प्रतिप्रविष्टे लङ्कां तु कृतार्थे रावणात्मजे। राघवं परिवार्यार्ता ररक्षुर्वानरर्षभाः॥ १॥ हनुमानङ्गदो नीलः सुषेणः कुमुदो नलः। गजो गवाक्षो गवयः शरभो गन्धमादनः॥ २॥ जाम्बवानृषभः स्कन्धो रम्भः शतवलिः पृथुः। व्यूढानीकाश्च यत्ताश्च द्रुमानादाय सर्वतः॥ ३॥ वीक्षमाणा दिशः सर्वास्तिर्यगूर्ध्वं च वानराः। तृणेष्वपि च चेष्टत्सु राक्षसा इति मेनिरे॥ ४॥ रावणश्चापि संहृष्टो विसृज्येन्द्रजितं सुतम्। आजुहाव ततः सीतारक्षणी राक्षसीस्तदा॥ ५॥ राक्षस्यस्त्रिजटा चैव शासनात्समुपस्थिताः। ता उवाच ततो हृष्टो राक्षसी राक्षसाधिपः॥ ६॥ हताविन्द्रजिताऽऽख्यात वैदेह्या रामलक्ष्मणौ। पुष्पकं च समारोप्य दर्शयध्वं हतौ रणे॥ ७॥ यदाश्रयादवष्टब्धा नेयं मामुपतिष्ठति। सोऽस्या भर्ता सह भ्रात्रा निरस्तो रणमूर्धनि॥ ८॥ निर्विशङ्का निरुद्विग्ना निरपेक्षा च मैथिली। मामुपस्थास्यते सीता सर्वाभरणभूषिता॥ ९॥ अद्य कालवशं प्राप्तं रणे रामं सलक्ष्मणम्। स्ववेक्ष्य विनिवृत्ताशा चान्यां गतिमपश्यती॥ १०॥ निरपेक्षा विशालाक्षी मामुपस्थास्यते स्वयम्। तस्य तद्वचनं श्रुत्वा रावणस्य दुरात्मनः॥ ११॥ राक्षस्यस्तथेत्युक्त्वा जग्मुर्वै यत्र पुष्पकम्। ततः पुष्पकमादाय राक्षस्यो रावणाज्ञया॥ १२॥ अशोकवनिकास्थां तां मैथिलीं समुपानयन्। तामादाय तु राक्षस्यो भर्तृशोकपराजिताम्॥ १३॥ सीतामारोपयामासुर्विमानं पुष्पकं तदा। ततः पुष्पकमारोप्य सीतां त्रिजटया सह॥ १४॥ जग्मुर्दर्शयितुं तस्यै राक्षस्यो रामलक्ष्मणौ। रावणोऽकारयाल्लङ्कां पताकाध्वजमालिनीम्॥ १५॥ प्राघोषयत हृष्टश्च लङ्कायां राक्षसेश्वरः। राघवो लक्ष्मणश्चैव हताविन्द्रजिता रणे॥ १६॥ विमानेनापि सीता तु गत्वा त्रिजटया सह। ददर्श वानराणां तु सर्वं सैन्यं निपातितम्॥ १७॥ प्रहृष्टमनसश्चापि ददर्श पिशिताशनान्। वानरांश्चापि दुःखार्तान् रामलक्ष्मणपार्श्वतः॥ १८॥ ततः सीता ददर्शोभौ शयानौ शरतल्पयोः। लक्ष्मणं चापि रामं च विसंज्ञौ शरपीडितौ॥ १९॥ विध्वस्तकवचौ वीरौ विप्रविद्धशरासनौ। सायकैश्छिन्नसर्वाङ्गौ शरस्तम्बमयौ क्षितौ॥ २०॥ तौ दृष्ट्वा भ्रातरौ तत्र वीरौ सा पुरुषर्षभौ। शयानौ पुण्डरीकाक्षौ कुमाराविव पावकी॥ २१॥ शरतल्पगतौ वीरौ तथाभूतौ नरर्षभौ। दुःखार्ता सुभृशं सीता सुचिरं विललाप ह॥ २२॥ भर्तारमनवद्याङ्गी लक्ष्मणं चासितेक्षणा। प्रेक्ष्य पांसुषु वेष्टन्तौ रुरोद जनकात्मजा॥ २३॥ सा बाष्पशोकाभिहता समीक्ष्य तौ भ्रातरौ देवसुमप्रभावौ। वितर्कयन्ती निधनं तयोः सा दुःखान्विता वाक्यमिदं जगाद॥ २४॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् युद्धकाण्डे नागबद्धरामलक्ष्मणप्रदर्शनं नाम सप्तचत्वारिंशः सर्गः ॥ ४७ ॥