अथ तां जातसंतापां तेन वाक्येन मोहिताम्। सरमा ह्लादयामास पृथिवीं द्यौरिवाम्भसा॥ १॥ ततस्तस्या हितं सख्याश्चिकीर्षन्ती सखी वचः। उवाच काले कालज्ञा स्मितपूर्वाभिभाषिणी॥ २॥ उत्सहेयमहं गत्वा त्वद्वाक्यमसितेक्षणे। निवेद्य कुशलं रामे प्रतिच्छन्ना निवर्तितुम्॥ ३॥ न हि मे क्रममाणाया निरालम्बे विहायसि। समर्थो गतिमन्वेतुं पवनो गरुडोऽपि वा॥ ४॥ एवं ब्रुवाणां तां सीता सरमां पुनरब्रवीत्। मधुरं श्लक्ष्णया वाचा पूर्वं शोकाभिपन्नया॥ ५॥ समर्था गगनं गन्तुमपि च त्वं रसातलम्। अवगच्छाम्यकर्तव्यं कर्तव्यं ते मदन्तरे॥ ६॥ मत्प्रियं यदि कर्तव्यं यदि बुद्धिः स्थिरा तव। ज्ञातुमिच्छामि तं गत्वा किं करोतीति रावणः॥ ७॥ स हि मायाबलः क्रूरो रावणः शत्रुरावणः। मां मोहयति दुष्टात्मा पीतमात्रेव वारुणी॥ ८॥ तर्जापयति मां नित्यं भर्त्सापयति चासकृत्। राक्षसीभिः सुघोराभिर्य मां रक्षन्ति नित्यशः॥ ९॥ उद्विग्ना शङ्किता चास्मि न स्वस्थं च मनो मम। तद्भयाच्चाहमुद्विग्ना अशोकवनिकां गता॥ १०॥ या हि नाम कथा तस्य निश्चितं वापि यद्भवेत्। निवेदयेथाः सर्वं तत्परो मे स्यादनुग्रहः॥ ११॥ सा त्वेवं ब्रुवतीं सीतां सरमा वल्गुभाषिणी। उवाच वदनं तस्याः स्पृशन्ती बाष्पविक्लवम्॥ १२॥ एष ते यद्यभिप्रायस्तदा गच्छामि जानकि। गृह्य शत्रोरभिप्रायमुपावृत्तं च पश्य माम्॥ १३॥ एवमुक्त्वा ततो गत्वा समीपं तस्य रक्षसः। शुश्राव कथितं तस्य रावणस्य समन्त्रिणः॥ १४॥ सा श्रुत्वा निश्चयं तस्य निश्चयज्ञा दुरात्मनः। पुनरेवागमत्क्षिप्रमशोकवनिकां तदा॥ १५॥ सा प्रविष्टा पुनस्तत्र ददर्श जनकात्मजाम्। प्रतीक्षमाणां स्वामेव भ्रष्टपद्मामिव श्रियम्॥ १६॥ तां तु सीता पुनः प्राप्तां सरमां वल्गुभाषिणीम्। परिष्वज्य च सुस्निग्धं ददौ च स्वयमासनम्॥ १७॥ इहासीना सुखं सर्वमाख्याहि मम तत्त्वतः। क्रूरस्य निश्चयं तस्य रावणस्य दुरात्मनः॥ १८॥ एवमुक्ता तु सरमा सीतया वेपमानया। कथितं सर्वमाचष्ट रावणस्य समन्त्रिणः॥ १९॥ जनन्या राक्षसेन्द्रो वै त्वन्मोक्षार्थं बृहद्वचः। अविद्धेन च वैदेहि मन्त्रिवृद्धेन बोधितः॥ २०॥ दीयतामभिसत्कृत्य मनुजेन्द्राय मैथिली। निदर्शनं ते पर्याप्तं जनस्थाने यदद्भुतम्॥ २१॥ लङ्घनं च समुद्रस्य दर्शनं च हनूमतः। वधं च रक्षसां युद्धे कः कुर्यान्मानुषो भुवि॥ २२॥ एवं स मन्त्रिवृद्धैन मात्रा च बहु भाषितः। न त्वामुत्सहते मोक्तुमर्थमर्थपरो यथा॥ २३॥ नोत्सहत्यमृतो मोक्तुं युद्धे त्वामिति मैथिलि। सामात्यस्य नृशंसस्य निश्चयो ह्येष वर्तते॥ २४॥ तदेषा निश्चिता बुद्धिर्मृत्युलोभादुपस्थिता। भयान्न शक्तस्त्वां मोक्तुमनिरस्तस्तु संयुगे॥ २५॥ राक्षसानां च सर्वेषामात्मनश्च वधेन हि। निहत्य रावणं संख्ये सर्वथा निशितैः शरैः॥ २६॥ प्रतिनेष्यति रामस्त्वामयोध्यामसितेक्षणे। एतस्मिन्नन्तरे शब्दो भेरीशङ्खसमाकुलः। श्रुतो वानरसैन्यानां कम्पयन् धरणीतलम्॥ २७॥ श्रुत्वा तु तद्वानरसैन्यशब्दं लङ्कागता राक्षसराजभृत्याः। नष्टौजसो दैन्यपरीतचेष्टाः श्रेयो न पश्यन्ति नृपस्य दोषैः॥ २८॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् युद्धकाण्डे रावणनिश्चयकथनं नाम चतुस्त्रिंशः सर्गः ॥६-३४॥