर्हेऽत्र कैकेयीं क्रोशन्ती कुररी यथा॥ ३॥ सकामा भव कैकेयि हतोऽयं कुलनन्दनः। कुलमुत्सादितं सर्वं त्वया कलहशीलया॥ ४॥ आर्येण किं नु कैकेय्याः कृतं रामेण विप्रियम्। यद्गृहाच्चीरवसनं दत्त्वा प्रव्राजितो वनम्॥ ५॥ एवमुक्त्वा तु वैदेही वेपमाना तपस्विनी। जगाम जगतीं बाला छिन्ना तु कदली यथा॥ ६॥ सा मुहूर्तात्समाश्वस्य परिलभ्य च चेतनाम्। तच्छिरः समुपाघ्राय विललापायतेक्षणा॥ ७॥ हा हतास्मि महाबाहो वीरव्रतमनुव्रत। इमां ते पश्चिमावस्थां गतास्मि विधवा कृता॥ ८॥ प्रथमं मरणं नार्या भर्तुर्वैगुण्यमुच्यते। सुवृत्त साधुवृत्तायाः संवृत्तस्त्वं ममाग्रतः॥ ९॥ दुःखाद् दुःखं प्रपन्नाया मग्नायाः शोकसागरे। यो हि मामुद्यतस्त्रातुं सोऽपि त्वं विनिपातितः॥ १०॥ सा श्वश्रूर्मम कौसल्या त्वया पुत्रेण राघव। वत्सेनेव यथा धेनुर्विवत्सा वत्सला कृता॥ ११॥ आदिष्टं दीर्घमायुस्ते दैवज्ञैरपि राघव। अनृतं वचनं तेषामल्पायुरसि राघव॥ १२॥ अथवा नश्यति प्रज्ञा प्राज्ञस्यापि सतस्तव। पचत्येनं तथा कालो भूतानां प्रभवो ह्ययम्॥ १३॥ अदृष्टं मृत्युमापन्नः कस्मात्त्वं नयशास्त्रवित्। व्यसनानामुपायज्ञः कुशलो ह्यसि वर्जने॥ १४॥ तथा त्वं सम्परिष्वज्य रौद्रयातिनृशंसया। कालरात्र्या ममाच्छिद्य हृतः कमललोचन॥ १५॥ उपशेषे महाबाहो मां विहाय तपस्विनीम्। प्रियामिव समाश्लिंष्य पृथिवीं पुरुषर्षभ॥ १६॥ अर्चितं सततं यत्नाद्गन्धमाल्यैर्मया तव। इदं ते मत्प्रियं वीर धनुः काञ्चनभूषितम्॥ १७॥ पित्रा दशरथेन त्वं श्वशुरेण ममानघ। सर्वैश्च पितृभिः सार्धं नूनं स्वर्गे समागतः॥ १८॥ दिवि नक्षत्रभूतस्त्वं महत्कर्मकृतं प्रियम्। पुण्यं राजर्षिवंशं त्वमात्मनः समुपेक्षसे॥ १९॥ किं मां न प्रेक्षसे राजन् किं मां न प्रतिभाषसे। बालां बाल्येन सम्प्राप्तां भार्यां मां सहचारिणीम्॥ २०॥ संश्रुतं गृह्णता पाणिं चरिष्यामीति यत्त्वया। स्मर तन्मम काकुत्स्थ नय मामपि दुःखिताम्॥ २१॥ कस्मान्मामपहाय त्वं गतो गतिमतां वर। अस्माल्लोकादमुं लोकं त्यक्त्वा मामपि दुःखिताम्॥ २२॥ कल्याणैरुचिरं यत्तत्परिष्वक्तं मयैव तु। क्रव्यादैस्तच्छरीरं ते नूनं विपरिकृष्यते॥ २३॥ अग्निष्टोमादिभिर्यज्ञैरिष्टवानाप्तदक्षिणैः। अग्निहोत्रेण संस्कारं केन त्वं तु न लप्स्यसे॥ २४॥ प्रव्रज्यामुपपन्नानां त्रयाणामेकमागतम्। परिप्रक्ष्यति कौसल्या लक्ष्मणं शोकलालसा॥ २५॥ स तस्याः परिपृच्छन्त्या वधं मित्रबलस्य ते। तव चाख्यास्यते नूनं निशायां राक्षसैर्वधम्॥ २६॥ सा त्वां सुप्तं हतं श्रुत्वा मां च रक्षोगृहं गताम्। हृदयेनावदीर्णेन न भविष्यति राघव॥ २७॥ मम हेतोरनार्याया अनघः पार्थिवात्मजः। रामः सागरमुत्तीर्य सत्त्ववान् गोष्पदे हतः॥ २८॥ अहं दाशरथेनोढा मोहात्स्वकुलपांसनी। आर्यपुत्रस्य रामस्य भार्या मृत्युरजायत॥ २९॥ नूनमन्यां मया जातिं वारितं दानमुत्तमम्। याहमद्यैव शोचामि भार्या सर्वातिथेरपि॥ ३०॥ साधु पातय मां क्षिप्रं रामस्योपरि रावण। समानय पतिं पत्न्या कुरु कल्याणमुत्तमम्॥ ३१॥ शिरसा मे शिरश्चास्य कायं कायेन योजय। रावणानुगमिष्यामि गतिं भर्तुर्महात्मनः॥ ३२॥ इती सा दुःखसंतप्ता विललापायतेक्षणा। भर्तुः शिरो धनुस्तत्र समीक्ष्य च पुनः पुनः॥ ३३॥ एवं लालप्यमानायां सीतायां तत्र राक्षसः। अभिचक्राम भर्तारमनीकस्थः कृताञ्जलिः॥ ३४॥ विजयस्वार्यपुत्रेति सोऽभिवाद्य प्रसाद्य च। न्यवेदयदनुप्राप्तं प्रहस्तं वाहिनीपतिम्॥ ३५॥ अमात्यैः सहितः सर्वैः प्रहस्तः समुपस्थितः। तेन दर्शनकामेन वयं प्रस्थापिताः प्रभो॥ ३६॥ नूनमस्ति महाराज राजभावात् क्षमान्वितम्। किञ्चिदात्ययिकं कार्यं तेषां त्वं दर्शनं कुरु॥ ३७॥ एतच्छ्रुत्वा दशग्रीवो राक्षसप्रतिवेदितम्। अशोकवनिकां त्यक्त्वा मन्त्रिणां दर्शनं ययौ॥ ३८॥ स तु सर्वं समर्थ्यैव मन्त्रिभिः कृत्यमात्मनः। सभां प्रविश्य विदधे विदित्वा रामविक्रमम्॥ ३९॥ अन्तर्धानं तु तच्छीर्षं तच्च कार्मुकमुत्तमम्। जगाम रावणस्यैव निर्याणसमनन्तरम्॥ ४०॥ राक्षसेन्द्रस्तु तैः सार्धं मन्त्रिभिर्भीमविक्रमैः। समर्थयामास तदा रामकार्यविनिश्चयम्॥ ४१॥ अविदूरस्थितान् सर्वान् बलाध्यक्षान् हितैषिणः। अब्रवीत्कालसदृशं रावणो राक्षसाधिपः॥ ४२॥ शीघ्रं भेरीनिनादेन स्फुटकोणाहतेन मे। समानयध्वं सैन्यानि वक्तव्यं च न कारणम्॥ ४३॥ ततस्तथेति प्रतिगृह्य तद्वचो बलाधिपास्ते महदात्मनो बलम्। समानयंश्चैव समागतं च ते न्यवेदयन् भर्तरि युद्धकाङ्क्षिणि॥ ४४॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् युद्धकाण्डे सीताविलापो नाम द्वात्रिंशः सर्गः ॥६-३२॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध