श्रुत्वा हनूमतो वाक्यं यथावदनुपूर्वशः। ततोऽब्रवीन्महातेजा रामः सत्यपराक्रमः॥ १॥ यां निवेदयसे लङ्कां पुरीं भीमस्य रक्षसः। क्षिप्रमेनां मथिष्यामि सत्यमेतद् ब्रवीमि ते॥ २॥ अस्मिन् मुहूर्ते सुग्रीव प्रयाणमभिरोचय। युक्तो मुहूर्ते विजयः प्राप्तो मध्यं दिवाकरः॥ ३॥ अस्मिन् मुहूर्ते विजये प्राप्ते मध्यं दिवाकरे। सीतां हृत्वा तु मे यातु क्वासौ यास्यति यास्यतः॥ ४॥ सीता श्रुत्वाभियानं मे आशामेष्यति जीविते। जीवितान्तेऽमृतं स्पृष्ट्वा पीत्वामृतमिवातुरः॥ ५॥ उत्तरा फाल्गुनी ह्यद्य श्वस्तु हस्तेन योक्ष्यते। अभिप्रयाम सुग्रीव सर्वानीकसमावृताः॥ ६॥ निमित्तानि च धन्यानि यानि प्रादुर्भवन्ति च। निहत्य रावणं सीतामानयिष्यामि जानकीम्॥ ७॥ उपरिष्टाद्धि नयनं स्फुरमाणमिदं मम। विजयं समनुप्राप्तं शंसतीव मनोरथम्॥ ८॥ ततो वानरराजेन लक्ष्मणेन पूजितः। उवाच रामो धर्मात्मा पुनरप्यर्थकोविदः॥ ९॥ अग्रे यातु बलस्यास्य नीलो मार्गमवेक्षितुम्। वृतः शतसहस्रेण वानराणां तरस्विनाम्॥ १०॥ फलमूलवता नील शीतकाननवारिणा। पथा मधुमता चाशु सेनां सेनापते नय॥ ११॥ दूषयेयुर्दुरात्मानः पथि मूलफलोदकम्। राक्षसाः परिरक्षेथास्तेभ्यस्त्वं नित्यमुद्यतः॥ १२॥ निम्नेषु गिरिदुर्गेषु वनेषु च वनौकसः। अभिप्लुत्याभिपश्येयुः परेषां निहितं बलम्॥ १३॥ यच्च फल्गु बलं किञ्चित् तदत्रैवोपयुज्यताम्। एतद्धि कृत्यं घोरं नो विक्रमेण प्रयुध्यताम्॥ १४॥ सागरौघनिभं भीममग्रानीकं महाबलाः। कपिसिंहाः प्रकर्षन्तु शतशोऽथ सहस्रशः॥ १५॥ गजश्च गिरिसंकाशो गवयश्च महाबलः। गवाक्षश्चाग्रतो यान्तु वाहिन्या वानरर्षभाः॥ १६॥ यातु वानरवाहिन्या वानरः प्लवतां वरः। पालयन् दक्षिणं पार्श्वमृषभो वानरर्षभः॥ १७॥ गन्धहस्तीव दुर्धर्षस्तरस्वी गन्धमादनः। यातु वानरवाहिन्याः सव्यं पार्श्वमधिष्ठितः॥ १८॥ यास्यामि बलमध्येऽहं बलौघमभिहर्षयन्। अधिरुह्य हनूमन्तमैरावतमिवेश्वरः॥ १९॥ अङ्गदेनैष संयातु लक्ष्मणश्चान्तकोपमः। सार्वभौमेन भूतेशो द्रविणाधिपतिर्यथा॥ २०॥ जाम्बवांश्च सुषेणश्च वेगदर्शी च वानरः। ऋक्षराजो महासत्त्वः कुक्षिं रक्षन्तु ते त्रयः॥ २१॥ राघवस्य वचः श्रुत्वा सुग्रीवो वाहिनीपतिः। व्यादिदेश महावीर्यान् वानरान् वानरर्षभः॥ २२॥ ते वानरगणाः सर्वे समुत्पत्य युयुत्सवः। गुहाभ्यः शिखरेभ्यश्च आशु पुप्लुविरे तदा॥ २३॥ ततो वानरराजेन लक्ष्मणेन च पूजितः। जगाम रामो धर्मात्मा ससैन्यो दक्षिणां दिशम्॥ २४॥ शतैः शतसहस्रैश्च कोटिभिरयुतैरपि। वारणाभैश्च हरिभिर्ययौ परिवृतस्तदा॥ २५॥ तं यान्तमनुयान्ती स्म महती हरिवाहिनी। हृष्टाः प्रमुदिताः सर्वे सुग्रीवेणाभिपालिताः॥ २६॥ आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवङ्गमाः। क्ष्वेलन्तो निनदन्तश्च जग्मुर्वै दक्षिणां दिशम्॥ २७॥ भक्षयन्तः सुगन्धीनि मधूनि च फलानि च। उद्वहन्तो महावृक्षान् मञ्जरीपुञ्जधारिणः॥ २८॥ अन्योन्यं सहसा दृप्ता निर्वहन्ति क्षिपन्ति च। पतन्तश्चोत्पतन्त्यन्ये पातयन्त्यपरे परान्॥ २९॥ रावणो नो निहन्तव्यः सर्वे च रजनीचराः। इति गर्जन्ति हरयो राघवस्य समीपतः॥ ३०॥ पुरस्तादृषभो वीरो नीलः कुमुद एव च। पन्थानं शोधयन्ति स्म वानरैर्बहुभिर्वृताः॥ ३१॥ मध्ये तु राजा सुग्रीवो रामो लक्ष्मण एव च। बलिभिर्बहुभिः शूरैर्वृताः शत्रुनिबर्हणैः॥ ३२॥ हरिः शतबलिर्वीरः कोटिभिर्दशभिर्वृतः। सर्वामेको ह्यवष्टभ्य ररक्ष हरिवाहिनीम्॥ ३३॥ कोटीशतपरीवारः केसरी पनसो गजः। अर्कश्चातिबलः पार्श्वमेकं तस्याभिरक्षति॥ ३४॥ सुषेणो जाम्बवांश्चैव ऋक्षैश्च बहुभिरावृतौ। सुग्रीवं पुरतः कृत्वा जघनं संररक्षतुः॥ ३५॥ तेषां सेनापतिर्वीरो नीलो वानरपुंगवः। सम्पतन् प्लवतां श्रेष्ठस्तद् बलं पर्यपालयत्॥ ३६॥ दरीमुखः प्रजङ्घश्च जम्भोऽथ रभसः कपिः। सर्वतश्च ययुर्वीरास्त्वरयन्तः प्लवङ्गमान्॥ ३७॥ एवं ते हरिशार्दूला गच्छन्ति बलदर्पिताः। अपश्यंस्ते गिरिश्रेष्ठं सह्यं द्रुमलतायुतम्॥ ३८॥ सरांसि च सुफुल्लानि तटाकानि महान्ति च। रामस्य शासनं ज्ञात्वा भीमकोपस्य भीतवत्॥ ३९॥ वर्जयन् नागराभ्याशांस्तथा जनपदानपि। सागरौघनिभं भीमं तद् वानरबलं महत्॥ ४०॥ निःससर्प महाघोषं भीमघोष इवार्णवः। तस्य दाशरथेः पार्श्वे शूरास्ते कपिकुञ्जराः॥ ४१॥ तूर्णमापुप्लुवुः सर्वे सदश्वा इव चोदिताः। कपिभ्यामुह्यमानौ तौ शुशुभाते नरर्षभौ॥ ४२॥ महद्भ्यामिव संस्पृष्टौ ग्रहाभ्यां चन्द्रभास्करौ। ततो वानरराजेन लक्ष्मणेन च पूजितः॥ ४३॥ जगाम रामो धर्मात्मा ससैन्यो दक्षिणां दिशम्। तमङ्गदगतो रामं लक्ष्मणः शुभया गिरा॥ ४४॥ उवाच परिपूर्णार्थं वचनं प्रतिभानवान्। हृतामवाप्य वैदेहीं क्षिप्रं हत्वा च रावणम्॥ ४५॥ समृद्धार्थः समृद्धार्थामयोध्यां प्रतियास्यसि। महान्ति च निमित्तानि दिवि भूमौ च राघव॥ ४६॥ शुभानि तव पश्यामि सर्वाण्येवार्थसिद्धये। अनुवाति शुभो वायुः सेनां मृदुहितः सुखः॥ ४७॥ पूर्णवल्गुस्वराश्चेमे प्रवदन्ति मृगद्विजाः। प्रसन्नाश्च दिशः सर्वा विमलश्च दिवाकरः॥ ४८॥ उशनाश्च प्रसन्नार्चिरनु त्वां भार्गवो गतः। ब्रह्मराशिर्विशुद्धश्च शुद्धाश्च परमर्षयः॥ ४९॥ अर्चिष्मन्तः प्रकाशन्ते ध्रुवं सर्वे प्रदक्षिणम्। त्रिशङ्कुर्विमलो भाति राजर्षिः सपुरोहितः॥ ५०॥ पितामहः पुरोऽस्माकमिक्ष्वाकूणां महात्मनाम्। विमले च प्रकाशेते विशाखे निरुपद्रवे॥ ५१॥ नक्षत्रवरमस्माकमिक्ष्वाकूणां महात्मनाम्। नैर्ऋतं नैर्ऋतानां च नक्षत्रमभिपीड्यते॥ ५२॥ मूलो मूलवता स्पृष्टो धूप्यते धूमकेतुना। सर्वं चैतद् विनाशाय राक्षसानामुपस्थितम्॥ ५३॥ काले कालगृहीतानां नक्षत्रं ग्रहपीडितम्। प्रसन्नाः सुरसाश्चापो वनानि फलवन्ति च॥ ५४॥ प्रवान्त्यभ्यधिकं गन्धान् यथर्तुकुसुमा द्रुमाः। व्यूढानि कपिसैन्यानि प्रकाशन्तेऽधिकं प्रभो॥ ५५॥ देवानामिव सैन्यानि सङ्ग्रामे तारकामये। एवमार्य समीक्ष्यैतान्त् प्रीतो भवितुमर्हसि॥ ५६॥ इति भ्रातरमाश्वास्य हृष्टः सौमित्रिरब्रवीत्। अथावृत्य महीं कृत्स्नां जगाम महती चमूः॥ ५७॥ ऋक्षवानरशार्दूलैर्नखदंष्ट्रायुधैर्वृता। कराग्रैश्चरणाग्रैश्च वानरैरुत्थितं रजः॥ ५८॥ भीममन्तर्दधे लोकं निवार्य सवितुः प्रभाम्। सपर्वतवनाकाशं दक्षिणां हरिवाहिनी॥ ५९॥ छादयन्ती ययौ भीमा द्यामिवाम्बुदसन्ततिः। उत्तरन्त्यां च सेनायाः सततं बहुयोजनम्॥ ६०॥ नदीस्रोतांसि सर्वाणि सस्यन्दुर्विपरीतवत्। सरांसि विमलाम्भांसि द्रुमाकीर्णांश्च पर्वतान्॥ ६१॥ समान् भूमिप्रदेशांश्च वनानि फलवन्ति च। मध्येन च समन्ताच्च तिर्यक् चाधश्च साविशत्॥ ६२॥ समावृत्य महीं कृत्स्नां जगाम महती चमूः। ते हृष्टमनसः सर्वे जग्मुर्मारुतरंहसः॥ ६३॥ हरयो राघवस्यार्थे समारोपितविक्रमाः। हर्षवीर्यबलोद्रेकान् दर्शयन्तः परस्परम्॥ ६४॥ यौवनोत्सेकजान् दर्पाद् विविधांश्चक्रुरध्वनि। तत्र केचिद् द्रुतं जग्मुरुत्पेतुश्च तथापरे॥ ६५॥ केचित्किलकिलां चक्रुर्वानरा वनगोचराः। प्रास्फोटयंश्च पुच्छानि संनिजघ्नुः पदान्यपि॥ ६६॥ भुजान् विक्षिप्य शैलांश्च द्रुमानन्ये बभञ्जिरे। आरोहन्तश्च शृङ्गाणि गिरीणां गिरिगोचराः॥ ६७॥ महानादान् विमुञ्चन्ति क्ष्वेलामन्ये प्रचक्रिरे। ऊरुवेगैश्च ममृदुर्लताजालान्यनेकशः॥ ६८॥ जृम्भमाणाश्च विक्रान्ता विचिक्रीडुः शिलाद्रुमैः। शतैः शतसहस्रैश्च कोटिभिश्च सहस्रशः॥ ६९॥ वानराणां सुघोराणां यूथैः परिवृता मही। सा स्म याति दिवारात्रं महती हरिवाहिनी॥ ७०॥ हृष्टा प्रमुदिताः सेना सुग्रीवेणाभिरक्षिता। वानरास्त्वरितं यान्ति सर्वे युद्धाभिनन्दिनः॥ ७१॥ मुमोक्षयिषवः सीतां मुहूर्तं क्वापि नासत। ततः पादपसम्बाधं नानामृगसमायुतम्॥ ७२॥ सह्यपर्वतमासेदुर्मलयं च महीधरम्। काननानि विचित्राणि नदीप्रस्रवणानि च॥ ७३॥ पश्यन्नभिययौ रामः सह्यस्य मलयस्य च। चम्पकांस्तिलकांश्चूतानशोकान् सिन्दुवारकान्॥ ७४॥ करवीरांश्च तिनिशान् भञ्जन्ति स्म प्लवङ्गमाः। अङ्कोलांश्च करञ्जांश्च प्लक्षन्यग्रोधतिन्दुकान्॥ ७५॥ जम्बूकामलकान् नीपान् भञ्जन्ति स्म प्लवङ्गमाः। प्रस्तरेषु च रम्येषु विविधाः काननद्रुमाः॥ ७६॥ वायुवेगप्रचलिताः पुष्पैरवकिरन्ति तान्। मारुतः सुखसंस्पर्शो वाति चन्दनशीतलः॥ ७७॥ षट्पदैरनुकूजद्भिर्वनेषु मधुगन्धिषु। अधिकं शैलराजस्तु धातुभिः सुविभूषितः॥ ७८॥ धातुभ्यः प्रसृतो रेणुर्वायुवेगविघट्टितः। सुमहद्वानरानीकं छादयामास सर्वतः॥ ७९॥ गिरिप्रस्थेषु रम्येषु सर्वतः सम्प्रपुष्पिताः। केतक्यः सिन्धुवाराश्च वासन्त्यश्च मनोरमाः॥ ८०॥ माधव्यो गन्धपूर्णाश्च कुन्दगुल्माश्च पुष्पिताः। चिरिबिल्वा मधूकाश्च वञ्जुला बकुलास्तथा॥ ८१॥ स्फूर्जकास्तिलकाश्चैव नागवृक्षाश्च पुष्पिताः। चूताः पाटलयश्चैव कोविदाराश्च पुष्पिताः॥ ८२॥ मुचुलिन्दार्जुनाश्चैव शिंशपाः कुटजास्तथा। धवाः शाल्मलयश्चैव रक्तः कुरबकास्तथा॥ ८३॥ हिन्तालास्तिनिशाश्चैव चूर्णका नीपकास्तथा। नीलाशोकाश्च वरणा अङ्कोलाः पद्मकास्तथा॥ ८४॥ प्लवमानैः प्लवङ्गैस्तु सर्वे पर्याकुलीकृताः। वाप्यस्तस्मिन् गिरौ शिताः पल्वलानि तथैव च॥ ८५॥ चक्रवाकानुचरिताः कारण्डवनिषेविताः। प्लवैः क्रौञ्चैश्च संकीर्णा वराहमृगसेविताः॥ ८६॥ ऋक्षैस्तरक्षुभिः सिंहैः शार्दूलैश्च भयावहैः। व्यालैश्च बहुभिर्भीमैः सेव्यमानाः समन्ततः॥ ८७॥ पद्मैः सौगन्धिकैः फुल्लैः कुमुदैश्चोत्पलैस्तथा। वारिजैर्विविधैः पुष्पै रम्यास्तत्र जलाशयाः॥ ८८॥ तस्य सानुषु कूजन्ति नानाद्विजगणास्तथा। स्नात्वा पीत्वोदकान्यत्र जले क्रीडन्ति वानराः॥ ८९॥ अन्योन्यं प्लावयन्ति स्म शैलमारुह्य वानराः। फलान्यमृतगन्धीनि मूलानि कुसुमानि च॥ ९०॥ बभञ्जुर्वानरास्तत्र पादपानां मदोत्कटाः। द्रोणमात्रप्रमाणानि लम्बमानानि वानराः॥ ९१॥ ययुः पिबन्तः हृष्टास्ते मधूनि मधुपिङ्गलाः। पादपानवभञ्जन्तो विकर्षन्तस्तथा लताः॥ ९२॥ विधमन्तो गिरिवरान् प्रययुः प्लवगर्षभाः। वृक्षेभ्योऽन्ये तु कपयो नदन्तो मधुदर्पिताः॥ ९३॥ अन्ये वृक्षान् प्रपद्यन्ते प्रपतन्त्यपि चापरे। बभूव वसुधा तैस्तु सम्पूर्णा हरियूथपैः॥ ९४॥ यथा कमलकेदारैः पक्वैरिव वसुन्धरा। महेन्द्रमथ सम्प्राप्य रामो राजीवलोचनः॥ ९५॥ अध्यारोहन्महाबाहुः शिखरं द्रुमभूषितम्। ततः शिखरमारुह्य रामो दशरथात्मजः॥ ९६॥ कूर्ममीनसमाकीर्णमपश्यत् सलिलाकरम्। ते सह्यं समतिक्रम्य मलयं च महागिरिम्॥ ९७॥ आसेदुरानुपूर्व्येण समुद्रं भीमनिःस्वनम्। अवरुह्य जगामाशु वेलावनमनुत्तमम्॥ ९८॥ रामो रमयतां श्रेष्ठः ससुग्रीवः सलक्ष्मणः। अथ धौतोपलतलां तोयौघैः सहसोत्थितैः॥ ९९॥ वेलामासाद्य विपुलां रामो वचनमब्रवीत्। एते वयमनुप्राप्ताः सुग्रीव वरुणालयम्॥ १००॥ इहेदानीं विचिन्ता सा या नः पूर्वं समुपस्थिता। अतः परमतीरोऽयं सागरः सरितां पतिः॥ १०१॥ न चायमनुपायेन शक्यस्तरितुमर्णवः। तदिहैव निवेशोऽस्तु मन्त्रः प्रस्तूयतामिति॥ १०२॥ यथेदं वानरबलं परं पारमवाप्नुयात्। इतीव स महाबाहुः सीताहरणकर्शितः॥ १०३॥ रामः सागरमासाद्य वासमाज्ञापयत् तदा। सर्वाः सेना निवेश्यन्तां वेलायां हरिपुङ्गव॥ १०४॥ सम्प्राप्तो मन्त्रकालो नः सागरस्यास्य लङ्घने। स्वां स्वां सेनां समुत्सृज्य मा च कश्चित्कुतो व्रजेत्॥ १०५॥ गच्छन्तु वानराः शूरा ज्ञेयं छन्नं भयं च नः। रामस्य वचनं श्रुत्वा सुग्रीवः सहलक्ष्मणः॥ १०६॥ सेनां न्यवेशयत् तीरे सागरस्य द्रुमायुते। विरराज समीपस्थं सागरस्य च तद्बलम्॥ १०७॥ मधुपाण्डुजलः श्रीमान् द्वितीय इव सागरः। वेलावनमुपागम्य ततस्ते हरिपुङ्गवाः॥ १०८॥ विनिविष्टटाः परं पारं काङ्क्षमाणा महोदधेः। तेषां निविशमानानां सैन्यसन्नाहनिःस्वनः॥ १०९॥ अन्तर्धाय महानादमर्णवस्य प्रशुश्रुवे। सा वानराणां ध्वजिनी सुग्रीवेणाभिपालिता॥ ११०॥ त्रिधा निविष्टा महती रामस्यार्थपराभवत्। सा महार्णवमासाद्य हृष्टा वानरवाहिनी॥ १११॥ वायुवेगसमाधूतं पश्यमाना महार्णवम्। दूरपारमसम्बाधं रक्षोगणनिषेवितम्॥ ११२॥ पश्यन्तो वरुणावासं निषेदुर्हरियूथपाः॥ १०९॥ चण्डनक्रग्राहं घोरं क्षपादौ दिवसक्षये॥ ११३॥ हसन्तमिव फेनौघैर्नृत्यन्तमिव चोर्मिभिः। चन्द्रोदयसमुद्धूतं प्रतिचन्द्रसमाकुलम्॥ ११४॥ पिनष्टीव तरङ्गाग्रैरर्णवः फेनचन्दनम्। तदादाय करैरिन्दुर्लिम्पतीव दिगङ्गनाः॥ ११५॥ चण्डानिलमहाग्राहैः कीर्णं तिमितिमिङ्गिलैः। दीप्तभोगैरिवाकीर्णं भुजङ्गैर्भुजगालयम्॥ ११६॥ अवगाढं महासत्त्वैर्नानाशैलसमाकुलम्। सुदुर्गं दुर्गमार्गं तमगाधमसुरालयम्॥ ११७॥ मकरैर्नागभोगैश्च विगाढा वातलोलिताः। उत्पेतुश्च निपेतुश्च प्रहृष्टा जलराशयः॥ ११८॥ अग्निचूर्णमिवाविद्धं भास्वराम्बु महोरगम्। सुरारिनिषयं घोरं पातालविषमं सदा॥ ११९॥ सागरं चाम्बरप्रख्यमम्बरं सागरोपमम्। सागरं चाम्बरं चेति निर्विशेषमदृश्यत॥ १२०॥ सम्पृक्तं नभसाप्यम्भः सम्पृक्तं च नभोऽम्भसा। तादृग्रूपे स्म दृश्येते तारारत्नसमाकुले॥ १२१॥ समुत्पतितमेघस्य वीचिमालाकुलस्य च। विशेषो न द्वयोरासीत् सागरस्याम्बरस्य च॥ १२२॥ अन्योन्यमाहताः सक्ताः सस्वनुर्भीमनिःस्वनाः। ऊर्मयः सिन्धुराजस्य महाभेर्य इवाहवे॥ १२३॥ रत्नौघजलसन्नादं विषक्तमिव वायुना। उत्पतन्तमिव क्रुद्धं यादोगणसमाकुलम्॥ १२४॥ ददृशुस्ते महोत्साहा वाताहतमपां पतिम्। अनिलोद्धतमाकाशे प्रवल्गन्तमिवोर्मिभिः॥ १२५॥ ततो विस्मयमापन्ना ददृशुर्हरयस्तदा। भ्रान्तोर्मिजलसन्नादं प्रलोलमिव सागरम्॥ १२६॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् युद्धकाण्डे रामाभिषेणनं नाम चतुर्थः सर्गः ॥६-४॥